Sūkta 20
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vimada Aindra Or Vimada Prājāpatya Or Vimada Aindra And Vasukṛt Vāsukra
- Chandas छन्दस्
- Gāyatrī, Ekapadāvirāj Or A Single Pāda For Peace, Anuṣṭubh, Virājvirāj, Triṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (4, 5, 7); anuṣṭup (2, 9); āsurītriṣṭup (1); gāyatrī (pādanicṛdgāyatrī) (3); gāyatrī (6); virāḍgāyatrī (8); triṣṭup (10)
2nd set of styles gāyatrī (3-8); ekapadāvirāj or a single pāda for peace (1); anuṣṭubh (2); virājvirāj (9); triṣṭubh (10)
-
Ṛk 1
भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥
भद्रं नो अपि वातय मनः ||
bhadrám no ápi vātaya mánaḥ ǁ
bhadraṃ no api vātaya manaḥ ||
भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥
भद्रम् । नः । अपि । वातय । मनः ॥
bhadrám ǀ naḥ ǀ ápi ǀ vātaya ǀ mánaḥ ǁ
bhadram ǀ naḥ ǀ api ǀ vātaya ǀ manaḥ ǁ
10.20.1 Aṣṭaka 7.7.2.1Anuvāka 10.2.37
-
Ṛk 2
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुं ।
यस्य॒ धर्म॒न्त्स्व१॒॑रेनीः॑ सप॒र्यंति॑ मा॒तुरूधः॑ ॥अग्निम् ईळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् |
यस्य धर्मन् स्वर् एनीः सपर्यन्ति मातुर् ऊधः ||agnímīḷe bhujā́m yáviṣṭham śāsā́ mitrám durdhárītum ǀ
yásya dhármantsvárénīḥ saparyánti mātúrū́dhaḥ ǁagnim īḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum |
yasya dharman svar enīḥ saparyanti mātur ūdhaḥ ||अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् ।
यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥अग्निम् । ईळे । भुजाम् । यविष्ठम् । शासा । मित्रम् । दुःऽधरीतुम् ।
यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः ॥agním ǀ īḷe ǀ bhujā́m ǀ yáviṣṭham ǀ śāsā́ ǀ mitrám ǀ duḥ-dhárītum ǀ
yásya ǀ dhárman ǀ sváḥ ǀ énīḥ ǀ saparyánti ǀ mātúḥ ǀ ū́dhaḥ ǁagnim ǀ īḷe ǀ bhujām ǀ yaviṣṭham ǀ śāsā ǀ mitram ǀ duḥ-dharītum ǀ
yasya ǀ dharman ǀ svaḥ ǀ enīḥ ǀ saparyanti ǀ mātuḥ ǀ ūdhaḥ ǁ10.20.2 Aṣṭaka 7.7.2.2Anuvāka 10.2.38
-
Ṛk 3
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धयं॑ति ।
भ्राज॑ते॒ श्रेणि॑दन् ॥यम् आसा कृपनीऌअम् भासाकेतुं वर्धयन्ति |
भ्राजते श्रेणिदन् ||yámāsā́ kṛpánīḷam bhāsā́ketum vardháyanti ǀ
bhrā́jate śréṇidan ǁyam āsā kṛpanīḷam bhāsāketuṃ vardhayanti |
bhrājate śreṇidan ||यम् । आ॒सा । कृ॒पऽनी॑ळम् । भा॒साऽके॑तुम् । व॒र्धय॑न्ति ।
भ्राज॑ते । श्रेणि॑ऽदन् ॥यम् । आसा । कृपऽनीळम् । भासाऽकेतुम् । वर्धयन्ति ।
भ्राजते । श्रेणिऽदन् ॥yám ǀ āsā́ ǀ kṛpá-nīḷam ǀ bhāsā́-ketum ǀ vardháyanti ǀ
bhrā́jate ǀ śréṇi-dan ǁyam ǀ āsā ǀ kṛpa-nīḷam ǀ bhāsā-ketum ǀ vardhayanti ǀ
bhrājate ǀ śreṇi-dan ǁ10.20.3 Aṣṭaka 7.7.2.3Anuvāka 10.2.39
-
Ṛk 4
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अंता॑न् ।
क॒विर॒भ्रं दीद्या॑नः ॥अर्यो विशां गातुर् एति प्र यद् आनड् दिवो अन्तान् |
कविर् अभ्रं दीद्यानः ||aryó viśā́m gātúreti prá yádā́naḍdivó ántān ǀ
kavírabhrám dī́dyānaḥ ǁaryo viśāṃ gātur eti pra yad ānaḍ divo antān |
