Sūkta 79
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agni Saucīka Or Agni Vaiśvānara Or Sapti Vājambhara
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 4, 6); pādanicṛttriṣṭup (1); nicṛttriṣṭup (3); ārcīsvarāṭtriṣṭup (5); triṣṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।
नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥अपश्यम् अस्य महतो महित्वम् अमर्त्यस्य मर्त्यासु विक्षु |
नाना हनू विभृते सम् भरेते असिन्वती बप्सती भूर्य् अत्तः ||ápaśyamasya maható mahitvámámartyasya mártyāsu vikṣú ǀ
nā́nā hánū víbhṛte sám bharete ásinvatī bápsatī bhū́ryattaḥ ǁapaśyam asya mahato mahitvam amartyasya martyāsu vikṣu |
nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ ||अप॑श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒ऽत्वम् । अम॑र्त्यस्य । मर्त्या॑सु । वि॒क्षु ।
नाना॑ । हनू॒ इति॑ । विभृ॑ते॒ इति॒ विऽभृ॑ते । सम् । भ॒रे॒ते॒ इति॑ । असि॑न्वती॒ इति॑ । बप्स॑ती॒ इति॑ । भूरि॑ । अ॒त्तः॒ ॥अपश्यम् । अस्य । महतः । महिऽत्वम् । अमर्त्यस्य । मर्त्यासु । विक्षु ।
नाना । हनू इति । विभृते इति विऽभृते । सम् । भरेते इति । असिन्वती इति । बप्सती इति । भूरि । अत्तः ॥ápaśyam ǀ asya ǀ mahatáḥ ǀ mahi-tvám ǀ ámartyasya ǀ mártyāsu ǀ vikṣú ǀ
nā́nā ǀ hánū íti ǀ víbhṛte íti ví-bhṛte ǀ sám ǀ bharete íti ǀ ásinvatī íti ǀ bápsatī íti ǀ bhū́ri ǀ attaḥ ǁapaśyam ǀ asya ǀ mahataḥ ǀ mahi-tvam ǀ amartyasya ǀ martyāsu ǀ vikṣu ǀ
nānā ǀ hanū iti ǀ vibhṛte iti vi-bhṛte ǀ sam ǀ bharete iti ǀ asinvatī iti ǀ bapsatī iti ǀ bhūri ǀ attaḥ ǁ10.79.1 Aṣṭaka 8.3.14.1Anuvāka 10.6.94
-
Ṛk 2
गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।
अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रंत्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥गुहा शिरो निहितम् ऋधग् अक्षी असिन्वन्न् अत्ति जिह्वया वनानि |
अत्राण्य् अस्मै पड्भिः सम् भरन्त्य् उत्तानहस्ता नमसाधि विक्षु ||gúhā śíro níhitamṛ́dhagakṣī́ ásinvannatti jihváyā vánāni ǀ
átrāṇyasmai paḍbhíḥ sám bharantyuttānáhastā námasā́dhi vikṣú ǁguhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni |
atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu ||गुहा॑ । शिरः॑ । निऽहि॑तम् । ऋध॑क् । अ॒क्षी इति॑ । असि॑न्वन् । अ॒त्ति॒ । जि॒ह्वया॑ । वना॑नि ।
अत्रा॑णि । अ॒स्मै॒ । प॒ट्ऽभिः । सम् । भ॒र॒न्ति॒ । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । अधि॑ । वि॒क्षु ॥गुहा । शिरः । निऽहितम् । ऋधक् । अक्षी इति । असिन्वन् । अत्ति । जिह्वया । वनानि ।
