Ṛgveda · Maṇḍala 10

Sūkta 42

Indra · Kṛṣṇa Āṅgirasa · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Kṛṣṇa Āṅgirasa
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1, 3, 7-9, 11); nicṛttriṣṭup (2, 5); virāṭtrisṭup (6, 10); pādanicṛttriṣṭup (4)

2nd set of styles triṣṭubh

  1. Ṛk 1

    अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै ।
    वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरितः॒ सोम॒ इंद्रं॑ ॥

    अस्तेव सु प्रतरं लायम् अस्यन् भूषन्न् इव प्र भरा स्तोमम् अस्मै |
    वाचा विप्रास् तरत वाचम् अर्यो नि रामय जरितः सोम इन्द्रम् ||

    ásteva sú pratarám lā́yamásyanbhū́ṣanniva prá bharā stómamasmai ǀ
    vācā́ viprāstarata vā́camaryó ní rāmaya jaritaḥ sóma índram ǁ

    asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai |
    vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram ||

    अस्ता॑ऽइव । सु । प्र॒ऽत॒रम् । लाय॑म् । अस्य॑न् । भूष॑न्ऽइव । प्र । भ॒र॒ । स्तोम॑म् । अ॒स्मै॒ ।
    वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच॑म् । अ॒र्यः । नि । र॒म॒य॒ । ज॒रि॒त॒रिति॑ । सोमे॑ । इन्द्र॑म् ॥

    अस्ताऽइव । सु । प्रऽतरम् । लायम् । अस्यन् । भूषन्ऽइव । प्र । भर । स्तोमम् । अस्मै ।
    वाचा । विप्राः । तरत । वाचम् । अर्यः । नि । रमय । जरितरिति । सोमे । इन्द्रम् ॥

    ástā-iva ǀ sú ǀ pra-tarám ǀ lā́yam ǀ ásyan ǀ bhū́ṣan-iva ǀ prá ǀ bhara ǀ stómam ǀ asmai ǀ
    vācā́ ǀ viprāḥ ǀ tarata ǀ vā́cam ǀ aryáḥ ǀ ní ǀ ramaya ǀ jaritaríti ǀ sóme ǀ índram ǁ

    astā-iva ǀ su ǀ pra-taram ǀ lāyam ǀ asyan ǀ bhūṣan-iva ǀ pra ǀ bhara ǀ stomam ǀ asmai ǀ
    vācā ǀ viprāḥ ǀ tarata ǀ vācam ǀ aryaḥ ǀ ni ǀ ramaya ǀ jaritariti ǀ some ǀ indram ǁ

    10.42.1 Aṣṭaka 7.8.22.1Anuvāka 10.3.135

  2. Ṛk 2

    दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिंद्रं॑ ।
    कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूरं॑ ॥

    दोहेन गाम् उप शिक्षा सखायम् प्र बोधय जरितर् जारम् इन्द्रम् |
    कोशं न पूर्णं वसुना न्यृष्टम् आ च्यावय मघदेयाय शूरम् ||

    dóhena gā́múpa śikṣā sákhāyam prá bodhaya jaritarjārámíndram ǀ
    kóśam ná pūrṇám vásunā nyṛ́ṣṭamā́ cyāvaya maghadéyāya śū́ram ǁ

    dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram |
    kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram ||

    दोहे॑न । गाम् । उप॑ । शि॒क्ष॒ । सखा॑यम् । प्र । बो॒ध॒य॒ । ज॒रि॒तः॒ । जा॒रम् । इन्द्र॑म् ।
    कोश॑म् । न । पू॒र्णम् । वसु॑ना । निऽऋ॑ष्टम् । आ । च्य॒व॒य॒ । म॒घ॒ऽदेया॑य । शूर॑म् ॥

    दोहेन । गाम् । उप । शिक्ष । सखायम् । प्र । बोधय । जरितः । जारम् । इन्द्रम् ।
    कोशम् । न । पूर्णम् । वसुना । निऽऋष्टम् । आ । च्यवय । मघऽदेयाय । शूरम् ॥

    dóhena ǀ gā́m ǀ úpa ǀ śikṣa ǀ sákhāyam ǀ prá ǀ bodhaya ǀ jaritaḥ ǀ jārám ǀ índram ǀ
    kóśam ǀ ná ǀ pūrṇám ǀ vásunā ǀ ní-ṛṣṭam ǀ ā́ ǀ cyavaya ǀ magha-déyāya ǀ śū́ram ǁ

    dohena ǀ gām ǀ upa ǀ śikṣa ǀ sakhāyam ǀ pra ǀ bodhaya ǀ jaritaḥ ǀ jāram ǀ indram ǀ
    kośam ǀ na ǀ pūrṇam ǀ vasunā ǀ ni-ṛṣṭam ǀ ā ǀ cyavaya ǀ magha-deyāya ǀ śūram ǁ

