Sūkta 147
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suvedas Śairīṣi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles virāḍjagatī (1); bhurigārcījagatī (2); jagatī (3); pādanicṛjjgatī (4); virāṭtrisṭup (5)
2nd set of styles jagatī (1-4); triṣṭubh (5)
-
Ṛk 1
श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः ।
उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रं नर्यं विवेर् अपः |
उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिद् अद्रिवः ||śrátte dadhāmi prathamā́ya manyávé’hanyádvṛtrám náryam vivérapáḥ ǀ
ubhé yáttvā bhávato ródasī ánu réjate śúṣmātpṛthivī́ cidadrivaḥ ǁśrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ |
ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ ||श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः ।
उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥श्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । वृत्रम् । नर्यम् । विवेः । अपः ।
उभे इति । यत् । त्वा । भवतः । रोदसी इति । अनु । रेजते । शुष्मात् । पृथिवी । चित् । अद्रिऽवः ॥śrát ǀ te ǀ dadhāmi ǀ prathamā́ya ǀ manyáve ǀ áhan ǀ yát ǀ vṛtrám ǀ náryam ǀ vivéḥ ǀ apáḥ ǀ
ubhé íti ǀ yát ǀ tvā ǀ bhávataḥ ǀ ródasī íti ǀ ánu ǀ réjate ǀ śúṣmāt ǀ pṛthivī́ ǀ cit ǀ adri-vaḥ ǁśrat ǀ te ǀ dadhāmi ǀ prathamāya ǀ manyave ǀ ahan ǀ yat ǀ vṛtram ǀ naryam ǀ viveḥ ǀ apaḥ ǀ
ubhe iti ǀ yat ǀ tvā ǀ bhavataḥ ǀ rodasī iti ǀ anu ǀ rejate ǀ śuṣmāt ǀ pṛthivī ǀ cit ǀ adri-vaḥ ǁ10.147.1 Aṣṭaka 8.8.5.1Anuvāka 10.11.120
-
Ṛk 2
त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः ।
त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम् अर्दयः |
त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व् इष्टिषु ||tvám māyā́bhiranavadya māyínam śravasyatā́ mánasā vṛtrámardayaḥ ǀ
tvā́mínnáro vṛṇate gáviṣṭiṣu tvā́m víśvāsu hávyāsvíṣṭiṣu ǁtvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ |
tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu ||त्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒यः॒ ।
त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गोऽइ॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥त्वम् । मायाभिः । अनवद्य । मायिनम् । श्रवस्यता । मनसा । वृत्रम् । अर्दयः ।
त्वाम् । इत् । नरः । वृणते । गोऽइष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु ॥tvám ǀ māyā́bhiḥ ǀ anavadya ǀ māyínam ǀ śravasyatā́ ǀ mánasā ǀ vṛtrám ǀ ardayaḥ ǀ
tvā́m ǀ ít ǀ náraḥ ǀ vṛṇate ǀ gó-iṣṭiṣu ǀ tvā́m ǀ víśvāsu ǀ hávyāsu ǀ íṣṭiṣu ǁtvam ǀ māyābhiḥ ǀ anavadya ǀ māyinam ǀ śravasyatā ǀ manasā ǀ vṛtram ǀ ardayaḥ ǀ
tvām ǀ it ǀ naraḥ ǀ vṛṇate ǀ go-iṣṭiṣu ǀ tvām ǀ viśvāsu ǀ havyāsu ǀ iṣṭiṣu ǁ10.147.2 Aṣṭaka 8.8.5.2Anuvāka 10.11.121
-
Ṛk 3
ऐषु॑ चाकंधि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घं ।
अर्चं॑ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न् आनशुर् मघम् |
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये धने ||áiṣu cākandhi puruhūta sūríṣu vṛdhā́so yé maghavannānaśúrmaghám ǀ
árcanti toké tánaye páriṣṭiṣu medhásātā vājínamáhraye dháne ǁaiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham |
arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane ||आ । ए॒षु॒ । चा॒क॒न्धि॒ । पु॒रु॒ऽहू॒त॒ । सू॒रिषु॑ । वृ॒धासः॑ । ये । म॒घ॒ऽव॒न् । आ॒न॒शुः । म॒घम् ।
