Ṛgveda · Maṇḍala 10

Sūkta 95

Urvaśī · Purūravas Aiḷa · 1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī · 18 ṛks

Link
Devatā देवता
1, 3, 6, 8-10, 12, 14, 17: Urvaśī; 2, 4, 5, 7, 11, 13, 15, 16, 18: Purūravas Aiḷa
Ṛṣi ऋषि
1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (9, 11, 14, 17, 18); pādanicṛttriṣṭup (3, 4, 13, 16); virāṭtrisṭup (6-8, 15); triṣṭup (1, 2, 12); bhurigārcītriṣṭup (5, 10)

2nd set of styles triṣṭubh

  1. Ṛk 1

    ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु ।
    न नौ॒ मंत्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥

    हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु |
    न नौ मन्त्रा अनुदितास एते मयस् करन् परतरे चनाहन् ||

    hayé jā́ye mánasā tíṣṭha ghore vácāṃsi miśrā́ kṛṇavāvahai nú ǀ
    ná nau mántrā ánuditāsa eté máyaskaranpáratare canā́han ǁ

    haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu |
    na nau mantrā anuditāsa ete mayas karan paratare canāhan ||

    ह॒ये । जाये॑ । मन॑सा । तिष्ठ॑ । घो॒रे॒ । वचां॑सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु ।
    न । नौ॒ । मन्त्राः॑ । अनु॑दितासः । ए॒ते । मयः॑ । क॒र॒न् । पर॑ऽतरे । च॒न । अह॑न् ॥

    हये । जाये । मनसा । तिष्ठ । घोरे । वचांसि । मिश्रा । कृणवावहै । नु ।
    न । नौ । मन्त्राः । अनुदितासः । एते । मयः । करन् । परऽतरे । चन । अहन् ॥

    hayé ǀ jā́ye ǀ mánasā ǀ tíṣṭha ǀ ghore ǀ vácāṃsi ǀ miśrā́ ǀ kṛṇavāvahai ǀ nú ǀ
    ná ǀ nau ǀ mántrāḥ ǀ ánuditāsaḥ ǀ eté ǀ máyaḥ ǀ karan ǀ pára-tare ǀ caná ǀ áhan ǁ

    haye ǀ jāye ǀ manasā ǀ tiṣṭha ǀ ghore ǀ vacāṃsi ǀ miśrā ǀ kṛṇavāvahai ǀ nu ǀ
    na ǀ nau ǀ mantrāḥ ǀ anuditāsaḥ ǀ ete ǀ mayaḥ ǀ karan ǀ para-tare ǀ cana ǀ ahan ǁ

    10.95.1 Aṣṭaka 8.5.1.1Anuvāka 10.8.60

  2. Ṛk 2

    किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ ।
    पुरू॑रवः॒ पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥

    किम् एता वाचा कृणवा तवाहम् प्राक्रमिषम् उषसाम् अग्रियेव |
    पुरूरवः पुनर् अस्तम् परेहि दुरापना वात इवाहम् अस्मि ||

    kímetā́ vācā́ kṛṇavā távāhám prā́kramiṣamuṣásāmagriyéva ǀ
    púrūravaḥ púnarástam párehi durāpanā́ vā́ta ivāhámasmi ǁ

    kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva |
    purūravaḥ punar astam parehi durāpanā vāta ivāham asmi ||

    किम् । ए॒ता । वा॒चा । कृ॒ण॒व॒ । तव॑ । अ॒हम् । प्र । अ॒क्र॒मि॒ष॒म् । उ॒षसा॑म् । अ॒ग्रि॒याऽइ॑व ।
    पुरू॑रवः । पुनः॑ । अस्त॑म् । परा॑ । इ॒हि॒ । दुः॒ऽआ॒प॒ना । वातः॑ऽइव । अ॒हम् । अ॒स्मि॒ ॥

    किम् । एता । वाचा । कृणव । तव । अहम् । प्र । अक्रमिषम् । उषसाम् । अग्रियाऽइव ।
    पुरूरवः । पुनः । अस्तम् । परा । इहि । दुःऽआपना । वातःऽइव । अहम् । अस्मि ॥

    kím ǀ etā́ ǀ vācā́ ǀ kṛṇava ǀ táva ǀ ahám ǀ prá ǀ akramiṣam ǀ uṣásām ǀ agriyā́-iva ǀ
    púrūravaḥ ǀ púnaḥ ǀ ástam ǀ párā ǀ ihi ǀ duḥ-āpanā́ ǀ vā́taḥ-iva ǀ ahám ǀ asmi ǁ

    kim ǀ etā ǀ vācā ǀ kṛṇava ǀ tava ǀ aham ǀ pra ǀ akramiṣam ǀ uṣasām ǀ agriyā-iva ǀ
    purūravaḥ ǀ punaḥ ǀ astam ǀ parā ǀ ihi ǀ duḥ-āpanā ǀ vātaḥ-iva ǀ aham ǀ asmi ǁ

    10.95.2 Aṣṭaka 8.5.1.2Anuvāka 10.8.61

  3. Ṛk 3

    इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।
    अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयंत॒ धुन॑यः ॥

    इषुर् न श्रिय इषुधेर् असना गोषाः शतसा न रंहिः |
    अवीरे क्रतौ वि दविद्युतन् नोरा न मायुं चितयन्त धुनयः ||

