Sūkta 108
- Devatā देवता
- 1, 3, 5, 7, 9: Saramā; 2, 4, 6, 8, 10, 11: Paṇi
- Ṛṣi ऋषि
- 1, 3, 5, 7, 9: Paṇi Asuras; 2, 4, 6, 8, 10, 11: Saramā
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3-5, 7-9, 11); triṣṭup (2, 10); virāṭtrisṭup (1); pādanicṛttriṣṭup (6)
2nd set of styles triṣṭubh
-
Ṛk 1
किमि॒च्छंती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः ।
कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतरः॒ पयां॑सि ॥किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः |
कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि ||kímicchántī sarámā prédámānaḍdūré hyádhvā jáguriḥ parācáiḥ ǀ
kā́sméhitiḥ kā́ páritakmyāsītkathám rasā́yā ataraḥ páyāṃsi ǁkim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ |
kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi ||किम् । इ॒च्छन्ती॑ । स॒रमा॑ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा॑ । जगु॑रिः । प॒रा॒चैः ।
का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः॑ । अ॒त॒रः॒ । पयां॑सि ॥किम् । इच्छन्ती । सरमा । प्र । इदम् । आनट् । दूरे । हि । अध्वा । जगुरिः । पराचैः ।
का । अस्मेऽहितिः । का । परिऽतक्म्या । आसीत् । कथम् । रसायाः । अतरः । पयांसि ॥kím ǀ icchántī ǀ sarámā ǀ prá ǀ idám ǀ ānaṭ ǀ dūré ǀ hí ǀ ádhvā ǀ jáguriḥ ǀ parācáiḥ ǀ
kā́ ǀ asmé-hitiḥ ǀ kā́ ǀ pári-takmyā ǀ āsīt ǀ kathám ǀ rasā́yāḥ ǀ ataraḥ ǀ páyāṃsi ǁkim ǀ icchantī ǀ saramā ǀ pra ǀ idam ǀ ānaṭ ǀ dūre ǀ hi ǀ adhvā ǀ jaguriḥ ǀ parācaiḥ ǀ
kā ǀ asme-hitiḥ ǀ kā ǀ pari-takmyā ǀ āsīt ǀ katham ǀ rasāyāḥ ǀ ataraḥ ǀ payāṃsi ǁ10.108.1 Aṣṭaka 8.6.5.1Anuvāka 10.9.94
-
Ṛk 2
इंद्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छंती॑ पणयो नि॒धीन्वः॑ ।
अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥इन्द्रस्य दूतीर् इषिता चरामि मह इच्छन्ती पणयो निधीन् वः |
अतिष्कदो भियसा तन् न आवत् तथा रसाया अतरम् पयांसि ||índrasya dūtī́riṣitā́ carāmi mahá icchántī paṇayo nidhī́nvaḥ ǀ
atiṣkádo bhiyásā tánna āvattáthā rasā́yā ataram páyāṃsi ǁindrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ |
atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi ||इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ ।
अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥इन्द्रस्य । दूतीः । इषिता । चरामि । महः । इच्छन्ती । पणयः । निऽधीन् । वः ।
अतिऽस्कदः । भियसा । तम् । नः । आवत् । तथा । रसायाः । अतरम् । पयांसि ॥índrasya ǀ dūtī́ḥ ǀ iṣitā́ ǀ carāmi ǀ maháḥ ǀ icchántī ǀ paṇayaḥ ǀ ni-dhī́n ǀ vaḥ ǀ