kavir abhraṃ dīdyānaḥ ||अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् ।
क॒विः । अ॒भ्रम् । दीद्या॑नः ॥अर्यः । विशाम् । गातुः । एति । प्र । यत् । आनट् । दिवः । अन्तान् ।
कविः । अभ्रम् । दीद्यानः ॥aryáḥ ǀ viśā́m ǀ gātúḥ ǀ eti ǀ prá ǀ yát ǀ ā́naṭ ǀ diváḥ ǀ ántān ǀ
kavíḥ ǀ abhrám ǀ dī́dyānaḥ ǁaryaḥ ǀ viśām ǀ gātuḥ ǀ eti ǀ pra ǀ yat ǀ ānaṭ ǀ divaḥ ǀ antān ǀ
kaviḥ ǀ abhram ǀ dīdyānaḥ ǁ10.20.4 Aṣṭaka 7.7.2.4Anuvāka 10.2.40
-
Ṛk 5
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।
मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥जुषद् धव्या मानुषस्योर्ध्वस् तस्थाव् ऋभ्वा यज्ञे |
मिन्वन् सद्म पुर एति ||juṣáddhavyā́ mā́nuṣasyordhvástasthāvṛ́bhvā yajñé ǀ
minvántsádma purá eti ǁjuṣad dhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe |
minvan sadma pura eti ||जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे ।
मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥जुषत् । हव्या । मानुषस्य । ऊर्ध्वः । तस्थौ । ऋभ्वा । यज्ञे ।
मिन्वन् । सद्म । पुरः । एति ॥juṣát ǀ havyā́ ǀ mā́nuṣasya ǀ ūrdhváḥ ǀ tasthau ǀ ṛ́bhvā ǀ yajñé ǀ
minván ǀ sádma ǀ puráḥ ǀ eti ǁjuṣat ǀ havyā ǀ mānuṣasya ǀ ūrdhvaḥ ǀ tasthau ǀ ṛbhvā ǀ yajñe ǀ
minvan ǀ sadma ǀ puraḥ ǀ eti ǁ10.20.5 Aṣṭaka 7.7.2.5Anuvāka 10.2.41
-
Ṛk 6
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।
अ॒ग्निं दे॒वा वाशी॑मंतं ॥स हि क्षेमो हविर् यज्ञः श्रुष्टीद् अस्य गातुर् एति |
अग्निं देवा वाशीमन्तम् ||sá hí kṣémo havíryajñáḥ śruṣṭī́dasya gātúreti ǀ
agním devā́ vā́śīmantam ǁsa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti |
agniṃ devā vāśīmantam ||सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ ।
अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥सः । हि । क्षेमः । हविः । यज्ञः । श्रुष्टी । इत् । अस्य । गातुः । एति ।
अग्निम् । देवाः । वाशीऽमन्तम् ॥sáḥ ǀ hí ǀ kṣémaḥ ǀ havíḥ ǀ yajñáḥ ǀ śruṣṭī́ ǀ ít ǀ asya ǀ gātúḥ ǀ eti ǀ
agním ǀ devā́ḥ ǀ vā́śī-mantam ǁsaḥ ǀ hi ǀ kṣemaḥ ǀ haviḥ ǀ yajñaḥ ǀ śruṣṭī ǀ it ǀ asya ǀ gātuḥ ǀ eti ǀ
agnim ǀ devāḥ ǀ vāśī-mantam ǁ10.20.6 Aṣṭaka 7.7.2.6Anuvāka 10.2.42
-
Ṛk 7
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।
अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥यज्ञासाहं दुव इषे ऽग्निम् पूर्वस्य शेवस्य |
अद्रेः सूनुम् आयुम् आहुः ||yajñāsā́ham dúva iṣe’gním pū́rvasya śévasya ǀ
ádreḥ sūnúmāyúmāhuḥ ǁyajñāsāhaṃ duva iṣe 'gnim pūrvasya śevasya |
adreḥ sūnum āyum āhuḥ ||य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य ।
अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥यज्ञऽसहम् । दुवः । इषे । अग्निम् । पूर्वस्य । शेवस्य ।
अद्रेः । सूनुम् । आयुम् । आहुः ॥yajña-sáham ǀ dúvaḥ ǀ iṣe ǀ agním ǀ pū́rvasya ǀ śévasya ǀ
ádreḥ ǀ sūnúm ǀ āyúm ǀ āhuḥ ǁyajña-saham ǀ duvaḥ ǀ iṣe ǀ agnim ǀ pūrvasya ǀ śevasya ǀ
adreḥ ǀ sūnum ǀ āyum ǀ āhuḥ ǁ10.20.7 Aṣṭaka 7.7.3.1Anuvāka 10.2.43
-
Ṛk 8
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ ।
अ॒ग्निं ह॒विषा॒ वर्धं॑तः ॥नरो ये के चास्मद् आ विश्वेत् ते वाम आ स्युः |
