Ṛgveda · Maṇḍala 10 · Sūkta 147
Ṛk 10.147.2
Saṃhitā
त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः ।
त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥
त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम् अर्दयः |
त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व् इष्टिषु ||
tvám māyā́bhiranavadya māyínam śravasyatā́ mánasā vṛtrámardayaḥ ǀ
tvā́mínnáro vṛṇate gáviṣṭiṣu tvā́m víśvāsu hávyāsvíṣṭiṣu ǁ
tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ |
tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu ||
Padapāṭha
त्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒यः॒ ।
त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गोऽइ॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥
त्वम् । मायाभिः । अनवद्य । मायिनम् । श्रवस्यता । मनसा । वृत्रम् । अर्दयः ।
त्वाम् । इत् । नरः । वृणते । गोऽइष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु ॥
tvám ǀ māyā́bhiḥ ǀ anavadya ǀ māyínam ǀ śravasyatā́ ǀ mánasā ǀ vṛtrám ǀ ardayaḥ ǀ
tvā́m ǀ ít ǀ náraḥ ǀ vṛṇate ǀ gó-iṣṭiṣu ǀ tvā́m ǀ víśvāsu ǀ hávyāsu ǀ íṣṭiṣu ǁ
tvam ǀ māyābhiḥ ǀ anavadya ǀ māyinam ǀ śravasyatā ǀ manasā ǀ vṛtram ǀ ardayaḥ ǀ
tvām ǀ it ǀ naraḥ ǀ vṛṇate ǀ go-iṣṭiṣu ǀ tvām ǀ viśvāsu ǀ havyāsu ǀ iṣṭiṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.147.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.05.02
- Maṇḍala · Anuvāka · Ṛk
- 10.11.121
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suvedas Śairīṣi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.