अत्राणि । अस्मै । पट्ऽभिः । सम् । भरन्ति । उत्तानऽहस्ताः । नमसा । अधि । विक्षु ॥gúhā ǀ śíraḥ ǀ ní-hitam ǀ ṛ́dhak ǀ akṣī́ íti ǀ ásinvan ǀ atti ǀ jihváyā ǀ vánāni ǀ
átrāṇi ǀ asmai ǀ paṭ-bhíḥ ǀ sám ǀ bharanti ǀ uttāná-hastāḥ ǀ námasā ǀ ádhi ǀ vikṣú ǁguhā ǀ śiraḥ ǀ ni-hitam ǀ ṛdhak ǀ akṣī iti ǀ asinvan ǀ atti ǀ jihvayā ǀ vanāni ǀ
atrāṇi ǀ asmai ǀ paṭ-bhiḥ ǀ sam ǀ bharanti ǀ uttāna-hastāḥ ǀ namasā ǀ adhi ǀ vikṣu ǁ10.79.2 Aṣṭaka 8.3.14.2Anuvāka 10.6.95
-
Ṛk 3
प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।
स॒सं न प॒क्वम॑विदच्छु॒चंतं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अं॒तः ॥प्र मातुः प्रतरं गुह्यम् इच्छन् कुमारो न वीरुधः सर्पद् उर्वीः |
ससं न पक्वम् अविदच् छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ||prá mātúḥ pratarám gúhyamicchánkumāró ná vīrúdhaḥ sarpadurvī́ḥ ǀ
sasám ná pakvámavidacchucántam ririhvā́ṃsam ripá upásthe antáḥ ǁpra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ |
sasaṃ na pakvam avidac chucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ ||प्र । मा॒तुः । प्र॒ऽत॒रम् । गुह्य॑म् । इ॒च्छन् । कु॒मा॒रः । न । वी॒रुधः॑ । स॒र्प॒त् । उ॒र्वीः ।
स॒मम् । न । प॒क्वम् । अ॒वि॒द॒त् । शु॒चन्त॑म् । रि॒रि॒ह्वांस॑म् । रि॒पः । उ॒पऽस्थे॑ । अ॒न्तरिति॑ ॥प्र । मातुः । प्रऽतरम् । गुह्यम् । इच्छन् । कुमारः । न । वीरुधः । सर्पत् । उर्वीः ।
समम् । न । पक्वम् । अविदत् । शुचन्तम् । रिरिह्वांसम् । रिपः । उपऽस्थे । अन्तरिति ॥prá ǀ mātúḥ ǀ pra-tarám ǀ gúhyam ǀ icchán ǀ kumāráḥ ǀ ná ǀ vīrúdhaḥ ǀ sarpat ǀ urvī́ḥ ǀ
samám ǀ ná ǀ pakvám ǀ avidat ǀ śucántam ǀ ririhvā́ṃsam ǀ ripáḥ ǀ upá-sthe ǀ antáríti ǁpra ǀ mātuḥ ǀ pra-taram ǀ guhyam ǀ icchan ǀ kumāraḥ ǀ na ǀ vīrudhaḥ ǀ sarpat ǀ urvīḥ ǀ
samam ǀ na ǀ pakvam ǀ avidat ǀ śucantam ǀ ririhvāṃsam ǀ ripaḥ ǀ upa-sthe ǀ antariti ǁ10.79.3 Aṣṭaka 8.3.14.3Anuvāka 10.6.96
-
Ṛk 4
तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।
नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निरं॒ग विचे॑ताः॒ स प्रचे॑ताः ॥तद् वाम् ऋतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति |
नाहं देवस्य मर्त्यश् चिकेताग्निर् अङ्ग विचेताः स प्रचेताः ||tádvāmṛtám rodasī prá bravīmi jā́yamāno mātárā gárbho atti ǀ
nā́hám devásya mártyaściketāgníraṅgá vícetāḥ sá prácetāḥ ǁtad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti |
nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ ||तत् । वा॒म् । ऋ॒तम् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । जाय॑मानः । मा॒तरा॑ । गर्भः॑ । अ॒त्ति॒ ।
न । अ॒हम् । दे॒वस्य॑ । मर्त्यः॑ । चि॒के॒त॒ । अ॒ग्निः । अ॒ङ्ग । विऽचे॑ताः । सः । प्रऽचे॑ताः ॥तत् । वाम् । ऋतम् । रोदसी इति । प्र । ब्रवीमि । जायमानः । मातरा । गर्भः । अत्ति ।
न । अहम् । देवस्य । मर्त्यः । चिकेत । अग्निः । अङ्ग । विऽचेताः । सः । प्रऽचेताः ॥tát ǀ vām ǀ ṛtám ǀ rodasī íti ǀ prá ǀ bravīmi ǀ jā́yamānaḥ ǀ mātárā ǀ gárbhaḥ ǀ atti ǀ
ná ǀ ahám ǀ devásya ǀ mártyaḥ ǀ ciketa ǀ agníḥ ǀ aṅgá ǀ ví-cetāḥ ǀ sáḥ ǀ prá-cetāḥ ǁtat ǀ vām ǀ ṛtam ǀ rodasī iti ǀ pra ǀ bravīmi ǀ jāyamānaḥ ǀ mātarā ǀ garbhaḥ ǀ atti ǀ
na ǀ aham ǀ devasya ǀ martyaḥ ǀ ciketa ǀ agniḥ ǀ aṅga ǀ vi-cetāḥ ǀ saḥ ǀ pra-cetāḥ ǁ10.79.4 Aṣṭaka 8.3.14.4Anuvāka 10.6.97
-
Ṛk 5
यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।
तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वं ॥यो अस्मा अन्नं तृष्व् आदधात्य् आज्यैर् घृतैर् जुहोति पुष्यति |
तस्मै सहस्रम् अक्षभिर् वि चक्षे ऽग्ने विश्वतः प्रत्यङ्ङ् असि त्वम् ||yó asmā ánnam tṛṣvā́dádhātyā́jyairghṛtáirjuhóti púṣyati ǀ
tásmai sahásramakṣábhirví cakṣé’gne viśvátaḥ pratyáṅṅasi tvám ǁyo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati |
tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam ||यः । अ॒स्मै॒ । अन्न॑म् । तृ॒षु । आ॒ऽदधा॑ति । आज्यैः॑ । घृ॒तैः । जु॒होति॑ । पुष्य॑ति ।
तस्मै॑ । स॒हस्र॑म् । अ॒क्षऽभिः॑ । वि । च॒क्षे॒ । अग्ने॑ । वि॒श्वतः॑ । प्र॒त्यङ् । अ॒सि॒ । त्वम् ॥यः । अस्मै । अन्नम् । तृषु । आऽदधाति । आज्यैः । घृतैः । जुहोति । पुष्यति ।
तस्मै । सहस्रम् । अक्षऽभिः । वि । चक्षे । अग्ने । विश्वतः । प्रत्यङ् । असि । त्वम् ॥yáḥ ǀ asmai ǀ ánnam ǀ tṛṣú ǀ ā-dádhāti ǀ ā́jyaiḥ ǀ ghṛtáiḥ ǀ juhóti ǀ púṣyati ǀ
tásmai ǀ sahásram ǀ akṣá-bhiḥ ǀ ví ǀ cakṣe ǀ ágne ǀ viśvátaḥ ǀ pratyáṅ ǀ asi ǀ tvám ǁyaḥ ǀ asmai ǀ annam ǀ tṛṣu ǀ ā-dadhāti ǀ ājyaiḥ ǀ ghṛtaiḥ ǀ juhoti ǀ puṣyati ǀ
tasmai ǀ sahasram ǀ akṣa-bhiḥ ǀ vi ǀ cakṣe ǀ agne ǀ viśvataḥ ǀ pratyaṅ ǀ asi ǀ tvam ǁ10.79.5 Aṣṭaka 8.3.14.5Anuvāka 10.6.98
-
Ṛk 6
किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् ।
अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥किं देवेषु त्यज एनश् चकर्थाग्ने पृच्छामि नु त्वाम् अविद्वान् |