    íṣurná śriyá iṣudhérasanā́ goṣā́ḥ śatasā́ ná ráṃhiḥ ǀ
    avī́re krátau ví davidyutannórā ná māyúm citayanta dhúnayaḥ ǁ

    iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ |
    avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ ||

    इषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ ।
    अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥

    इषुः । न । श्रिये । इषुऽधेः । असना । गोऽसाः । शतऽसाः । न । रंहिः ।
    अवीरे । क्रतौ । वि । दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः ॥

    íṣuḥ ǀ ná ǀ śriyé ǀ iṣu-dhéḥ ǀ asanā́ ǀ go-sā́ḥ ǀ śata-sā́ḥ ǀ ná ǀ ráṃhiḥ ǀ
    avī́re ǀ krátau ǀ ví ǀ davidyutat ǀ ná ǀ úrā ǀ ná ǀ māyúm ǀ citayanta ǀ dhúnayaḥ ǁ

    iṣuḥ ǀ na ǀ śriye ǀ iṣu-dheḥ ǀ asanā ǀ go-sāḥ ǀ śata-sāḥ ǀ na ǀ raṃhiḥ ǀ
    avīre ǀ kratau ǀ vi ǀ davidyutat ǀ na ǀ urā ǀ na ǀ māyum ǀ citayanta ǀ dhunayaḥ ǁ

    10.95.3 Aṣṭaka 8.5.1.3Anuvāka 10.8.62

  4. Ṛk 4

    सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यंति॑गृहात् ।
    अस्तं॑ ननक्षे॒ यस्मिं॑चा॒कंदिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥

    सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् |
    अस्तं ननक्षे यस्मिञ् चाकन् दिवा नक्तं श्नथिता वैतसेन ||

    sā́ vásu dádhatī śváśurāya váya úṣo yádi váṣṭyántigṛhāt ǀ
    ástam nanakṣe yásmiñcākándívā náktam śnathitā́ vaitaséna ǁ

    sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt |
    astaṃ nanakṣe yasmiñ cākan divā naktaṃ śnathitā vaitasena ||

    सा । वसु॑ । दध॑ती । श्वशु॑राय । वयः॑ । उषः॑ । यदि॑ । वष्टि॑ । अन्ति॑ऽगृहात् ।
    अस्त॑म् । न॒न॒क्षे॒ । यस्मि॑न् । चा॒कन् । दिवा॑ । नक्त॑म् । श्न॒थि॒ता । वै॒त॒सेन॑ ॥

    सा । वसु । दधती । श्वशुराय । वयः । उषः । यदि । वष्टि । अन्तिऽगृहात् ।
    अस्तम् । ननक्षे । यस्मिन् । चाकन् । दिवा । नक्तम् । श्नथिता । वैतसेन ॥

    sā́ ǀ vásu ǀ dádhatī ǀ śváśurāya ǀ váyaḥ ǀ úṣaḥ ǀ yádi ǀ váṣṭi ǀ ánti-gṛhāt ǀ
    ástam ǀ nanakṣe ǀ yásmin ǀ cākán ǀ dívā ǀ náktam ǀ śnathitā́ ǀ vaitaséna ǁ

    sā ǀ vasu ǀ dadhatī ǀ śvaśurāya ǀ vayaḥ ǀ uṣaḥ ǀ yadi ǀ vaṣṭi ǀ anti-gṛhāt ǀ
    astam ǀ nanakṣe ǀ yasmin ǀ cākan ǀ divā ǀ naktam ǀ śnathitā ǀ vaitasena ǁ

    10.95.4 Aṣṭaka 8.5.1.4Anuvāka 10.8.63

  5. Ṛk 5

    त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि ।
    पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥

    त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मे ऽव्यत्यै पृणासि |
    पुरूरवो ऽनु ते केतम् आयं राजा मे वीर तन्वस् तद् आसीः ||

    tríḥ sma mā́hnaḥ śnathayo vaitasénotá sma mé’vyatyai pṛṇāsi ǀ
    púrūravó’nu te kétamāyam rā́jā me vīra tanvástádāsīḥ ǁ

    triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi |
    purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ ||

    त्रिः । स्म॒ । मा॒ । अह्नः॑ । श्न॒थ॒यः॒ । वै॒त॒सेन॑ । उ॒त । स्म॒ । मे॒ । अव्य॑त्यै । पृ॒णा॒सि॒ ।
    पुरू॑रवः । अनु॑ । ते॒ । केत॑म् । आ॒य॒म् । राजा॑ । मे॒ । वी॒र॒ । त॒न्वः॑ । तत् । आ॒सीः॒ ॥

    त्रिः । स्म । मा । अह्नः । श्नथयः । वैतसेन । उत । स्म । मे । अव्यत्यै । पृणासि ।
    पुरूरवः । अनु । ते । केतम् । आयम् । राजा । मे । वीर । तन्वः । तत् । आसीः ॥

    tríḥ ǀ sma ǀ mā ǀ áhnaḥ ǀ śnathayaḥ ǀ vaitaséna ǀ utá ǀ sma ǀ me ǀ ávyatyai ǀ pṛṇāsi ǀ
    púrūravaḥ ǀ ánu ǀ te ǀ kétam ǀ āyam ǀ rā́jā ǀ me ǀ vīra ǀ tanváḥ ǀ tát ǀ āsīḥ ǁ

    triḥ ǀ sma ǀ mā ǀ ahnaḥ ǀ śnathayaḥ ǀ vaitasena ǀ uta ǀ sma ǀ me ǀ avyatyai ǀ pṛṇāsi ǀ
    purūravaḥ ǀ anu ǀ te ǀ ketam ǀ āyam ǀ rājā ǀ me ǀ vīra ǀ tanvaḥ ǀ tat ǀ āsīḥ ǁ