ati-skádaḥ ǀ bhiyásā ǀ tám ǀ naḥ ǀ āvat ǀ táthā ǀ rasā́yāḥ ǀ ataram ǀ páyāṃsi ǁindrasya ǀ dūtīḥ ǀ iṣitā ǀ carāmi ǀ mahaḥ ǀ icchantī ǀ paṇayaḥ ǀ ni-dhīn ǀ vaḥ ǀ
ati-skadaḥ ǀ bhiyasā ǀ tam ǀ naḥ ǀ āvat ǀ tathā ǀ rasāyāḥ ǀ ataram ǀ payāṃsi ǁ10.108.2 Aṣṭaka 8.6.5.2Anuvāka 10.9.95
-
Ṛk 3
की॒दृङ्ङिंद्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् ।
आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥कीदृङ्ङ् इन्द्रः सरमे का दृशीका यस्येदं दूतीर् असरः पराकात् |
आ च गच्छान् मित्रम् एना दधामाथा गवां गोपतिर् नो भवाति ||kīdṛ́ṅṅíndraḥ sarame kā́ dṛśīkā́ yásyedám dūtī́rásaraḥ parākā́t ǀ
ā́ ca gácchānmitrámenā dadhāmā́thā gávām gópatirno bhavāti ǁkīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt |
ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti ||की॒दृङ् । इन्द्रः॑ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रः । प॒रा॒कात् ।
आ । च॒ । गच्छा॑त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ॑ । गवा॑म् । गोऽप॑तिः । नः॒ । भ॒वा॒ति॒ ॥कीदृङ् । इन्द्रः । सरमे । का । दृशीका । यस्य । इदम् । दूतीः । असरः । पराकात् ।
आ । च । गच्छात् । मित्रम् । एन । दधाम । अथ । गवाम् । गोऽपतिः । नः । भवाति ॥kīdṛ́ṅ ǀ índraḥ ǀ sarame ǀ kā́ ǀ dṛśīkā́ ǀ yásya ǀ idám ǀ dūtī́ḥ ǀ ásaraḥ ǀ parākā́t ǀ
ā́ ǀ ca ǀ gácchāt ǀ mitrám ǀ ena ǀ dadhāma ǀ átha ǀ gávām ǀ gó-patiḥ ǀ naḥ ǀ bhavāti ǁkīdṛṅ ǀ indraḥ ǀ sarame ǀ kā ǀ dṛśīkā ǀ yasya ǀ idam ǀ dūtīḥ ǀ asaraḥ ǀ parākāt ǀ
ā ǀ ca ǀ gacchāt ǀ mitram ǀ ena ǀ dadhāma ǀ atha ǀ gavām ǀ go-patiḥ ǀ naḥ ǀ bhavāti ǁ10.108.3 Aṣṭaka 8.6.5.3Anuvāka 10.9.96
-
Ṛk 4
नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् ।
न तं गू॑हंति स्र॒वतो॑ गभी॒रा ह॒ता इंद्रे॑ण पणयः शयध्वे ॥नाहं तं वेद दभ्यं दभत् स यस्येदं दूतीर् असरम् पराकात् |
न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ||nā́hám tám veda dábhyam dábhatsá yásyedám dūtī́rásaram parākā́t ǀ
ná tám gūhanti sraváto gabhīrā́ hatā́ índreṇa paṇayaḥ śayadhve ǁnāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt |
na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve ||न । अ॒हम् । तम् । वे॒द॒ । दभ्य॑म् । दभ॑त् । सः । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रम् । प॒रा॒कात् ।
न । तम् । गू॒ह॒न्ति॒ । स्र॒वतः॑ । ग॒भी॒राः । ह॒ताः । इन्द्रे॑ण । प॒ण॒यः॒ । श॒य॒ध्वे॒ ॥न । अहम् । तम् । वेद । दभ्यम् । दभत् । सः । यस्य । इदम् । दूतीः । असरम् । पराकात् ।
