Sūkta 143
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Atri Sāṃkhya
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles anuṣṭup (1-5); nicṛdanuṣṭup (6)
2nd set of styles anuṣṭubh
-
Ṛk 1
त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे ।
क॒क्षीवं॑तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नवं॑ ॥त्यं चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वं न यातवे |
कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ||tyám cidátrimṛtajúramárthamáśvam ná yā́tave ǀ
kakṣī́vantam yádī púnā rátham ná kṛṇuthó návam ǁtyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave |
kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam ||त्यम् । चि॒त् । अत्रि॑म् । ऋ॒त॒ऽजुर॑म् । अर्थ॑म् । अश्व॑म् । न । यात॑वे ।
क॒क्षीव॑न्तम् । यदि॑ । पुन॒रिति॑ । रथ॑म् । न । कृ॒णु॒थः । नव॑म् ॥त्यम् । चित् । अत्रिम् । ऋतऽजुरम् । अर्थम् । अश्वम् । न । यातवे ।
कक्षीवन्तम् । यदि । पुनरिति । रथम् । न । कृणुथः । नवम् ॥tyám ǀ cit ǀ átrim ǀ ṛta-júram ǀ ártham ǀ áśvam ǀ ná ǀ yā́tave ǀ
kakṣī́vantam ǀ yádi ǀ púnaríti ǀ rátham ǀ ná ǀ kṛṇutháḥ ǀ návam ǁtyam ǀ cit ǀ atrim ǀ ṛta-juram ǀ artham ǀ aśvam ǀ na ǀ yātave ǀ
kakṣīvantam ǀ yadi ǀ punariti ǀ ratham ǀ na ǀ kṛṇuthaḥ ǀ navam ǁ10.143.1 Aṣṭaka 8.8.1.1Anuvāka 10.11.96
-
Ṛk 2
त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त ।
दृ॒ळ्हं ग्रं॒थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ॥त्यं चिद् अश्वं न वाजिनम् अरेणवो यम् अत्नत |
दृऌहं ग्रन्थिं न वि ष्यतम् अत्रिं यविष्ठम् आ रजः ||tyám cidáśvam ná vājínamareṇávo yámátnata ǀ
dṛḷhám granthím ná ví ṣyatamátrim yáviṣṭhamā́ rájaḥ ǁtyaṃ cid aśvaṃ na vājinam areṇavo yam atnata |
dṛḷhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ ||त्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त ।
दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥त्यम् । चित् । अश्वम् । न । वाजिनम् । अरेणवः । यम् । अत्नत ।
दृळ्हम् । ग्रन्थिम् । न । वि । स्यतम् । अत्रिम् । यविष्ठम् । आ । रजः ॥tyám ǀ cit ǀ áśvam ǀ ná ǀ vājínam ǀ areṇávaḥ ǀ yám ǀ átnata ǀ
dṛḷhám ǀ granthím ǀ ná ǀ ví ǀ syatam ǀ átrim ǀ yáviṣṭham ǀ ā́ ǀ rájaḥ ǁtyam ǀ cit ǀ aśvam ǀ na ǀ vājinam ǀ areṇavaḥ ǀ yam ǀ atnata ǀ
dṛḷham ǀ granthim ǀ na ǀ vi ǀ syatam ǀ atrim ǀ yaviṣṭham ǀ ā ǀ rajaḥ ǁ10.143.2 Aṣṭaka 8.8.1.2Anuvāka 10.11.97
-
Ṛk 3
नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धियः॑ ।
अथा॒ हि वां॑ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे॑ ॥नरा दंसिष्ठाव् अत्रये शुभ्रा सिषासतं धियः |
अथा हि वां दिवो नरा पुन स्तोमो न विशसे ||nárā dáṃsiṣṭhāvátraye śúbhrā síṣāsatam dhíyaḥ ǀ
áthā hí vām divó narā púnaḥ stómo ná viśáse ǁnarā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ |
athā hi vāṃ divo narā puna stomo na viśase ||नरा॑ । दंसि॑ष्ठौ । अत्र॑ये । शुभ्रा॑ । सिसा॑सतम् । धियः॑ ।
अथ॑ । हि । वा॒म् । दि॒वः । न॒रा॒ । पुन॒रिति॑ । स्तोमः॑ । न । वि॒ऽशसे॑ ॥नरा । दंसिष्ठौ । अत्रये । शुभ्रा । सिसासतम् । धियः ।
अथ । हि । वाम् । दिवः । नरा । पुनरिति । स्तोमः । न । विऽशसे ॥nárā ǀ dáṃsiṣṭhau ǀ átraye ǀ śúbhrā ǀ sísāsatam ǀ dhíyaḥ ǀ
átha ǀ hí ǀ vām ǀ diváḥ ǀ narā ǀ púnaríti ǀ stómaḥ ǀ ná ǀ vi-śáse ǁnarā ǀ daṃsiṣṭhau ǀ atraye ǀ śubhrā ǀ sisāsatam ǀ dhiyaḥ ǀ
