Ṛgveda · Maṇḍala 10 · Sūkta 108
Ṛk 10.108.1
Saṃhitā
किमि॒च्छंती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः ।
कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतरः॒ पयां॑सि ॥
किम् इच्छन्ती सरमा प्रेदम् आनड् दूरे ह्य् अध्वा जगुरिः पराचैः |
कास्मेहितिः का परितक्म्यासीत् कथं रसाया अतरः पयांसि ||
kímicchántī sarámā prédámānaḍdūré hyádhvā jáguriḥ parācáiḥ ǀ
kā́sméhitiḥ kā́ páritakmyāsītkathám rasā́yā ataraḥ páyāṃsi ǁ
kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ |
kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi ||
Padapāṭha
किम् । इ॒च्छन्ती॑ । स॒रमा॑ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा॑ । जगु॑रिः । प॒रा॒चैः ।
का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः॑ । अ॒त॒रः॒ । पयां॑सि ॥
किम् । इच्छन्ती । सरमा । प्र । इदम् । आनट् । दूरे । हि । अध्वा । जगुरिः । पराचैः ।
का । अस्मेऽहितिः । का । परिऽतक्म्या । आसीत् । कथम् । रसायाः । अतरः । पयांसि ॥
kím ǀ icchántī ǀ sarámā ǀ prá ǀ idám ǀ ānaṭ ǀ dūré ǀ hí ǀ ádhvā ǀ jáguriḥ ǀ parācáiḥ ǀ
kā́ ǀ asmé-hitiḥ ǀ kā́ ǀ pári-takmyā ǀ āsīt ǀ kathám ǀ rasā́yāḥ ǀ ataraḥ ǀ páyāṃsi ǁ
kim ǀ icchantī ǀ saramā ǀ pra ǀ idam ǀ ānaṭ ǀ dūre ǀ hi ǀ adhvā ǀ jaguriḥ ǀ parācaiḥ ǀ
kā ǀ asme-hitiḥ ǀ kā ǀ pari-takmyā ǀ āsīt ǀ katham ǀ rasāyāḥ ǀ ataraḥ ǀ payāṃsi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.108.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.05.01
- Maṇḍala · Anuvāka · Ṛk
- 10.09.094
- Devatā देवता
- 1, 3, 5, 7, 9: Saramā; 2, 4, 6, 8, 10, 11: Paṇi
- Ṛṣi ऋषि
- 1, 3, 5, 7, 9: Paṇi Asuras; 2, 4, 6, 8, 10, 11: Saramā
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.