Ṛgveda · Maṇḍala 10 · Sūkta 42
Ṛk 10.42.5
Saṃhitā
धनं॒ न स्यं॒द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।
तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हंति॑ वृ॒त्रं ॥
धनं न स्यन्द्रम् बहुलं यो अस्मै तीव्रान् सोमां आसुनोति प्रयस्वान् |
तस्मै शत्रून् सुतुकान् प्रातर् अह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ||
dhánam ná syandrám bahulám yó asmai tīvrā́ntsómām̐ āsunóti práyasvān ǀ
tásmai śátrūntsutúkānprātáráhno ní sváṣṭrānyuváti hánti vṛtrám ǁ
dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṃ āsunoti prayasvān |
tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram ||
Padapāṭha
धन॑म् । न । स्य॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ।
तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥
धनम् । न । स्यन्द्रम् । बहुलम् । यः । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ।
तस्मै । शत्रून् । सुऽतुकान् । प्रातः । अह्नः । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥
dhánam ǀ ná ǀ syandrám ǀ bahulám ǀ yáḥ ǀ asmai ǀ tīvrā́n ǀ sómān ǀ ā-sunóti ǀ práyasvān ǀ
tásmai ǀ śátrūn ǀ su-túkān ǀ prātáḥ ǀ áhnaḥ ǀ ní ǀ su-áṣṭrān ǀ yuváti ǀ hánti ǀ vṛtrám ǁ
dhanam ǀ na ǀ syandram ǀ bahulam ǀ yaḥ ǀ asmai ǀ tīvrān ǀ somān ǀ ā-sunoti ǀ prayasvān ǀ
tasmai ǀ śatrūn ǀ su-tukān ǀ prātaḥ ǀ ahnaḥ ǀ ni ǀ su-aṣṭrān ǀ yuvati ǀ hanti ǀ vṛtram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.042.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.22.05
- Maṇḍala · Anuvāka · Ṛk
- 10.03.139
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.