atha ǀ hi ǀ vām ǀ divaḥ ǀ narā ǀ punariti ǀ stomaḥ ǀ na ǀ vi-śase ǁ10.143.3 Aṣṭaka 8.8.1.3Anuvāka 10.11.98
-
Ṛk 4
चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना ।
आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥चिते तद् वां सुराधसा रातिः सुमतिर् अश्विना |
आ यन् नः सदने पृथौ समने पर्षथो नरा ||cité tádvām surādhasā rātíḥ sumatíraśvinā ǀ
ā́ yánnaḥ sádane pṛtháu sámane párṣatho narā ǁcite tad vāṃ surādhasā rātiḥ sumatir aśvinā |
ā yan naḥ sadane pṛthau samane parṣatho narā ||चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ ।
आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥चिते । तत् । वाम् । सुऽराधसा । रातिः । सुऽमतिः । अश्विना ।
आ । यत् । नः । सदने । पृथौ । समने । पर्षथः । नरा ॥cité ǀ tát ǀ vām ǀ su-rādhasā ǀ rātíḥ ǀ su-matíḥ ǀ aśvinā ǀ
ā́ ǀ yát ǀ naḥ ǀ sádane ǀ pṛtháu ǀ sámane ǀ párṣathaḥ ǀ narā ǁcite ǀ tat ǀ vām ǀ su-rādhasā ǀ rātiḥ ǀ su-matiḥ ǀ aśvinā ǀ
ā ǀ yat ǀ naḥ ǀ sadane ǀ pṛthau ǀ samane ǀ parṣathaḥ ǀ narā ǁ10.143.4 Aṣṭaka 8.8.1.4Anuvāka 10.11.99
-
Ṛk 5
यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ईं॑खि॒तं ।
या॒तमच्छा॑ पत॒त्रिभि॒र्नास॑त्या सा॒तये॑ कृतं ॥युवम् भुज्युं समुद्र आ रजसः पार ईङ्खितम् |
यातम् अच्छा पतत्रिभिर् नासत्या सातये कृतम् ||yuvám bhujyúm samudrá ā́ rájasaḥ pārá īṅkhitám ǀ
yātámácchā patatríbhirnā́satyā sātáye kṛtam ǁyuvam bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam |
yātam acchā patatribhir nāsatyā sātaye kṛtam ||यु॒वम् । भु॒ज्युम् । स॒मु॒द्रे । आ । रज॑सः । पा॒रे । ई॒ङ्खि॒तम् ।
या॒तम् । अच्छ॑ । प॒त॒त्रिऽभिः॑ । नास॑त्या । सा॒तये॑ । कृ॒त॒म् ॥युवम् । भुज्युम् । समुद्रे । आ । रजसः । पारे । ईङ्खितम् ।
यातम् । अच्छ । पतत्रिऽभिः । नासत्या । सातये । कृतम् ॥yuvám ǀ bhujyúm ǀ samudré ǀ ā́ ǀ rájasaḥ ǀ pāré ǀ īṅkhitám ǀ
yātám ǀ áccha ǀ patatrí-bhiḥ ǀ nā́satyā ǀ sātáye ǀ kṛtam ǁyuvam ǀ bhujyum ǀ samudre ǀ ā ǀ rajasaḥ ǀ pāre ǀ īṅkhitam ǀ
yātam ǀ accha ǀ patatri-bhiḥ ǀ nāsatyā ǀ sātaye ǀ kṛtam ǁ10.143.5 Aṣṭaka 8.8.1.5Anuvāka 10.11.100
-
Ṛk 6
आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा ।
सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ॥आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा |
सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ||ā́ vām sumnáiḥ śaṃyū́ iva máṃhiṣṭhā víśvavedasā ǀ
sámasmé bhūṣatam narótsam ná pipyúṣīríṣaḥ ǁā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā |
sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ ||आ । वा॒म् । सु॒म्नैः । श॒म्यू इ॒वेति॑ श॒म्यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा ।
सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥आ । वाम् । सुम्नैः । शम्यू इवेति शम्यूऽइव । मंहिष्ठा । विश्वऽवेदसा ।
सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः ॥ā́ ǀ vām ǀ sumnáiḥ ǀ śamyū́ ivéti śamyū́-iva ǀ máṃhiṣṭhā ǀ víśva-vedasā ǀ
sám ǀ asmé íti ǀ bhūṣatam ǀ narā ǀ útsam ǀ ná ǀ pipyúṣīḥ ǀ íṣaḥ ǁā ǀ vām ǀ sumnaiḥ ǀ śamyū iveti śamyū-iva ǀ maṃhiṣṭhā ǀ viśva-vedasā ǀ
sam ǀ asme iti ǀ bhūṣatam ǀ narā ǀ utsam ǀ na ǀ pipyuṣīḥ ǀ iṣaḥ ǁ10.143.6 Aṣṭaka 8.8.1.6Anuvāka 10.11.101
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.