    10.42.2 Aṣṭaka 7.8.22.2Anuvāka 10.3.136

  3. Ṛk 3

    किमं॒ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।
    अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मिं॒द्रा भ॑रा नः ॥

    किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयं त्वा शृणोमि |
    अप्नस्वती मम धीर् अस्तु शक्र वसुविदम् भगम् इन्द्रा भरा नः ||

    kímaṅgá tvā maghavanbhojámāhuḥ śiśīhí mā śiśayám tvā śṛṇomi ǀ
    ápnasvatī máma dhī́rastu śakra vasuvídam bhágamindrā́ bharā naḥ ǁ

    kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi |
    apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ ||

    किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ।
    अप्न॑स्वती । मम॑ । धीः । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥

    किम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहुः । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ।
    अप्नस्वती । मम । धीः । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । नः ॥

    kím ǀ aṅgá ǀ tvā ǀ magha-van ǀ bhojám ǀ āhuḥ ǀ śiśīhí ǀ mā ǀ śiśayám ǀ tvā ǀ śṛṇomi ǀ
    ápnasvatī ǀ máma ǀ dhī́ḥ ǀ astu ǀ śakra ǀ vasu-vídam ǀ bhágam ǀ indra ǀ ā́ ǀ bhara ǀ naḥ ǁ

    kim ǀ aṅga ǀ tvā ǀ magha-van ǀ bhojam ǀ āhuḥ ǀ śiśīhi ǀ mā ǀ śiśayam ǀ tvā ǀ śṛṇomi ǀ
    apnasvatī ǀ mama ǀ dhīḥ ǀ astu ǀ śakra ǀ vasu-vidam ǀ bhagam ǀ indra ǀ ā ǀ bhara ǀ naḥ ǁ

    10.42.3 Aṣṭaka 7.8.22.3Anuvāka 10.3.137

  4. Ṛk 4

    त्वां जना॑ ममस॒त्येष्विं॑द्र संतस्था॒ना वि ह्व॑यंते समी॒के ।
    अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥

    त्वां जना ममसत्येष्व् इन्द्र संतस्थाना वि ह्वयन्ते समीके |
    अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ||

    tvā́m jánā mamasatyéṣvindra saṃtasthānā́ ví hvayante samīké ǀ
    átrā yújam kṛṇute yó havíṣmānnā́sunvatā sakhyám vaṣṭi śū́raḥ ǁ

    tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke |
    atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ ||

    त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ।
    अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः॑ ॥

    त्वाम् । जनाः । ममऽसत्येषु । इन्द्र । सम्ऽतस्थानाः । वि । ह्वयन्ते । सम्ऽईके ।
    अत्र । युजम् । कृणुते । यः । हविष्मान् । न । असुन्वता । सख्यम् । वष्टि । शूरः ॥

    tvā́m ǀ jánāḥ ǀ mama-satyéṣu ǀ indra ǀ sam-tasthānā́ḥ ǀ ví ǀ hvayante ǀ sam-īké ǀ
    átra ǀ yújam ǀ kṛṇute ǀ yáḥ ǀ havíṣmān ǀ ná ǀ ásunvatā ǀ sakhyám ǀ vaṣṭi ǀ śū́raḥ ǁ

    tvām ǀ janāḥ ǀ mama-satyeṣu ǀ indra ǀ sam-tasthānāḥ ǀ vi ǀ hvayante ǀ sam-īke ǀ
    atra ǀ yujam ǀ kṛṇute ǀ yaḥ ǀ haviṣmān ǀ na ǀ asunvatā ǀ sakhyam ǀ vaṣṭi ǀ śūraḥ ǁ

    10.42.4 Aṣṭaka 7.8.22.4Anuvāka 10.3.138

  5. Ṛk 5

    धनं॒ न स्यं॒द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।
    तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हंति॑ वृ॒त्रं ॥

    धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् सोमां आसुनोति प्रयस्वान् |
    तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ||

    dhánam ná syandrám bahulám yó asmai tīvrā́ntsómām̐ āsunóti práyasvān ǀ
    tásmai śátrūntsutúkānprātáráhno ní sváṣṭrānyuváti hánti vṛtrám ǁ

    dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṃ āsunoti prayasvān |
    tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram ||