    10.95.5 Aṣṭaka 8.5.1.5Anuvāka 10.8.64

  6. Ṛk 6

    या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्रं॒थिनी॑ चर॒ण्युः ।
    ता अं॒जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवंत ॥

    या सुजूर्णिः श्रेणिः सुम्नआपिर् ह्रदेचक्षुर् न ग्रन्थिनी चरण्युः |
    ता अञ्जयो ऽरुणयो न सस्रुः श्रिये गावो न धेनवो ऽनवन्त ||

    yā́ sujūrṇíḥ śréṇiḥ sumnáāpirhradécakṣurná granthínī caraṇyúḥ ǀ
    tā́ añjáyo’ruṇáyo ná sasruḥ śriyé gā́vo ná dhenávo’navanta ǁ

    yā sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ |
    tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta ||

    या । सु॒ऽजू॒र्णिः । श्रेणिः॑ । सु॒म्नेऽआ॑पिः । ह्र॒देऽच॑क्षुः । न । ग्र॒न्थिनी॑ । च॒र॒ण्युः ।
    ताः । अ॒ञ्जयः॑ । अ॒रु॒णयः॑ । न । स॒स्रुः॒ । श्रि॒ये । गावः॑ । न । धे॒नवः॑ । अ॒न॒व॒न्त॒ ॥

    या । सुऽजूर्णिः । श्रेणिः । सुम्नेऽआपिः । ह्रदेऽचक्षुः । न । ग्रन्थिनी । चरण्युः ।
    ताः । अञ्जयः । अरुणयः । न । सस्रुः । श्रिये । गावः । न । धेनवः । अनवन्त ॥

    yā́ ǀ su-jūrṇíḥ ǀ śréṇiḥ ǀ sumné-āpiḥ ǀ hradé-cakṣuḥ ǀ ná ǀ granthínī ǀ caraṇyúḥ ǀ
    tā́ḥ ǀ añjáyaḥ ǀ aruṇáyaḥ ǀ ná ǀ sasruḥ ǀ śriyé ǀ gā́vaḥ ǀ ná ǀ dhenávaḥ ǀ anavanta ǁ

    yā ǀ su-jūrṇiḥ ǀ śreṇiḥ ǀ sumne-āpiḥ ǀ hrade-cakṣuḥ ǀ na ǀ granthinī ǀ caraṇyuḥ ǀ
    tāḥ ǀ añjayaḥ ǀ aruṇayaḥ ǀ na ǀ sasruḥ ǀ śriye ǀ gāvaḥ ǀ na ǀ dhenavaḥ ǀ anavanta ǁ

    10.95.6 Aṣṭaka 8.5.2.1Anuvāka 10.8.65

  7. Ṛk 7

    सम॑स्मिं॒जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्यः१॒॑ स्वगू॑र्ताः ।
    म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयंदस्यु॒हत्या॑य दे॒वाः ॥

    सम् अस्मिञ् जायमान आसत ग्ना उतेम् अवर्धन् नद्यः स्वगूर्ताः |
    महे यत् त्वा पुरूरवो रणायावर्धयन् दस्युहत्याय देवाः ||

    sámasmiñjā́yamāna āsata gnā́ utémavardhannadyáḥ svágūrtāḥ ǀ
    mahé yáttvā purūravo ráṇāyā́vardhayandasyuhátyāya devā́ḥ ǁ

    sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ |
    mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ ||

    सम् । अ॒स्मि॒न् । जाय॑माने । आ॒स॒त॒ । ग्नाः । उ॒त । ई॒म् । अ॒व॒र्ध॒न् । न॒द्यः॑ । स्वऽगू॑र्ताः ।
    म॒हे । यत् । त्वा॒ । पु॒रू॒र॒वः॒ । रणा॑य । अव॑र्धयन् । द॒स्यु॒ऽहत्या॑य । दे॒वाः ॥

    सम् । अस्मिन् । जायमाने । आसत । ग्नाः । उत । ईम् । अवर्धन् । नद्यः । स्वऽगूर्ताः ।
    महे । यत् । त्वा । पुरूरवः । रणाय । अवर्धयन् । दस्युऽहत्याय । देवाः ॥

    sám ǀ asmin ǀ jā́yamāne ǀ āsata ǀ gnā́ḥ ǀ utá ǀ īm ǀ avardhan ǀ nadyáḥ ǀ svá-gūrtāḥ ǀ
    mahé ǀ yát ǀ tvā ǀ purūravaḥ ǀ ráṇāya ǀ ávardhayan ǀ dasyu-hátyāya ǀ devā́ḥ ǁ

    sam ǀ asmin ǀ jāyamāne ǀ āsata ǀ gnāḥ ǀ uta ǀ īm ǀ avardhan ǀ nadyaḥ ǀ sva-gūrtāḥ ǀ
    mahe ǀ yat ǀ tvā ǀ purūravaḥ ǀ raṇāya ǀ avardhayan ǀ dasyu-hatyāya ǀ devāḥ ǁ

    10.95.7 Aṣṭaka 8.5.2.2Anuvāka 10.8.66

  8. Ṛk 8

    सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।
    अप॑ स्म॒ मत्त॒रसं॑ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ॥

    सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे |
    अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः ||

    sácā yádāsu jáhatīṣvátkamámānuṣīṣu mā́nuṣo niṣéve ǀ
    ápa sma máttarásantī ná bhujyústā́ atrasanrathaspṛ́śo nā́śvāḥ ǁ

    sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve |
    apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ ||

    सचा॑ । यत् । आ॒सु॒ । जह॑तीषु । अत्क॑म् । अमा॑नुषीषु । मानु॑षः । नि॒ऽसेवे॑ ।
    अप॑ । स्म॒ । मत् । त॒रस॑न्ती । न । भु॒ज्युः । ताः । अ॒त्र॒स॒न् । र॒थ॒ऽस्पृशः॑ । न । अश्वाः॑ ॥

    सचा । यत् । आसु । जहतीषु । अत्कम् । अमानुषीषु । मानुषः । निऽसेवे ।
    अप । स्म । मत् । तरसन्ती । न । भुज्युः । ताः । अत्रसन् । रथऽस्पृशः । न । अश्वाः ॥

    sácā ǀ yát ǀ āsu ǀ jáhatīṣu ǀ átkam ǀ ámānuṣīṣu ǀ mā́nuṣaḥ ǀ ni-séve ǀ
    ápa ǀ sma ǀ mát ǀ tarásantī ǀ ná ǀ bhujyúḥ ǀ tā́ḥ ǀ atrasan ǀ ratha-spṛ́śaḥ ǀ ná ǀ áśvāḥ ǁ

    sacā ǀ yat ǀ āsu ǀ jahatīṣu ǀ atkam ǀ amānuṣīṣu ǀ mānuṣaḥ ǀ ni-seve ǀ
    apa ǀ sma ǀ mat ǀ tarasantī ǀ na ǀ bhujyuḥ ǀ tāḥ ǀ atrasan ǀ ratha-spṛśaḥ ǀ na ǀ aśvāḥ ǁ

    10.95.8 Aṣṭaka 8.5.2.3Anuvāka 10.8.67

  9. Ṛk 9

    यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृं॒क्ते ।
    ता आ॒तयो॒ न त॒न्वः॑ शुंभत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दंद॑शानाः ॥

    यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर् न पृङ्क्ते |
    ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीऌअयो दन्दशानाः ||

    yádāsu márto amṛ́tāsu nispṛ́ksám kṣoṇī́bhiḥ krátubhirná pṛṅkté ǀ
    tā́ ātáyo ná tanváḥ śumbhata svā́ áśvāso ná krīḷáyo dándaśānāḥ ǁ

    yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte |
    tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḷayo dandaśānāḥ ||

    यत् । आ॒सु॒ । मर्तः॑ । अ॒मृता॑सु । नि॒ऽस्पृक् । सम् । क्षो॒णीभिः॑ । क्रतु॑ऽभिः । न । पृ॒ङ्क्ते ।
    ताः । आ॒तयः॑ । न । त॒न्वः॑ । शु॒म्भ॒त॒ । स्वाः । अश्वा॑सः । न । क्री॒ळयः॑ । दन्द॑शानाः ॥

    यत् । आसु । मर्तः । अमृतासु । निऽस्पृक् । सम् । क्षोणीभिः । क्रतुऽभिः । न । पृङ्क्ते ।
    ताः । आतयः । न । तन्वः । शुम्भत । स्वाः । अश्वासः । न । क्रीळयः । दन्दशानाः ॥

    yát ǀ āsu ǀ mártaḥ ǀ amṛ́tāsu ǀ ni-spṛ́k ǀ sám ǀ kṣoṇī́bhiḥ ǀ krátu-bhiḥ ǀ ná ǀ pṛṅkté ǀ
    tā́ḥ ǀ ātáyaḥ ǀ ná ǀ tanváḥ ǀ śumbhata ǀ svā́ḥ ǀ áśvāsaḥ ǀ ná ǀ krīḷáyaḥ ǀ dándaśānāḥ ǁ

    yat ǀ āsu ǀ martaḥ ǀ amṛtāsu ǀ ni-spṛk ǀ sam ǀ kṣoṇībhiḥ ǀ kratu-bhiḥ ǀ na ǀ pṛṅkte ǀ
    tāḥ ǀ ātayaḥ ǀ na ǀ tanvaḥ ǀ śumbhata ǀ svāḥ ǀ aśvāsaḥ ǀ na ǀ krīḷayaḥ ǀ dandaśānāḥ ǁ

    10.95.9 Aṣṭaka 8.5.2.4Anuvāka 10.8.68

  10. Ṛk 10

    वि॒द्युन्न या पतं॑ती॒ दवि॑द्यो॒द्भरं॑ती मे॒ अप्या॒ काम्या॑नि ।
    जनि॑ष्टो अ॒पो नर्यः॒ सुजा॑तः॒ प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ॥

    विद्युन् न या पतन्ती दविद्योद् भरन्ती मे अप्या काम्यानि |
    जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घम् आयुः ||

    vidyúnná yā́ pátantī dávidyodbhárantī me ápyā kā́myāni ǀ
    jániṣṭo apó náryaḥ sújātaḥ prórváśī tirata dīrghámā́yuḥ ǁ

    vidyun na yā patantī davidyod bharantī me apyā kāmyāni |
    janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ ||

