Ṛgveda · Maṇḍala 10 · Sūkta 95
Ṛk 10.95.9
Saṃhitā
यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृं॒क्ते ।
ता आ॒तयो॒ न त॒न्वः॑ शुंभत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दंद॑शानाः ॥
यद् आसु मर्तो अमृतासु निस्पृक् सं क्षोणीभिः क्रतुभिर् न पृङ्क्ते |
ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीऌअयो दन्दशानाः ||
yádāsu márto amṛ́tāsu nispṛ́ksám kṣoṇī́bhiḥ krátubhirná pṛṅkté ǀ
tā́ ātáyo ná tanváḥ śumbhata svā́ áśvāso ná krīḷáyo dándaśānāḥ ǁ
yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte |
tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḷayo dandaśānāḥ ||
Padapāṭha
यत् । आ॒सु॒ । मर्तः॑ । अ॒मृता॑सु । नि॒ऽस्पृक् । सम् । क्षो॒णीभिः॑ । क्रतु॑ऽभिः । न । पृ॒ङ्क्ते ।
ताः । आ॒तयः॑ । न । त॒न्वः॑ । शु॒म्भ॒त॒ । स्वाः । अश्वा॑सः । न । क्री॒ळयः॑ । दन्द॑शानाः ॥
यत् । आसु । मर्तः । अमृतासु । निऽस्पृक् । सम् । क्षोणीभिः । क्रतुऽभिः । न । पृङ्क्ते ।
ताः । आतयः । न । तन्वः । शुम्भत । स्वाः । अश्वासः । न । क्रीळयः । दन्दशानाः ॥
yát ǀ āsu ǀ mártaḥ ǀ amṛ́tāsu ǀ ni-spṛ́k ǀ sám ǀ kṣoṇī́bhiḥ ǀ krátu-bhiḥ ǀ ná ǀ pṛṅkté ǀ
tā́ḥ ǀ ātáyaḥ ǀ ná ǀ tanváḥ ǀ śumbhata ǀ svā́ḥ ǀ áśvāsaḥ ǀ ná ǀ krīḷáyaḥ ǀ dándaśānāḥ ǁ
yat ǀ āsu ǀ martaḥ ǀ amṛtāsu ǀ ni-spṛk ǀ sam ǀ kṣoṇībhiḥ ǀ kratu-bhiḥ ǀ na ǀ pṛṅkte ǀ
tāḥ ǀ ātayaḥ ǀ na ǀ tanvaḥ ǀ śumbhata ǀ svāḥ ǀ aśvāsaḥ ǀ na ǀ krīḷayaḥ ǀ dandaśānāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.095.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.02.04
- Maṇḍala · Anuvāka · Ṛk
- 10.08.068
- Devatā देवता
- 1, 3, 6, 8-10, 12, 14, 17: Urvaśī; 2, 4, 5, 7, 11, 13, 15, 16, 18: Purūravas Aiḷa
- Ṛṣi ऋषि
- 1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.