Ṛgveda · Maṇḍala 10 · Sūkta 108
Ṛk 10.108.11
Saṃhitā
दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यंतु मिन॒तीर्ऋ॒तेन॑ ।
बृह॒स्पति॒र्या अविं॑द॒न्निगू॑ळ्हाः॒ सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्राः॑ ॥
दूरम् इत पणयो वरीय उद् गावो यन्तु मिनतीर् ऋतेन |
बृहस्पतिर् या अविन्दन् निगूऌहाः सोमो ग्रावाण ऋषयश् च विप्राः ||
dūrámita paṇayo várīya údgā́vo yantu minatī́rṛténa ǀ
bṛ́haspátiryā́ ávindannígūḷhāḥ sómo grā́vāṇa ṛ́ṣayaśca víprāḥ ǁ
dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena |
bṛhaspatir yā avindan nigūḷhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ ||
Padapāṭha
दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ ।
बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑णः । ऋष॑यः । च॒ । विप्राः॑ ॥
दूरम् । इत । पणयः । वरीयः । उत् । गावः । यन्तु । मिनतीः । ऋतेन ।
बृहस्पतिः । याः । अविन्दत् । निऽगूळ्हाः । सोमः । ग्रावाणः । ऋषयः । च । विप्राः ॥
dūrám ǀ ita ǀ paṇayaḥ ǀ várīyaḥ ǀ út ǀ gā́vaḥ ǀ yantu ǀ minatī́ḥ ǀ ṛténa ǀ
bṛ́haspátiḥ ǀ yā́ḥ ǀ ávindat ǀ ní-gūḷhāḥ ǀ sómaḥ ǀ grā́vāṇaḥ ǀ ṛ́ṣayaḥ ǀ ca ǀ víprāḥ ǁ
dūram ǀ ita ǀ paṇayaḥ ǀ varīyaḥ ǀ ut ǀ gāvaḥ ǀ yantu ǀ minatīḥ ǀ ṛtena ǀ
bṛhaspatiḥ ǀ yāḥ ǀ avindat ǀ ni-gūḷhāḥ ǀ somaḥ ǀ grāvāṇaḥ ǀ ṛṣayaḥ ǀ ca ǀ viprāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.108.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.06.06
- Maṇḍala · Anuvāka · Ṛk
- 10.09.104
- Devatā देवता
- 1, 3, 5, 7, 9: Saramā; 2, 4, 6, 8, 10, 11: Paṇi
- Ṛṣi ऋषि
- 1, 3, 5, 7, 9: Paṇi Asuras; 2, 4, 6, 8, 10, 11: Saramā
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.