    धन॑म् । न । स्य॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ।
    तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥

    धनम् । न । स्यन्द्रम् । बहुलम् । यः । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ।
    तस्मै । शत्रून् । सुऽतुकान् । प्रातः । अह्नः । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥

    dhánam ǀ ná ǀ syandrám ǀ bahulám ǀ yáḥ ǀ asmai ǀ tīvrā́n ǀ sómān ǀ ā-sunóti ǀ práyasvān ǀ
    tásmai ǀ śátrūn ǀ su-túkān ǀ prātáḥ ǀ áhnaḥ ǀ ní ǀ su-áṣṭrān ǀ yuváti ǀ hánti ǀ vṛtrám ǁ

    dhanam ǀ na ǀ syandram ǀ bahulam ǀ yaḥ ǀ asmai ǀ tīvrān ǀ somān ǀ ā-sunoti ǀ prayasvān ǀ
    tasmai ǀ śatrūn ǀ su-tukān ǀ prātaḥ ǀ ahnaḥ ǀ ni ǀ su-aṣṭrān ǀ yuvati ǀ hanti ǀ vṛtram ǁ

    10.42.5 Aṣṭaka 7.8.22.5Anuvāka 10.3.139

  6. Ṛk 6

    यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिंद्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे ।
    आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमंतां ॥

    यस्मिन् वयं दधिमा शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे |
    आराच् चित् सन् भयताम् अस्य शत्रुर् न्य् अस्मै द्युम्ना जन्या नमन्ताम् ||

    yásminvayám dadhimā́ śáṃsamíndre yáḥ śiśrā́ya maghávā kā́mamasmé ǀ
    ārā́ccitsánbhayatāmasya śátrurnyásmai dyumnā́ jányā namantām ǁ

    yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme |
    ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām ||

    यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मे इति॑ ।
    आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रुः॑ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥

    यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । यः । शिश्राय । मघऽवा । कामम् । अस्मे इति ।
    आरात् । चित् । सन् । भयताम् । अस्य । शत्रुः । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥

    yásmin ǀ vayám ǀ dadhimá ǀ śáṃsam ǀ índre ǀ yáḥ ǀ śiśrā́ya ǀ maghá-vā ǀ kā́mam ǀ asmé íti ǀ
    ārā́t ǀ cit ǀ sán ǀ bhayatām ǀ asya ǀ śátruḥ ǀ ní ǀ asmai ǀ dyumnā́ ǀ jányā ǀ namantām ǁ

    yasmin ǀ vayam ǀ dadhima ǀ śaṃsam ǀ indre ǀ yaḥ ǀ śiśrāya ǀ magha-vā ǀ kāmam ǀ asme iti ǀ
    ārāt ǀ cit ǀ san ǀ bhayatām ǀ asya ǀ śatruḥ ǀ ni ǀ asmai ǀ dyumnā ǀ janyā ǀ namantām ǁ

    10.42.6 Aṣṭaka 7.8.23.1Anuvāka 10.3.140

  7. Ṛk 7

    आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शंबः॑ पुरुहूत॒ तेन॑ ।
    अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिंद्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नां ॥

    आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन |
    अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ||

    ārā́cchátrumápa bādhasva dūrámugró yáḥ śámbaḥ puruhūta téna ǀ
    asmé dhehi yávamadgómadindra kṛdhī́ dhíyam jaritré vā́jaratnām ǁ

    ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena |
    asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām ||

    आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ । पु॒रु॒ऽहू॒त॒ । तेन॑ ।
    अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥

    आरात् । शत्रुम् । अप । बाधस्व । दूरम् । उग्रः । यः । शम्बः । पुरुऽहूत । तेन ।
    अस्मे इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥

    ārā́t ǀ śátrum ǀ ápa ǀ bādhasva ǀ dūrám ǀ ugráḥ ǀ yáḥ ǀ śámbaḥ ǀ puru-hūta ǀ téna ǀ
    asmé íti ǀ dhehi ǀ yáva-mat ǀ gó-mat ǀ indra ǀ kṛdhí ǀ dhíyam ǀ jaritré ǀ vā́ja-ratnām ǁ

    ārāt ǀ śatrum ǀ apa ǀ bādhasva ǀ dūram ǀ ugraḥ ǀ yaḥ ǀ śambaḥ ǀ puru-hūta ǀ tena ǀ
    asme iti ǀ dhehi ǀ yava-mat ǀ go-mat ǀ indra ǀ kṛdhi ǀ dhiyam ǀ jaritre ǀ vāja-ratnām ǁ