    वि॒ऽद्युत् । न । या । पत॑न्ती । दवि॑द्योत् । भर॑न्ती । मे॒ । अप्या॑ । काम्या॑नि ।
    जनि॑ष्टो॒ इति॑ । अ॒पः । नर्यः॑ । सुऽजा॑तः । प्र । उ॒र्वशी॑ । ति॒र॒त॒ । दी॒र्घम् । आयुः॑ ॥

    विऽद्युत् । न । या । पतन्ती । दविद्योत् । भरन्ती । मे । अप्या । काम्यानि ।
    जनिष्टो इति । अपः । नर्यः । सुऽजातः । प्र । उर्वशी । तिरत । दीर्घम् । आयुः ॥

    vi-dyút ǀ ná ǀ yā́ ǀ pátantī ǀ dávidyot ǀ bhárantī ǀ me ǀ ápyā ǀ kā́myāni ǀ
    jániṣṭo íti ǀ apáḥ ǀ náryaḥ ǀ sú-jātaḥ ǀ prá ǀ urváśī ǀ tirata ǀ dīrghám ǀ ā́yuḥ ǁ

    vi-dyut ǀ na ǀ yā ǀ patantī ǀ davidyot ǀ bharantī ǀ me ǀ apyā ǀ kāmyāni ǀ
    janiṣṭo iti ǀ apaḥ ǀ naryaḥ ǀ su-jātaḥ ǀ pra ǀ urvaśī ǀ tirata ǀ dīrgham ǀ āyuḥ ǁ

    10.95.10 Aṣṭaka 8.5.2.5Anuvāka 10.8.69

  11. Ṛk 11

    ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ ।
    अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ॥

    जज्ञिष इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो म ओजः |
    अशासं त्वा विदुषी सस्मिन्न् अहन् न म आशृणोः किम् अभुग् वदासि ||

    jajñiṣá itthā́ gopī́thyāya hí dadhā́tha tátpurūravo ma ójaḥ ǀ
    áśāsam tvā vidúṣī sásminnáhanná ma ā́śṛṇoḥ kímabhúgvadāsi ǁ

    jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ |
    aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi ||

    ज॒ज्ञि॒षे । इ॒त्था । गो॒ऽपीथ्या॑य । हि । द॒धाथ॑ । तत् । पु॒रू॒र॒वः॒ । मे॒ । ओजः॑ ।
    अशा॑सम् । त्वा॒ । वि॒दुषी॑ । सस्मि॑न् । अह॑न् । न । मे॒ । आ । अ॒शृ॒णोः॒ । किम् । अ॒भुक् । व॒दा॒सि॒ ॥

    जज्ञिषे । इत्था । गोऽपीथ्याय । हि । दधाथ । तत् । पुरूरवः । मे । ओजः ।
    अशासम् । त्वा । विदुषी । सस्मिन् । अहन् । न । मे । आ । अशृणोः । किम् । अभुक् । वदासि ॥

    jajñiṣé ǀ itthā́ ǀ go-pī́thyāya ǀ hí ǀ dadhā́tha ǀ tát ǀ purūravaḥ ǀ me ǀ ójaḥ ǀ
    áśāsam ǀ tvā ǀ vidúṣī ǀ sásmin ǀ áhan ǀ ná ǀ me ǀ ā́ ǀ aśṛṇoḥ ǀ kím ǀ abhúk ǀ vadāsi ǁ

    jajñiṣe ǀ itthā ǀ go-pīthyāya ǀ hi ǀ dadhātha ǀ tat ǀ purūravaḥ ǀ me ǀ ojaḥ ǀ
    aśāsam ǀ tvā ǀ viduṣī ǀ sasmin ǀ ahan ǀ na ǀ me ǀ ā ǀ aśṛṇoḥ ǀ kim ǀ abhuk ǀ vadāsi ǁ

    10.95.11 Aṣṭaka 8.5.3.1Anuvāka 10.8.70

  12. Ṛk 12

    क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।
    को दंप॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥

    कदा सूनुः पितरं जात इच्छाच् चक्रन् नाश्रु वर्तयद् विजानन् |
    को दम्पती समनसा वि यूयोद् अध यद् अग्निः श्वशुरेषु दीदयत् ||

    kadā́ sūnúḥ pitáram jātá icchāccakránnā́śru vartayadvijānán ǀ
    kó dámpatī sámanasā ví yūyodádha yádagníḥ śváśureṣu dī́dayat ǁ

    kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan |
    ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat ||

    क॒दा । सू॒नुः । पि॒तर॑म् । जा॒तः । इ॒च्छा॒त् । च॒क्रन् । न । अश्रु॑ । व॒र्त॒य॒त् । वि॒ऽजा॒नन् ।
    कः । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । वि । यू॒यो॒त् । अध॑ । यत् । अ॒ग्निः । श्वशु॑रेषु । दीद॑यत् ॥

    कदा । सूनुः । पितरम् । जातः । इच्छात् । चक्रन् । न । अश्रु । वर्तयत् । विऽजानन् ।
    कः । दम्पती इति दम्ऽपती । सऽमनसा । वि । यूयोत् । अध । यत् । अग्निः । श्वशुरेषु । दीदयत् ॥

    kadā́ ǀ sūnúḥ ǀ pitáram ǀ jātáḥ ǀ icchāt ǀ cakrán ǀ ná ǀ áśru ǀ vartayat ǀ vi-jānán ǀ
    káḥ ǀ dámpatī íti dám-patī ǀ sá-manasā ǀ ví ǀ yūyot ǀ ádha ǀ yát ǀ agníḥ ǀ śváśureṣu ǀ dī́dayat ǁ

    kadā ǀ sūnuḥ ǀ pitaram ǀ jātaḥ ǀ icchāt ǀ cakran ǀ na ǀ aśru ǀ vartayat ǀ vi-jānan ǀ
    kaḥ ǀ dampatī iti dam-patī ǀ sa-manasā ǀ vi ǀ yūyot ǀ adha ǀ yat ǀ agniḥ ǀ śvaśureṣu ǀ dīdayat ǁ

