Ṛgveda · Maṇḍala 10 · Sūkta 42
Ṛk 10.42.7
Saṃhitā
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शंबः॑ पुरुहूत॒ तेन॑ ।
अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिंद्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नां ॥
आराच् छत्रुम् अप बाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन |
अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ||
ārā́cchátrumápa bādhasva dūrámugró yáḥ śámbaḥ puruhūta téna ǀ
asmé dhehi yávamadgómadindra kṛdhī́ dhíyam jaritré vā́jaratnām ǁ
ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena |
asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām ||
Padapāṭha
आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ । पु॒रु॒ऽहू॒त॒ । तेन॑ ।
अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥
आरात् । शत्रुम् । अप । बाधस्व । दूरम् । उग्रः । यः । शम्बः । पुरुऽहूत । तेन ।
अस्मे इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥
ārā́t ǀ śátrum ǀ ápa ǀ bādhasva ǀ dūrám ǀ ugráḥ ǀ yáḥ ǀ śámbaḥ ǀ puru-hūta ǀ téna ǀ
asmé íti ǀ dhehi ǀ yáva-mat ǀ gó-mat ǀ indra ǀ kṛdhí ǀ dhíyam ǀ jaritré ǀ vā́ja-ratnām ǁ
ārāt ǀ śatrum ǀ apa ǀ bādhasva ǀ dūram ǀ ugraḥ ǀ yaḥ ǀ śambaḥ ǀ puru-hūta ǀ tena ǀ
asme iti ǀ dhehi ǀ yava-mat ǀ go-mat ǀ indra ǀ kṛdhi ǀ dhiyam ǀ jaritre ǀ vāja-ratnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.042.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.23.02
- Maṇḍala · Anuvāka · Ṛk
- 10.03.141
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.