न । तम् । गूहन्ति । स्रवतः । गभीराः । हताः । इन्द्रेण । पणयः । शयध्वे ॥ná ǀ ahám ǀ tám ǀ veda ǀ dábhyam ǀ dábhat ǀ sáḥ ǀ yásya ǀ idám ǀ dūtī́ḥ ǀ ásaram ǀ parākā́t ǀ
ná ǀ tám ǀ gūhanti ǀ sravátaḥ ǀ gabhīrā́ḥ ǀ hatā́ḥ ǀ índreṇa ǀ paṇayaḥ ǀ śayadhve ǁna ǀ aham ǀ tam ǀ veda ǀ dabhyam ǀ dabhat ǀ saḥ ǀ yasya ǀ idam ǀ dūtīḥ ǀ asaram ǀ parākāt ǀ
na ǀ tam ǀ gūhanti ǀ sravataḥ ǀ gabhīrāḥ ǀ hatāḥ ǀ indreṇa ǀ paṇayaḥ ǀ śayadhve ǁ10.108.4 Aṣṭaka 8.6.5.4Anuvāka 10.9.97
-
Ṛk 5
इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अंता॑न्त्सुभगे॒ पतं॑ती ।
कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा संति ति॒ग्मा ॥इमा गावः सरमे या ऐच्छः परि दिवो अन्तान् सुभगे पतन्ती |
कस् त एना अव सृजाद् अयुध्व्य् उतास्माकम् आयुधा सन्ति तिग्मा ||imā́ gā́vaḥ sarame yā́ áicchaḥ pári divó ántāntsubhage pátantī ǀ
kásta enā áva sṛjādáyudhvyutā́smā́kamā́yudhā santi tigmā́ ǁimā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī |
kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā ||इ॒माः । गावः॑ । स॒र॒मे॒ । याः । ऐच्छः॑ । परि॑ । दि॒वः । अन्ता॑न् । सु॒ऽभ॒गे॒ । पत॑न्ती ।
कः । ते॒ । ए॒नाः॒ । अव॑ । सृ॒जा॒त् । अयु॑ध्वी । उ॒त । अ॒स्माक॑म् । आयु॑धा । स॒न्ति॒ । ति॒ग्मा ॥इमाः । गावः । सरमे । याः । ऐच्छः । परि । दिवः । अन्तान् । सुऽभगे । पतन्ती ।
कः । ते । एनाः । अव । सृजात् । अयुध्वी । उत । अस्माकम् । आयुधा । सन्ति । तिग्मा ॥imā́ḥ ǀ gā́vaḥ ǀ sarame ǀ yā́ḥ ǀ áicchaḥ ǀ pári ǀ diváḥ ǀ ántān ǀ su-bhage ǀ pátantī ǀ
káḥ ǀ te ǀ enāḥ ǀ áva ǀ sṛjāt ǀ áyudhvī ǀ utá ǀ asmā́kam ǀ ā́yudhā ǀ santi ǀ tigmā́ ǁimāḥ ǀ gāvaḥ ǀ sarame ǀ yāḥ ǀ aicchaḥ ǀ pari ǀ divaḥ ǀ antān ǀ su-bhage ǀ patantī ǀ
kaḥ ǀ te ǀ enāḥ ǀ ava ǀ sṛjāt ǀ ayudhvī ǀ uta ǀ asmākam ǀ āyudhā ǀ santi ǀ tigmā ǁ10.108.5 Aṣṭaka 8.6.5.5Anuvāka 10.9.98
-
Ṛk 6
अ॒से॒न्या वः॑ पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्वः॑ संतु पा॒पीः ।
अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पंथा॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥असेन्या वः पणयो वचांस्य् अनिषव्यास् तन्वः सन्तु पापीः |
अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर् व उभया न मृऌआत् ||asenyā́ vaḥ paṇayo vácāṃsyaniṣavyā́stanváḥ santu pāpī́ḥ ǀ
ádhṛṣṭo va étavā́ astu pánthā bṛ́haspátirva ubhayā́ ná mṛḷāt ǁasenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ |
adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḷāt ||अ॒से॒न्या । वः॒ । प॒ण॒यः॒ । वचां॑सि । अ॒नि॒ष॒व्याः । त॒न्वः॑ । स॒न्तु॒ । पा॒पीः ।
अधृ॑ष्टः । वः॒ । एत॒वै । अ॒स्तु॒ । पन्थाः॑ । बृह॒स्पतिः॑ । वः॒ । उ॒भ॒या । न । मृ॒ळा॒त् ॥असेन्या । वः । पणयः । वचांसि । अनिषव्याः । तन्वः । सन्तु । पापीः ।
अधृष्टः । वः । एतवै । अस्तु । पन्थाः । बृहस्पतिः । वः । उभया । न । मृळात् ॥asenyā́ ǀ vaḥ ǀ paṇayaḥ ǀ vácāṃsi ǀ aniṣavyā́ḥ ǀ tanváḥ ǀ santu ǀ pāpī́ḥ ǀ
ádhṛṣṭaḥ ǀ vaḥ ǀ étavái ǀ astu ǀ pánthāḥ ǀ bṛ́haspátiḥ ǀ vaḥ ǀ ubhayā́ ǀ ná ǀ mṛḷāt ǁasenyā ǀ vaḥ ǀ paṇayaḥ ǀ vacāṃsi ǀ aniṣavyāḥ ǀ tanvaḥ ǀ santu ǀ pāpīḥ ǀ
adhṛṣṭaḥ ǀ vaḥ ǀ etavai ǀ astu ǀ panthāḥ ǀ bṛhaspatiḥ ǀ vaḥ ǀ ubhayā ǀ na ǀ mṛḷāt ǁ10.108.6 Aṣṭaka 8.6.6.1Anuvāka 10.9.99
-
Ṛk 7
अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः ।
रक्षं॑ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गंथ ॥अयं निधिः सरमे अद्रिबुध्नो गोभिर् अश्वेभिर् वसुभिर् न्यृष्टः |
रक्षन्ति तम् पणयो ये सुगोपा रेकु पदम् अलकम् आ जगन्थ ||ayám nidhíḥ sarame ádribudhno góbhiráśvebhirvásubhirnyṛ́ṣṭaḥ ǀ
rákṣanti tám paṇáyo yé sugopā́ réku padámálakamā́ jagantha ǁayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ |
rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha ||अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः ।
रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥अयम् । निऽधिः । सरमे । अद्रिऽबुध्नः । गोभिः । अश्वेभिः । वसुऽभिः । निऽऋष्टः ।
रक्षन्ति । तम् । पणयः । ये । सुऽगोपाः । रेकु । पदम् । अलकम् । आ । जगन्थ ॥ayám ǀ ni-dhíḥ ǀ sarame ǀ ádri-budhnaḥ ǀ góbhiḥ ǀ áśvebhiḥ ǀ vásu-bhiḥ ǀ ní-ṛṣṭaḥ ǀ
rákṣanti ǀ tám ǀ paṇáyaḥ ǀ yé ǀ su-gopā́ḥ ǀ réku ǀ padám ǀ álakam ǀ ā́ ǀ jagantha ǁayam ǀ ni-dhiḥ ǀ sarame ǀ adri-budhnaḥ ǀ gobhiḥ ǀ aśvebhiḥ ǀ vasu-bhiḥ ǀ ni-ṛṣṭaḥ ǀ
rakṣanti ǀ tam ǀ paṇayaḥ ǀ ye ǀ su-gopāḥ ǀ reku ǀ padam ǀ alakam ǀ ā ǀ jagantha ǁ10.108.7 Aṣṭaka 8.6.6.2Anuvāka 10.9.100
-
Ṛk 8
एह ग॑म॒न्नृष॑यः॒ सोम॑शिता अ॒यास्यो॒ अंगि॑रसो॒ नव॑ग्वाः ।
त ए॒तमू॒र्वं वि भ॑जंत॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ॥एह गमन्न् ऋषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः |
त एतम् ऊर्वं वि भजन्त गोनाम् अथैतद् वचः पणयो वमन्न् इत् ||éhá gamannṛ́ṣayaḥ sómaśitā ayā́syo áṅgiraso návagvāḥ ǀ
tá etámūrvám ví bhajanta gónāmáthaitádvácaḥ paṇáyo vámannít ǁeha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ |
ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it ||आ । इ॒ह । ग॒म॒न् । ऋष॑यः । सोम॑ऽशिताः । अ॒यास्यः॑ । अङ्गि॑रसः । नव॑ऽग्वाः ।
ते । ए॒तम् । ऊ॒र्वम् । वि । भ॒ज॒न्त॒ । गोना॑म् । अथ॑ । ए॒तत् । वचः॑ । प॒णयः॑ । वम॑न् । इत् ॥आ । इह । गमन् । ऋषयः । सोमऽशिताः । अयास्यः । अङ्गिरसः । नवऽग्वाः ।
ते । एतम् । ऊर्वम् । वि । भजन्त । गोनाम् । अथ । एतत् । वचः । पणयः । वमन् । इत् ॥ā́ ǀ ihá ǀ gaman ǀ ṛ́ṣayaḥ ǀ sóma-śitāḥ ǀ ayā́syaḥ ǀ áṅgirasaḥ ǀ náva-gvāḥ ǀ
té ǀ etám ǀ ūrvám ǀ ví ǀ bhajanta ǀ gónām ǀ átha ǀ etát ǀ vácaḥ ǀ paṇáyaḥ ǀ váman ǀ ít ǁā ǀ iha ǀ gaman ǀ ṛṣayaḥ ǀ soma-śitāḥ ǀ ayāsyaḥ ǀ aṅgirasaḥ ǀ nava-gvāḥ ǀ
te ǀ etam ǀ ūrvam ǀ vi ǀ bhajanta ǀ gonām ǀ atha ǀ etat ǀ vacaḥ ǀ paṇayaḥ ǀ vaman ǀ it ǁ10.108.8 Aṣṭaka 8.6.6.3Anuvāka 10.9.101
-
Ṛk 9
ए॒वा च॒ त्वं स॑रम आज॒गंथ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न ।
स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन |
स्वसारं त्वा कृणवै मा पुनर् गा अप ते गवां सुभगे भजाम ||evā́ ca tvám sarama ājagántha prábādhitā sáhasā dáivyena ǀ
svásāram tvā kṛṇavai mā́ púnargā ápa te gávām subhage bhajāma ǁevā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena |
svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma ||ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒ऽज॒गन्थ॑ । प्रऽबा॑धिता । सह॑सा । दैव्ये॑न ।
स्वसा॑रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः॑ । गाः॒ । अप॑ । ते॒ । गवा॑म् । सु॒ऽभ॒गे॒ । भ॒जा॒म॒ ॥एव । च । त्वम् । सरमे । आऽजगन्थ । प्रऽबाधिता । सहसा । दैव्येन ।
स्वसारम् । त्वा । कृणवै । मा । पुनः । गाः । अप । ते । गवाम् । सुऽभगे । भजाम ॥evá ǀ ca ǀ tvám ǀ sarame ǀ ā-jagántha ǀ prá-bādhitā ǀ sáhasā ǀ dáivyena ǀ
svásāram ǀ tvā ǀ kṛṇavai ǀ mā́ ǀ púnaḥ ǀ gāḥ ǀ ápa ǀ te ǀ gávām ǀ su-bhage ǀ bhajāma ǁeva ǀ ca ǀ tvam ǀ sarame ǀ ā-jagantha ǀ pra-bādhitā ǀ sahasā ǀ daivyena ǀ
svasāram ǀ tvā ǀ kṛṇavai ǀ mā ǀ punaḥ ǀ gāḥ ǀ apa ǀ te ǀ gavām ǀ su-bhage ǀ bhajāma ǁ10.108.9 Aṣṭaka 8.6.6.4Anuvāka 10.9.102
-
Ṛk 10
नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिंद्रो॑ विदु॒रंगि॑रसश्च घो॒राः ।
गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥नाहं वेद भ्रातृत्वं नो स्वसृत्वम् इन्द्रो विदुर् अङ्गिरसश् च घोराः |
गोकामा मे अच्छदयन् यद् आयम् अपात इत पणयो वरीयः ||nā́hám veda bhrātṛtvám nó svasṛtvámíndro viduráṅgirasaśca ghorā́ḥ ǀ