    10.95.12 Aṣṭaka 8.5.3.2Anuvāka 10.8.71

  13. Ṛk 13

    प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्रं॑ददा॒ध्ये॑ शि॒वायै॑ ।
    प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥

    प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै |
    प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर मापः ||

    práti bravāṇi vartáyate áśru cakránná krandadādhyé śivā́yai ǀ
    prá tátte hinavā yátte asmé párehyástam nahí mūra mā́paḥ ǁ

    prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai |
    pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ ||

    प्रति॑ । ब्र॒वा॒णि॒ । व॒र्तय॑ते । अश्रु॑ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒ऽध्ये॑ । शि॒वायै॑ ।
    प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति॑ । परा॑ । इ॒हि॒ । अस्त॑म् । न॒हि । मू॒र॒ । मा॒ । आपः॑ ॥

    प्रति । ब्रवाणि । वर्तयते । अश्रु । चक्रन् । न । क्रन्दत् । आऽध्ये । शिवायै ।
    प्र । तत् । ते । हिनव । यत् । ते । अस्मे इति । परा । इहि । अस्तम् । नहि । मूर । मा । आपः ॥

    práti ǀ bravāṇi ǀ vartáyate ǀ áśru ǀ cakrán ǀ ná ǀ krandat ǀ ā-dhyé ǀ śivā́yai ǀ
    prá ǀ tát ǀ te ǀ hinava ǀ yát ǀ te ǀ asmé íti ǀ párā ǀ ihi ǀ ástam ǀ nahí ǀ mūra ǀ mā ǀ ā́paḥ ǁ

    prati ǀ bravāṇi ǀ vartayate ǀ aśru ǀ cakran ǀ na ǀ krandat ǀ ā-dhye ǀ śivāyai ǀ
    pra ǀ tat ǀ te ǀ hinava ǀ yat ǀ te ǀ asme iti ǀ parā ǀ ihi ǀ astam ǀ nahi ǀ mūra ǀ mā ǀ āpaḥ ǁ

    10.95.13 Aṣṭaka 8.5.3.3Anuvāka 10.8.72

  14. Ṛk 14

    सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गंत॒वा उ॑ ।
    अधा॒ शयी॑त॒ निर्ऋ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥

    सुदेवो अद्य प्रपतेद् अनावृत् परावतम् परमां गन्तवा उ |
    अधा शयीत निरृतेर् उपस्थे ऽधैनं वृका रभसासो अद्युः ||

    sudevó adyá prapátedánāvṛtparāvátam paramā́m gántavā́ u ǀ
    ádhā śáyīta nírṛterupásthé’dhainam vṛ́kā rabhasā́so adyúḥ ǁ

    sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u |
    adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ ||

    सु॒ऽदे॒वः । अ॒द्य । प्र॒ऽपते॑त् । अना॑वृत् । प॒रा॒ऽवत॑म् । प॒र॒माम् । गन्त॒वै । ऊं॒ इति॑ ।
    अध॑ । शयी॑त । निःऽऋ॑तेः । उ॒पऽस्थे॑ । अध॑ । ए॒न॒म् । वृकाः॑ । र॒भ॒सासः॑ । अ॒द्युः ॥

    सुऽदेवः । अद्य । प्रऽपतेत् । अनावृत् । पराऽवतम् । परमाम् । गन्तवै । ऊं इति ।
    अध । शयीत । निःऽऋतेः । उपऽस्थे । अध । एनम् । वृकाः । रभसासः । अद्युः ॥

    su-deváḥ ǀ adyá ǀ pra-pátet ǀ ánāvṛt ǀ parā-vátam ǀ paramā́m ǀ gántavái ǀ ūṃ íti ǀ
    ádha ǀ śáyīta ǀ níḥ-ṛteḥ ǀ upá-sthe ǀ ádha ǀ enam ǀ vṛ́kāḥ ǀ rabhasā́saḥ ǀ adyúḥ ǁ

    su-devaḥ ǀ adya ǀ pra-patet ǀ anāvṛt ǀ parā-vatam ǀ paramām ǀ gantavai ǀ ūṃ iti ǀ
    adha ǀ śayīta ǀ niḥ-ṛteḥ ǀ upa-sthe ǀ adha ǀ enam ǀ vṛkāḥ ǀ rabhasāsaḥ ǀ adyuḥ ǁ

    10.95.14 Aṣṭaka 8.5.3.4Anuvāka 10.8.73

  15. Ṛk 15

    पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।
    न वै स्त्रैणा॑नि स॒ख्यानि॑ संति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥

    पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् |
    न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्य् एता ||

    púrūravo mā́ mṛthā mā́ prá papto mā́ tvā vṛ́kāso áśivāsa u kṣan ǀ
    ná vái stráiṇāni sakhyā́ni santi sālāvṛkā́ṇām hṛ́dayānyetā́ ǁ

    purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan |
    na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā ||