    10.42.7 Aṣṭaka 7.8.23.2Anuvāka 10.3.141

  8. Ṛk 8

    प्र यमं॒तर्वृ॑षस॒वासो॒ अग्मं॑ती॒व्राः सोमा॑ बहु॒लांता॑स॒ इंद्रं॑ ।
    नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मं ॥

    प्र यम् अन्तर् वृषसवासो अग्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् |
    नाह दामानम् मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ||

    prá yámantárvṛṣasavā́so ágmantīvrā́ḥ sómā bahulā́ntāsa índram ǀ
    nā́ha dāmā́nam maghávā ní yaṃsanní sunvaté vahati bhū́ri vāmám ǁ

    pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram |
    nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam ||

    प्र । यम् । अ॒न्तः । वृ॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ । ब॒हु॒लऽअ॑न्तासः । इन्द्र॑म् ।
    न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥

    प्र । यम् । अन्तः । वृषऽसवासः । अग्मन् । तीव्राः । सोमाः । बहुलऽअन्तासः । इन्द्रम् ।
    न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥

    prá ǀ yám ǀ antáḥ ǀ vṛṣa-savā́saḥ ǀ ágman ǀ tīvrā́ḥ ǀ sómāḥ ǀ bahulá-antāsaḥ ǀ índram ǀ
    ná ǀ áha ǀ dāmā́nam ǀ maghá-vā ǀ ní ǀ yaṃsat ǀ ní ǀ sunvaté ǀ vahati ǀ bhū́ri ǀ vāmám ǁ

    pra ǀ yam ǀ antaḥ ǀ vṛṣa-savāsaḥ ǀ agman ǀ tīvrāḥ ǀ somāḥ ǀ bahula-antāsaḥ ǀ indram ǀ
    na ǀ aha ǀ dāmānam ǀ magha-vā ǀ ni ǀ yaṃsat ǀ ni ǀ sunvate ǀ vahati ǀ bhūri ǀ vāmam ǁ

    10.42.8 Aṣṭaka 7.8.23.3Anuvāka 10.3.142

  9. Ṛk 9

    उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले ।
    यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥

    उत प्रहाम् अतिदीव्या जयाति कृतं यच् छ्वघ्नी विचिनोति काले |
    यो देवकामो न धना रुणद्धि सम् इत् तं राया सृजति स्वधावान् ||

    utá prahā́matidī́vyā jayāti kṛtám yácchvaghnī́ vicinóti kālé ǀ
    yó devákāmo ná dhánā ruṇaddhi sámíttám rāyā́ sṛjati svadhā́vān ǁ

    uta prahām atidīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle |
    yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān ||

    उ॒त । प्र॒ऽहाम् । अ॒ति॒ऽदीव्य॑ । ज॒या॒ति॒ । कृ॒तम् । यत् । श्व॒ऽघ्नी । वि॒ऽचि॒नोति॑ । का॒ले ।
    यः । दे॒वऽका॑मः । न । धना॑ । रु॒ण॒द्धि॒ । सम् । इत् । तम् । रा॒या । सृ॒ज॒ति॒ । स्व॒धाऽवा॑न् ॥

    उत । प्रऽहाम् । अतिऽदीव्य । जयाति । कृतम् । यत् । श्वऽघ्नी । विऽचिनोति । काले ।
    यः । देवऽकामः । न । धना । रुणद्धि । सम् । इत् । तम् । राया । सृजति । स्वधाऽवान् ॥

    utá ǀ pra-hā́m ǀ ati-dī́vya ǀ jayāti ǀ kṛtám ǀ yát ǀ śva-ghnī́ ǀ vi-cinóti ǀ kālé ǀ
    yáḥ ǀ devá-kāmaḥ ǀ ná ǀ dhánā ǀ ruṇaddhi ǀ sám ǀ ít ǀ tám ǀ rāyā́ ǀ sṛjati ǀ svadhā́-vān ǁ

    uta ǀ pra-hām ǀ ati-dīvya ǀ jayāti ǀ kṛtam ǀ yat ǀ śva-ghnī ǀ vi-cinoti ǀ kāle ǀ
    yaḥ ǀ deva-kāmaḥ ǀ na ǀ dhanā ǀ ruṇaddhi ǀ sam ǀ it ǀ tam ǀ rāyā ǀ sṛjati ǀ svadhā-vān ǁ