अक्रीऌअन् क्रीऌअन् हरिर् अत्तवे ऽदन् वि पर्वशश् चकर्त गाम् इवासिः ||kím devéṣu tyája énaścakarthā́gne pṛcchā́mi nú tvā́mávidvān ǀ
ákrīḷankrī́ḷanháriráttave’dánví parvaśáścakarta gā́mivāsíḥ ǁkiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān |
akrīḷan krīḷan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ ||किम् । दे॒वेषु॑ । त्यजः॑ । एनः॑ । च॒क॒र्थ॒ । अग्ने॑ । पृ॒च्छामि॑ । नु । त्वाम् । अवि॑द्वान् ।
अक्री॑ळन् । क्रीळ॑न् । हरिः॑ । अत्त॑वे । अ॒दन् । वि । प॒र्व॒ऽशः । च॒क॒र्त॒ । गाम्ऽइ॑व । अ॒सिः ॥किम् । देवेषु । त्यजः । एनः । चकर्थ । अग्ने । पृच्छामि । नु । त्वाम् । अविद्वान् ।
अक्रीळन् । क्रीळन् । हरिः । अत्तवे । अदन् । वि । पर्वऽशः । चकर्त । गाम्ऽइव । असिः ॥kím ǀ devéṣu ǀ tyájaḥ ǀ énaḥ ǀ cakartha ǀ ágne ǀ pṛcchā́mi ǀ nú ǀ tvā́m ǀ ávidvān ǀ
ákrīḷan ǀ krī́ḷan ǀ háriḥ ǀ áttave ǀ adán ǀ ví ǀ parva-śáḥ ǀ cakarta ǀ gā́m-iva ǀ asíḥ ǁkim ǀ deveṣu ǀ tyajaḥ ǀ enaḥ ǀ cakartha ǀ agne ǀ pṛcchāmi ǀ nu ǀ tvām ǀ avidvān ǀ
akrīḷan ǀ krīḷan ǀ hariḥ ǀ attave ǀ adan ǀ vi ǀ parva-śaḥ ǀ cakarta ǀ gām-iva ǀ asiḥ ǁ10.79.6 Aṣṭaka 8.3.14.6Anuvāka 10.6.99
-
Ṛk 7
विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।
च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥विषूचो अश्वान् युयुजे वनेजा ऋजीतिभी रशनाभिर् गृभीतान् |
चक्षदे मित्रो वसुभिः सुजातः सम् आनृधे पर्वभिर् वावृधानः ||víṣūco áśvānyuyuje vanejā́ ṛ́jītibhī raśanā́bhirgṛbhītā́n ǀ
cakṣadé mitró vásubhiḥ sújātaḥ sámānṛdhe párvabhirvāvṛdhānáḥ ǁviṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān |
cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ ||विषू॑चः । अश्वा॑न् । यु॒यु॒जे॒ । व॒ने॒ऽजाः । ऋजी॑तिऽभिः । र॒श॒नाभिः॑ । गृ॒भी॒तान् ।
च॒क्ष॒दे । मि॒त्रः । वसु॑ऽभिः । सुऽजा॑तः । सम् । आ॒नृ॒धे॒ । पर्व॑ऽभिः । व॒वृ॒धा॒नः ॥विषूचः । अश्वान् । युयुजे । वनेऽजाः । ऋजीतिऽभिः । रशनाभिः । गृभीतान् ।
चक्षदे । मित्रः । वसुऽभिः । सुऽजातः । सम् । आनृधे । पर्वऽभिः । ववृधानः ॥víṣūcaḥ ǀ áśvān ǀ yuyuje ǀ vane-jā́ḥ ǀ ṛ́jīti-bhiḥ ǀ raśanā́bhiḥ ǀ gṛbhītā́n ǀ
cakṣadé ǀ mitráḥ ǀ vásu-bhiḥ ǀ sú-jātaḥ ǀ sám ǀ ānṛdhe ǀ párva-bhiḥ ǀ vavṛdhānáḥ ǁviṣūcaḥ ǀ aśvān ǀ yuyuje ǀ vane-jāḥ ǀ ṛjīti-bhiḥ ǀ raśanābhiḥ ǀ gṛbhītān ǀ
cakṣade ǀ mitraḥ ǀ vasu-bhiḥ ǀ su-jātaḥ ǀ sam ǀ ānṛdhe ǀ parva-bhiḥ ǀ vavṛdhānaḥ ǁ10.79.7 Aṣṭaka 8.3.14.7Anuvāka 10.6.100
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.