    पुरू॑रवः । मा । मृ॒थाः॒ । मा । प्र । प॒प्तः॒ । मा । त्वा॒ । वृका॑सः । अशि॑वासः । ऊं॒ इति॑ । क्ष॒न् ।
    न । वै । स्त्रैणा॑नि । स॒ख्यानि॑ । स॒न्ति॒ । सा॒ला॒वृ॒काणा॑म् । हृद॑यानि । ए॒ता ॥

    पुरूरवः । मा । मृथाः । मा । प्र । पप्तः । मा । त्वा । वृकासः । अशिवासः । ऊं इति । क्षन् ।
    न । वै । स्त्रैणानि । सख्यानि । सन्ति । सालावृकाणाम् । हृदयानि । एता ॥

    púrūravaḥ ǀ mā́ ǀ mṛthāḥ ǀ mā́ ǀ prá ǀ paptaḥ ǀ mā́ ǀ tvā ǀ vṛ́kāsaḥ ǀ áśivāsaḥ ǀ ūṃ íti ǀ kṣan ǀ
    ná ǀ vái ǀ stráiṇāni ǀ sakhyā́ni ǀ santi ǀ sālāvṛkā́ṇām ǀ hṛ́dayāni ǀ etā́ ǁ

    purūravaḥ ǀ mā ǀ mṛthāḥ ǀ mā ǀ pra ǀ paptaḥ ǀ mā ǀ tvā ǀ vṛkāsaḥ ǀ aśivāsaḥ ǀ ūṃ iti ǀ kṣan ǀ
    na ǀ vai ǀ straiṇāni ǀ sakhyāni ǀ santi ǀ sālāvṛkāṇām ǀ hṛdayāni ǀ etā ǁ

    10.95.15 Aṣṭaka 8.5.3.5Anuvāka 10.8.74

  16. Ṛk 16

    यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः ।
    घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥

    यद् विरूपाचरम् मर्त्येष्व् अवसं रात्रीः शरदश् चतस्रः |
    घृतस्य स्तोकं सकृद् अह्न आश्नां ताद् एवेदं तातृपाणा चरामि ||

    yádvírūpā́caram mártyeṣvávasam rā́trīḥ śarádaścátasraḥ ǀ
    ghṛtásya stokám sakṛ́dáhna āśnām tā́devédám tātṛpāṇā́ carāmi ǁ

    yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ |
    ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi ||

    यत् । विऽरू॑पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः ।
    घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥

    यत् । विऽरूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः ।
    घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि ॥

    yát ǀ ví-rūpā ǀ ácaram ǀ mártyeṣu ǀ ávasam ǀ rā́trīḥ ǀ śarádaḥ ǀ cátasraḥ ǀ
    ghṛtásya ǀ stokám ǀ sakṛ́t ǀ áhnaḥ ǀ āśnām ǀ tā́t ǀ evá ǀ idám ǀ tatṛpāṇā́ ǀ carāmi ǁ

    yat ǀ vi-rūpā ǀ acaram ǀ martyeṣu ǀ avasam ǀ rātrīḥ ǀ śaradaḥ ǀ catasraḥ ǀ
    ghṛtasya ǀ stokam ǀ sakṛt ǀ ahnaḥ ǀ āśnām ǀ tāt ǀ eva ǀ idam ǀ tatṛpāṇā ǀ carāmi ǁ

    10.95.16 Aṣṭaka 8.5.4.1Anuvāka 10.8.75

  17. Ṛk 17

    अं॒त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।
    उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥

    अन्तरिक्षप्रां रजसो विमानीम् उप शिक्षाम्य् उर्वशीं वसिष्ठः |
    उप त्वा रातिः सुकृतस्य तिष्ठान् नि वर्तस्व हृदयं तप्यते मे ||

    antarikṣaprā́m rájaso vimā́nīmúpa śikṣāmyurváśīm vásiṣṭhaḥ ǀ
    úpa tvā rātíḥ sukṛtásya tíṣṭhānní vartasva hṛ́dayam tapyate me ǁ

    antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ |
    upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me ||

    अ॒न्त॒रि॒क्ष॒ऽप्राम् । रज॑सः । वि॒ऽमानी॑म् । उप॑ । शि॒क्षा॒मि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः ।
    उप॑ । त्वा॒ । रा॒तिः । सु॒ऽकृ॒तस्य॑ । तिष्ठा॑त् । नि । व॒र्त॒स्व॒ । हृद॑यम् । त॒प्य॒ते॒ । मे॒ ॥

    अन्तरिक्षऽप्राम् । रजसः । विऽमानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः ।
    उप । त्वा । रातिः । सुऽकृतस्य । तिष्ठात् । नि । वर्तस्व । हृदयम् । तप्यते । मे ॥

    antarikṣa-prā́m ǀ rájasaḥ ǀ vi-mā́nīm ǀ úpa ǀ śikṣāmi ǀ urváśīm ǀ vásiṣṭhaḥ ǀ
    úpa ǀ tvā ǀ rātíḥ ǀ su-kṛtásya ǀ tíṣṭhāt ǀ ní ǀ vartasva ǀ hṛ́dayam ǀ tapyate ǀ me ǁ

    antarikṣa-prām ǀ rajasaḥ ǀ vi-mānīm ǀ upa ǀ śikṣāmi ǀ urvaśīm ǀ vasiṣṭhaḥ ǀ
    upa ǀ tvā ǀ rātiḥ ǀ su-kṛtasya ǀ tiṣṭhāt ǀ ni ǀ vartasva ǀ hṛdayam ǀ tapyate ǀ me ǁ