    10.42.9 Aṣṭaka 7.8.23.4Anuvāka 10.3.143

  10. Ṛk 10

    गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ ।
    व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥

    गोभिष् टरेमामतिं दुरेवां यवेन क्षुधम् पुरुहूत विश्वाम् |
    वयं राजभिः प्रथमा धनान्य् अस्माकेन वृजनेना जयेम ||

    góbhiṣṭaremā́matim durévām yávena kṣúdham puruhūta víśvām ǀ
    vayám rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ǁ

    gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām |
    vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||

    गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।
    व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥

    गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।
    वयम् । राजऽभिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम ॥

    góbhiḥ ǀ tarema ǀ ámatim ǀ duḥ-évām ǀ yávena ǀ kṣúdham ǀ puru-hūta ǀ víśvām ǀ
    vayám ǀ rā́ja-bhiḥ ǀ prathamā́ ǀ dhánāni ǀ asmā́kena ǀ vṛjánena ǀ jayema ǁ

    gobhiḥ ǀ tarema ǀ amatim ǀ duḥ-evām ǀ yavena ǀ kṣudham ǀ puru-hūta ǀ viśvām ǀ
    vayam ǀ rāja-bhiḥ ǀ prathamā ǀ dhanāni ǀ asmākena ǀ vṛjanena ǀ jayema ǁ

    10.42.10 Aṣṭaka 7.8.23.5Anuvāka 10.3.144

  11. Ṛk 11

    बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
    इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥

    बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः |
    इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ||

    bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ ǀ
    índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ǁ

    bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
    indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||

    बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।
    इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥

    बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।
    इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥

    bṛ́haspátiḥ ǀ naḥ ǀ pári ǀ pātu ǀ paścā́t ǀ utá ǀ út-tarasmāt ǀ ádharāt ǀ agha-yóḥ ǀ
    índraḥ ǀ purástāt ǀ utá ǀ madhyatáḥ ǀ naḥ ǀ sákhā ǀ sákhi-bhyaḥ ǀ várivaḥ ǀ kṛṇotu ǁ

    bṛhaspatiḥ ǀ naḥ ǀ pari ǀ pātu ǀ paścāt ǀ uta ǀ ut-tarasmāt ǀ adharāt ǀ agha-yoḥ ǀ
    indraḥ ǀ purastāt ǀ uta ǀ madhyataḥ ǀ naḥ ǀ sakhā ǀ sakhi-bhyaḥ ǀ varivaḥ ǀ kṛṇotu ǁ

    10.42.11 Aṣṭaka 7.8.23.6Anuvāka 10.3.145

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.42 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

EVEN as an archer shoots afar his arrow, offer the laud to him with meet adornment. Quell with your voice the wicked's voice, O sages. Singer, make Indra rest beside the Soma.

Ṛk 2

Draw thy Friend to thee like a cow at milking: O Singer, wake up Indra as a lover. Make thou the Hero haste to give us riches even as a vessel filled brimful with treasure.

Ṛk 3

Why, Maghavan, do they call thee Bounteous; Giver? Quicken me: thou, I hear, art he who quickens. Śakra, let my intelligence be active, and bring us luck that finds great wealth, O Indra.

Ṛk 4

Standing, in battle for their rights, together, the people, Indra, in the fray invoke thee. Him who brings gifts the Hero makes his comrade: with him who pours no juice he seeks not friendship.

Ṛk 5

Whoso with plenteous food for him expresses strong Somas as much quickly-coming treasure, For him he overthrows in early morning his swift well-weaponed foes, and slays the tyrant.

Ṛk 6

He unto whom we offer praises, Indra, Maghavan, who hath joined to ours his wishes,— Before him even afar the foe must tremble: low before him must bow all human glories.

Ṛk 7

With thy fierce bolt, O God invoked of many, drive to a distance from afar the foeman. O Indra, give us wealth in corn and cattle, and make thy singer's prayer gain strength and riches.

Ṛk 8

Indra, the swallower of strong libations rich in the boons they bring, the potent Somas, He, Maghavan, will not restrict his bounty he brings much wealth unto the Soma-presser.

Ṛk 9

Yea, by superior play he wins advantage, when he, a gambler, piles his gains in season. Celestial-natured, he o’erwhelms with riches the devotee who keeps not back his treasure.

Ṛk 10

O Much-invoked, may we subdue all famine and evil want with store of grain and cattle. May we allied, as first in rank, with princes obtain possessions by our own exertion.