Ṛgveda · Maṇḍala 10 · Sūkta 180

Ṛk 10.180.3

Indra · Jaya Aindri

The whole sūkta Link

Saṃhitā

इंद्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नां ।
अपा॑नुदो॒ जन॑ममित्र॒यंत॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कं ॥

इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् |
अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ||

índra kṣatrámabhí vāmámójó’jāyathā vṛṣabha carṣaṇīnā́m ǀ
ápānudo jánamamitrayántamurúm devébhyo akṛṇoru lokám ǁ

indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām |
apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam ||

Padapāṭha

इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।
अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊं॒ इति॑ । लो॒कम् ॥

इन्द्र । क्षत्रम् । अभि । वामम् । ओजः । अजायथाः । वृषभ । चर्षणीनाम् ।
अप । अनुदः । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्यः । अकृणोः । ऊं इति । लोकम् ॥

índra ǀ kṣatrám ǀ abhí ǀ vāmám ǀ ójaḥ ǀ ájāyathāḥ ǀ vṛṣabha ǀ carṣaṇīnā́m ǀ
ápa ǀ anudaḥ ǀ jánam ǀ amitra-yántam ǀ urúm ǀ devébhyaḥ ǀ akṛṇoḥ ǀ ūṃ íti ǀ lokám ǁ

indra ǀ kṣatram ǀ abhi ǀ vāmam ǀ ojaḥ ǀ ajāyathāḥ ǀ vṛṣabha ǀ carṣaṇīnām ǀ
apa ǀ anudaḥ ǀ janam ǀ amitra-yantam ǀ urum ǀ devebhyaḥ ǀ akṛṇoḥ ǀ ūṃ iti ǀ lokam ǁ

References

Maṇḍala · Sūkta · Ṛk
10.180.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.38.03
Maṇḍala · Anuvāka · Ṛk
10.12.133
Devatā देवता
Indra
Ṛṣi ऋषि
Jaya Aindri
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.180.3

Interpretations

Sāyaṇa

हे इन्द्र क्षत्रं क्षत्रात्त्रायकं वामं वननीयमोजो बलमभिलक्ष्याजायथाः। उत्पन्नोऽसि। हे व्रुशभ कामानां वर्षितः चर्षणीनां मनुष्याणामस्माकम्। नामन्यतरस्यामिति नाम उदात्तत्वम्। अमित्रयन्तम्। अमित्रः शत्रुः। स इवाचरन्तं जनमपानुदः। अपागमयः। देवेभ्यश्चोरुम् विस्तीर्णं लोकं स्वर्गाख्यमकृणोः। अकार्षीः। उशब्दः समुच्चये॥३॥