Ṛgveda · Maṇḍala 10 · Sūkta 143

Ṛk 10.143.6

Aśvins · Atri Sāṃkhya

The whole sūkta Link

Saṃhitā

आ वां॑ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा ।
सम॒स्मे भू॑षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ॥

आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा |
सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ||

ā́ vām sumnáiḥ śaṃyū́ iva máṃhiṣṭhā víśvavedasā ǀ
sámasmé bhūṣatam narótsam ná pipyúṣīríṣaḥ ǁ

ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā |
sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ ||

Padapāṭha

आ । वा॒म् । सु॒म्नैः । श॒म्यू इ॒वेति॑ श॒म्यूऽइ॑व । मंहि॑ष्ठा । विश्व॑ऽवेदसा ।
सम् । अ॒स्मे इति॑ । भू॒ष॒त॒म् । न॒रा॒ । उत्स॑म् । न । पि॒प्युषीः॑ । इषः॑ ॥

आ । वाम् । सुम्नैः । शम्यू इवेति शम्यूऽइव । मंहिष्ठा । विश्वऽवेदसा ।
सम् । अस्मे इति । भूषतम् । नरा । उत्सम् । न । पिप्युषीः । इषः ॥

ā́ ǀ vām ǀ sumnáiḥ ǀ śamyū́ ivéti śamyū́-iva ǀ máṃhiṣṭhā ǀ víśva-vedasā ǀ
sám ǀ asmé íti ǀ bhūṣatam ǀ narā ǀ útsam ǀ ná ǀ pipyúṣīḥ ǀ íṣaḥ ǁ

ā ǀ vām ǀ sumnaiḥ ǀ śamyū iveti śamyū-iva ǀ maṃhiṣṭhā ǀ viśva-vedasā ǀ
sam ǀ asme iti ǀ bhūṣatam ǀ narā ǀ utsam ǀ na ǀ pipyuṣīḥ ǀ iṣaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.143.06
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.01.06
Maṇḍala · Anuvāka · Ṛk
10.11.101
Devatā देवता
Aśvins
Ṛṣi ऋषि
Atri Sāṃkhya
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.143.6

Interpretations

Sāyaṇa

हे विश्ववेदसा सर्वज्ञौ सर्वधनौ वा हे नरा नेतारौ वां युवां शंयु इव सुखयुक्तौ राजानाविव मंहिष्था दातृतमावतिशयेन पूज्यौ वा सन्तौ सम्नैरस्मभ्यं दातव्यैः सुखैः सार्धमा। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। आगच्छतम्। यद्वा। उपसर्गस्य भूषतमित्यनेन सम्बन्धः। मंहिष्थेत्यपि सम्बोधनम्। हे मंहिष्था दातृतमावुक्तगुनावश्विनौ वां युवां सुम्नैः सार्धं शंयू इवास्मे अस्मान् सम्यगा भूशतम्। अभिप्राप्नुतम्। भू प्राप्तौ। अस्माल्लोटि व्यत्ययेन सिप्यपौ। भूश अलङ्कारे। आ समन्तात्सम्यग्भूषतम्। अलंकुरुतम्। पिप्युषीः प्रव्रुद्धानीष इष्यमाणानि पयांस्युत्सं न। गोरूध इव। यथा बहुभिः पयोभिरूधोऽलङ्कृतं सद्दृश्यते अस्मानप्येवं बहुभिर्धनैरलङ्कुरुतमित्यर्थः। पिप्युशीरिति प्यायतेर्लिटह् क्वसुः। लिड्यङोश्चेति पीभावः। जसि वा छन्दसीति पूर्वसवर्णदीर्घः। यद्वा। उत्सः प्रवाहो यथा पिप्युषीर्व्रुद्धानीषोऽन्नान्यलङ्करोति तद्वत्॥६॥