Ṛgveda · Maṇḍala 10 · Sūkta 147

Ṛk 10.147.5

Indra · Suvedas Śairīṣi

The whole sūkta Link

Saṃhitā

त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवंछ॒ग्धि रा॒यः ।
त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥

त्वं शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः |
त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ||

tvám śárdhāya mahinā́ gṛṇāná urú kṛdhi maghavañchagdhí rāyáḥ ǀ
tvám no mitró váruṇo ná māyī́ pitvó ná dasma dayase vibhaktā́ ǁ

tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañ chagdhi rāyaḥ |
tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā ||

Padapāṭha

त्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः ।
त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥

त्वम् । शर्धाय । महिना । गृणानः । उरु । कृधि । मघऽवन् । शग्धि । रायः ।
त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । विऽभक्ता ॥

tvám ǀ śárdhāya ǀ mahinā́ ǀ gṛṇānáḥ ǀ urú ǀ kṛdhi ǀ magha-van ǀ śagdhí ǀ rāyáḥ ǀ
tvám ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ ná ǀ māyī́ ǀ pitváḥ ǀ ná ǀ dasma ǀ dayase ǀ vi-bhaktā́ ǁ

tvam ǀ śardhāya ǀ mahinā ǀ gṛṇānaḥ ǀ uru ǀ kṛdhi ǀ magha-van ǀ śagdhi ǀ rāyaḥ ǀ
tvam ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ na ǀ māyī ǀ pitvaḥ ǀ na ǀ dasma ǀ dayase ǀ vi-bhaktā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.147.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.05.05
Maṇḍala · Anuvāka · Ṛk
10.11.124
Devatā देवता
Indra
Ṛṣi ऋषि
Suvedas Śairīṣi
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.147.5

Interpretations

Sāyaṇa

हे इन्द्र त्वं महिना महता स्तोत्रेण गृणानः स्तूयमानः सञ्शर्धाय शर्धं बलमुरु कृधि। विस्तीर्णं कुरु। हे मघवन् रायो धनानि च शग्धि। अस्मभ्यं प्रयच्छ। हे दस्म दर्शनीयेन्द्र विभक्ता विशेषेन धनानां भाजयिता त्वं मित्रो वरुणो न मित्रवद्वरुणवच्च मायी प्रज्ञा युक्तः सन्नोऽस्मभ्यं। नः सम्प्रत्यर्थे। सम्प्रति पित्वोऽन्नानि दयसे। प्रयच्छसि॥५॥