    10.95.17 Aṣṭaka 8.5.4.2Anuvāka 10.8.76

  18. Ṛk 18

    इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युबं॑धुः ।
    प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥

    इति त्वा देवा इम आहुर् ऐऌअ यथेम् एतद् भवसि मृत्युबन्धुः |
    प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे ||

    íti tvā devā́ imá āhuraiḷa yáthemetádbhávasi mṛtyúbandhuḥ ǀ
    prajā́ te devā́nhavíṣā yajāti svargá u tvámápi mādayāse ǁ

    iti tvā devā ima āhur aiḷa yathem etad bhavasi mṛtyubandhuḥ |
    prajā te devān haviṣā yajāti svarga u tvam api mādayāse ||

    इति॑ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्युऽब॑न्धुः ।
    प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विषा॑ । य॒जा॒ति॒ । स्वः॒ऽगे । ऊं॒ इति॑ । त्वम् । अपि॑ । मा॒द॒या॒से॒ ॥

    इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्युऽबन्धुः ।
    प्रऽजा । ते । देवान् । हविषा । यजाति । स्वःऽगे । ऊं इति । त्वम् । अपि । मादयासे ॥

    íti ǀ tvā ǀ devā́ḥ ǀ imé ǀ āhuḥ ǀ aiḷa ǀ yáthā ǀ īm ǀ etát ǀ bhávasi ǀ mṛtyú-bandhuḥ ǀ
    pra-jā́ ǀ te ǀ devā́n ǀ havíṣā ǀ yajāti ǀ svaḥ-gé ǀ ūṃ íti ǀ tvám ǀ ápi ǀ mādayāse ǁ

    iti ǀ tvā ǀ devāḥ ǀ ime ǀ āhuḥ ǀ aiḷa ǀ yathā ǀ īm ǀ etat ǀ bhavasi ǀ mṛtyu-bandhuḥ ǀ
    pra-jā ǀ te ǀ devān ǀ haviṣā ǀ yajāti ǀ svaḥ-ge ǀ ūṃ iti ǀ tvam ǀ api ǀ mādayāse ǁ

    10.95.18 Aṣṭaka 8.5.4.3Anuvāka 10.8.77

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.95 · Urvaśī · Purūravas Aiḷa

Interpretations

Ralph T. H. Griffith

Ṛk 1

Ho there, my consort! Stay, thou fierce-souled lady, and let us reason for a while together. Such thoughts as these of ours, while yet unspoken in days gone by have never brought us comfort.

Ṛk 2

What am I now to do with this thy saying? I have gone from thee like the first of Mornings. Purūravas, return thou to thy dwelling: I, like the wind, am difficult to capture.

Ṛk 3

Like a shaft sent for glory from the quiver, or swift-steed winning cattle winning hundreds. The lightning seemed to flash, as cowards planned it. The minstrels bleated like a lamb in trouble.

Ṛk 4

Giving her husband's father life and riches, from the near dwelling, when her lover craved her, She sought the home wherein she found her pleasure, accepting day and night her lord's embraces.

Ṛk 5

Thrice in the day didst thou embrace thy consort, though coldly she received thy fond caresses. To thy desires, Purūravas, I yielded: so wast thou king, O hero, of my body.

Ṛk 6

The maids Sujirni, Sreni, Sumne-api, Charanyu, Granthini, and Hradecaksus,— These like red kine have hastened forth, the bright ones, and like milch-cows have lowed in emulation.

Ṛk 7

While he was born the Dames sate down together, the Rivers with free kindness gave him nurture; And then, Purūravas, the Gods increased thee for mighty battle, to destroy the Dasyus.

Ṛk 8

When I, a mortal, wooed to mine embraces these heavenly nymphs who laid aside their raiment, Like a scared snake they fled from me in terror, like chariot horses when the car has touched them.

Ṛk 9

When, loving these Immortal Ones, the mortal hath converse with the nymphs as they allow him. Like swans they show the beauty of their bodies, like horses in their play they bite and nibble.

Ṛk 10

She who flashed brilliant as the falling lightning brought me delicious presents from the waters. Now from the flood be born a strong young hero May Uruvasi prolong her life for ever

Ṛk 11

Thy birth hath made me drink from earthly milch-kine: this power, Purūravas, hast thou vouchsafed me. I knew, and, warned thee, on that day. Thou wouldst not hear me. What sayest thou, when naught avails thee?

Ṛk 12

When will the son be born and seek his father? Mourner-like, will he weep when first he knows him? Who shall divide the accordant wife and husband, while fire is shining with thy consort's parents?

Ṛk 13

I will console him when his tears are falling: he shall not weep and cry for care that blesses. That which is thine, between us, will I send thee. Go home again, thou fool;ṭhou hast not won me.

Ṛk 14

Thy lover shall flee forth this day for ever, to seek, without return, the farthest distance. Then let his bed be in Destruction's bosom, and there let fierce rapacious wolves devour him.

Ṛk 15

Nay, do not die, Purūravas, nor vanish: let not the evil-omened wolves devour thee. With women there can be no lasting friendship: hearts of hyenas are the hearts of women.

Ṛk 16

When amid men in altered shape I sojourned, and through four autumns spent the nights among them, I tasted once a day a drop of butter; and even now with that am I am contented.

Ṛk 17

I, her best love, call Urvasi to meet me, her who fills air and measures out the region. Let the gift brought by piety approach thee. Turn thou to me again: my heart is troubled.