gókāmā me acchadayanyádā́yamápā́ta ita paṇayo várīyaḥ ǁnāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ |
gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ ||न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒ऽत्वम् । नो इति॑ । स्व॒सृ॒ऽत्वम् । इन्द्रः॑ । वि॒दुः॒ । अङ्गि॑रसः । च॒ । घो॒राः ।
गोऽका॑माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय॑म् । अप॑ । अतः॑ । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः ॥न । अहम् । वेद । भ्रातृऽत्वम् । नो इति । स्वसृऽत्वम् । इन्द्रः । विदुः । अङ्गिरसः । च । घोराः ।
गोऽकामाः । मे । अच्छदयन् । यत् । आयम् । अप । अतः । इत । पणयः । वरीयः ॥ná ǀ ahám ǀ veda ǀ bhrātṛ-tvám ǀ nó íti ǀ svasṛ-tvám ǀ índraḥ ǀ viduḥ ǀ áṅgirasaḥ ǀ ca ǀ ghorā́ḥ ǀ
gó-kāmāḥ ǀ me ǀ acchadayan ǀ yát ǀ ā́yam ǀ ápa ǀ átaḥ ǀ ita ǀ paṇayaḥ ǀ várīyaḥ ǁna ǀ aham ǀ veda ǀ bhrātṛ-tvam ǀ no iti ǀ svasṛ-tvam ǀ indraḥ ǀ viduḥ ǀ aṅgirasaḥ ǀ ca ǀ ghorāḥ ǀ
go-kāmāḥ ǀ me ǀ acchadayan ǀ yat ǀ āyam ǀ apa ǀ ataḥ ǀ ita ǀ paṇayaḥ ǀ varīyaḥ ǁ10.108.10 Aṣṭaka 8.6.6.5Anuvāka 10.9.103
-
Ṛk 11
दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यंतु मिन॒तीर्ऋ॒तेन॑ ।
बृह॒स्पति॒र्या अविं॑द॒न्निगू॑ळ्हाः॒ सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्राः॑ ॥दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन |
बृहस्पतिर् या अविन्दन् निगूऌहाः सोमो ग्रावाण ऋषयश् च विप्राः ||dūrámita paṇayo várīya údgā́vo yantu minatī́rṛténa ǀ
bṛ́haspátiryā́ ávindannígūḷhāḥ sómo grā́vāṇa ṛ́ṣayaśca víprāḥ ǁdūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena |
bṛhaspatir yā avindan nigūḷhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ ||दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ ।
बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑णः । ऋष॑यः । च॒ । विप्राः॑ ॥दूरम् । इत । पणयः । वरीयः । उत् । गावः । यन्तु । मिनतीः । ऋतेन ।
बृहस्पतिः । याः । अविन्दत् । निऽगूळ्हाः । सोमः । ग्रावाणः । ऋषयः । च । विप्राः ॥dūrám ǀ ita ǀ paṇayaḥ ǀ várīyaḥ ǀ út ǀ gā́vaḥ ǀ yantu ǀ minatī́ḥ ǀ ṛténa ǀ
bṛ́haspátiḥ ǀ yā́ḥ ǀ ávindat ǀ ní-gūḷhāḥ ǀ sómaḥ ǀ grā́vāṇaḥ ǀ ṛ́ṣayaḥ ǀ ca ǀ víprāḥ ǁdūram ǀ ita ǀ paṇayaḥ ǀ varīyaḥ ǀ ut ǀ gāvaḥ ǀ yantu ǀ minatīḥ ǀ ṛtena ǀ
bṛhaspatiḥ ǀ yāḥ ǀ avindat ǀ ni-gūḷhāḥ ǀ somaḥ ǀ grāvāṇaḥ ǀ ṛṣayaḥ ǀ ca ǀ viprāḥ ǁ10.108.11 Aṣṭaka 8.6.6.6Anuvāka 10.9.104
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.