Ṛgveda · Maṇḍala 10 · Sūkta 95
Ṛk 10.95.8
Saṃhitā
सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।
अप॑ स्म॒ मत्त॒रसं॑ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ॥
सचा यद् आसु जहतीष्व् अत्कम् अमानुषीषु मानुषो निषेवे |
अप स्म मत् तरसन्ती न भुज्युस् ता अत्रसन् रथस्पृशो नाश्वाः ||
sácā yádāsu jáhatīṣvátkamámānuṣīṣu mā́nuṣo niṣéve ǀ
ápa sma máttarásantī ná bhujyústā́ atrasanrathaspṛ́śo nā́śvāḥ ǁ
sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve |
apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ ||
Padapāṭha
सचा॑ । यत् । आ॒सु॒ । जह॑तीषु । अत्क॑म् । अमा॑नुषीषु । मानु॑षः । नि॒ऽसेवे॑ ।
अप॑ । स्म॒ । मत् । त॒रस॑न्ती । न । भु॒ज्युः । ताः । अ॒त्र॒स॒न् । र॒थ॒ऽस्पृशः॑ । न । अश्वाः॑ ॥
सचा । यत् । आसु । जहतीषु । अत्कम् । अमानुषीषु । मानुषः । निऽसेवे ।
अप । स्म । मत् । तरसन्ती । न । भुज्युः । ताः । अत्रसन् । रथऽस्पृशः । न । अश्वाः ॥
sácā ǀ yát ǀ āsu ǀ jáhatīṣu ǀ átkam ǀ ámānuṣīṣu ǀ mā́nuṣaḥ ǀ ni-séve ǀ
ápa ǀ sma ǀ mát ǀ tarásantī ǀ ná ǀ bhujyúḥ ǀ tā́ḥ ǀ atrasan ǀ ratha-spṛ́śaḥ ǀ ná ǀ áśvāḥ ǁ
sacā ǀ yat ǀ āsu ǀ jahatīṣu ǀ atkam ǀ amānuṣīṣu ǀ mānuṣaḥ ǀ ni-seve ǀ
apa ǀ sma ǀ mat ǀ tarasantī ǀ na ǀ bhujyuḥ ǀ tāḥ ǀ atrasan ǀ ratha-spṛśaḥ ǀ na ǀ aśvāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.095.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.02.03
- Maṇḍala · Anuvāka · Ṛk
- 10.08.067
- Devatā देवता
- 1, 3, 6, 8-10, 12, 14, 17: Urvaśī; 2, 4, 5, 7, 11, 13, 15, 16, 18: Purūravas Aiḷa
- Ṛṣi ऋषि
- 1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.