अग्निं हविषा वर्धन्तः ||náro yé ké cāsmádā́ víśvétté vāmá ā́ syuḥ ǀ
agním havíṣā várdhantaḥ ǁnaro ye ke cāsmad ā viśvet te vāma ā syuḥ |
agniṃ haviṣā vardhantaḥ ||नरः॑ । ये । के । च॒ । अ॒स्मत् । आ । विश्वा॑ । इत् । ते । वा॒मे । आ । स्यु॒रिति॑ स्युः ।
अ॒ग्निम् । ह॒विषा॑ । वर्ध॑न्तः ॥नरः । ये । के । च । अस्मत् । आ । विश्वा । इत् । ते । वामे । आ । स्युरिति स्युः ।
अग्निम् । हविषा । वर्धन्तः ॥náraḥ ǀ yé ǀ ké ǀ ca ǀ asmát ǀ ā́ ǀ víśvā ǀ ít ǀ té ǀ vāmé ǀ ā́ ǀ syuríti syuḥ ǀ
agním ǀ havíṣā ǀ várdhantaḥ ǁnaraḥ ǀ ye ǀ ke ǀ ca ǀ asmat ǀ ā ǀ viśvā ǀ it ǀ te ǀ vāme ǀ ā ǀ syuriti syuḥ ǀ
agnim ǀ haviṣā ǀ vardhantaḥ ǁ10.20.8 Aṣṭaka 7.7.3.2Anuvāka 10.2.44
-
Ṛk 9
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
हिर॑ण्यरूपं॒ जनि॑ता जजान ॥कृष्णः श्वेतो ऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् |
हिरण्यरूपं जनिता जजान ||kṛṣṇáḥ śvetó’ruṣó yā́mo asya bradhná ṛjrá utá śóṇo yáśasvān ǀ
híraṇyarūpam jánitā jajāna ǁkṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān |
hiraṇyarūpaṃ janitā jajāna ||कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् ।
हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥कृष्णः । श्वेतः । अरुषः । यामः । अस्य । ब्रध्नः । ऋज्रः । उत । शोणः । यशस्वान् ।
हिरण्यऽरूपम् । जनिता । जजान ॥kṛṣṇáḥ ǀ śvetáḥ ǀ aruṣáḥ ǀ yā́maḥ ǀ asya ǀ bradhnáḥ ǀ ṛjráḥ ǀ utá ǀ śóṇaḥ ǀ yáśasvān ǀ
híraṇya-rūpam ǀ jánitā ǀ jajāna ǁkṛṣṇaḥ ǀ śvetaḥ ǀ aruṣaḥ ǀ yāmaḥ ǀ asya ǀ bradhnaḥ ǀ ṛjraḥ ǀ uta ǀ śoṇaḥ ǀ yaśasvān ǀ
hiraṇya-rūpam ǀ janitā ǀ jajāna ǁ10.20.9 Aṣṭaka 7.7.3.3Anuvāka 10.2.45
-
Ṛk 10
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ ।
गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥एवा ते अग्ने विमदो मनीषाम् ऊर्जो नपाद् अमृतेभिः सजोषाः |
गिर आ वक्षत् सुमतीर् इयान इषम् ऊर्जं सुक्षितिं विश्वम् आभाः ||evā́ te agne vimadó manīṣā́mū́rjo napādamṛ́tebhiḥ sajóṣāḥ ǀ
gíra ā́ vakṣatsumatī́riyāná íṣamū́rjam sukṣitím víśvamā́bhāḥ ǁevā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ |
gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ ||ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ ।
गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥एव । ते । अग्ने । विऽमदः । मनीषाम् । ऊर्जः । नपात् । अमृतेभिः । सऽजोषाः ।
गिरः । आ । वक्षत् । सुऽमतीः । इयानः । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥evá ǀ te ǀ agne ǀ vi-madáḥ ǀ manīṣā́m ǀ ū́rjaḥ ǀ napāt ǀ amṛ́tebhiḥ ǀ sa-jóṣāḥ ǀ
gíraḥ ǀ ā́ ǀ vakṣat ǀ su-matī́ḥ ǀ iyānáḥ ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ víśvam ǀ ā́ ǀ abhārítyabhāḥ ǁeva ǀ te ǀ agne ǀ vi-madaḥ ǀ manīṣām ǀ ūrjaḥ ǀ napāt ǀ amṛtebhiḥ ǀ sa-joṣāḥ ǀ
giraḥ ǀ ā ǀ vakṣat ǀ su-matīḥ ǀ iyānaḥ ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ viśvam ǀ ā ǀ abhārityabhāḥ ǁ10.20.10 Aṣṭaka 7.7.3.4Anuvāka 10.2.46
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.