अर्च॑न्ति । तो॒के । तन॑ये । परि॑ष्टिषु । मे॒धऽसा॑ता । वा॒जिन॑म् । अह्र॑ये । धने॑ ॥आ । एषु । चाकन्धि । पुरुऽहूत । सूरिषु । वृधासः । ये । मघऽवन् । आनशुः । मघम् ।
अर्चन्ति । तोके । तनये । परिष्टिषु । मेधऽसाता । वाजिनम् । अह्रये । धने ॥ā́ ǀ eṣu ǀ cākandhi ǀ puru-hūta ǀ sūríṣu ǀ vṛdhā́saḥ ǀ yé ǀ magha-van ǀ ānaśúḥ ǀ maghám ǀ
árcanti ǀ toké ǀ tánaye ǀ páriṣṭiṣu ǀ medhá-sātā ǀ vājínam ǀ áhraye ǀ dháne ǁā ǀ eṣu ǀ cākandhi ǀ puru-hūta ǀ sūriṣu ǀ vṛdhāsaḥ ǀ ye ǀ magha-van ǀ ānaśuḥ ǀ magham ǀ
arcanti ǀ toke ǀ tanaye ǀ pariṣṭiṣu ǀ medha-sātā ǀ vājinam ǀ ahraye ǀ dhane ǁ10.147.3 Aṣṭaka 8.8.5.3Anuvāka 10.11.122
-
Ṛk 4
स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति ।
त्वावृ॑धो मघवंदा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभिः॑ ॥स इन् नु रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यं चिकेतति |
त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते धना नृभिः ||sá ínnú rāyáḥ súbhṛtasya cākananmádam yó asya ráṃhyam cíketati ǀ
tvā́vṛdho maghavandāśvádhvaro makṣū́ sá vā́jam bharate dhánā nṛ́bhiḥ ǁsa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati |
tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ ||सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति ।
त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥सः । इत् । नु । रायः । सुऽभृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति ।
त्वाऽवृधः । मघऽवन् । दाशुऽअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृऽभिः ॥sáḥ ǀ ít ǀ nú ǀ rāyáḥ ǀ sú-bhṛtasya ǀ cākanat ǀ mádam ǀ yáḥ ǀ asya ǀ ráṃhyam ǀ cíketati ǀ
tvā́-vṛdhaḥ ǀ magha-van ǀ dāśú-adhvaraḥ ǀ makṣú ǀ sáḥ ǀ vā́jam ǀ bharate ǀ dhánā ǀ nṛ́-bhiḥ ǁsaḥ ǀ it ǀ nu ǀ rāyaḥ ǀ su-bhṛtasya ǀ cākanat ǀ madam ǀ yaḥ ǀ asya ǀ raṃhyam ǀ ciketati ǀ
tvā-vṛdhaḥ ǀ magha-van ǀ dāśu-adhvaraḥ ǀ makṣu ǀ saḥ ǀ vājam ǀ bharate ǀ dhanā ǀ nṛ-bhiḥ ǁ10.147.4 Aṣṭaka 8.8.5.4Anuvāka 10.11.123
-
Ṛk 5
त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवंछ॒ग्धि रा॒यः ।
त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥त्वं शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः |
त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ||tvám śárdhāya mahinā́ gṛṇāná urú kṛdhi maghavañchagdhí rāyáḥ ǀ
tvám no mitró váruṇo ná māyī́ pitvó ná dasma dayase vibhaktā́ ǁtvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañ chagdhi rāyaḥ |
tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā ||त्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः ।
त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥त्वम् । शर्धाय । महिना । गृणानः । उरु । कृधि । मघऽवन् । शग्धि । रायः ।
त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । विऽभक्ता ॥tvám ǀ śárdhāya ǀ mahinā́ ǀ gṛṇānáḥ ǀ urú ǀ kṛdhi ǀ magha-van ǀ śagdhí ǀ rāyáḥ ǀ
tvám ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ ná ǀ māyī́ ǀ pitváḥ ǀ ná ǀ dasma ǀ dayase ǀ vi-bhaktā́ ǁtvam ǀ śardhāya ǀ mahinā ǀ gṛṇānaḥ ǀ uru ǀ kṛdhi ǀ magha-van ǀ śagdhi ǀ rāyaḥ ǀ
tvam ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ na ǀ māyī ǀ pitvaḥ ǀ na ǀ dasma ǀ dayase ǀ vi-bhaktā ǁ10.147.5 Aṣṭaka 8.8.5.5Anuvāka 10.11.124
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.