Ṛgveda · Maṇḍala 10 · Sūkta 95
Ṛk 10.95.4
Saṃhitā
सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यंति॑गृहात् ।
अस्तं॑ ननक्षे॒ यस्मिं॑चा॒कंदिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥
सा वसु दधती श्वशुराय वय उषो यदि वष्ट्य् अन्तिगृहात् |
अस्तं ननक्षे यस्मिञ् चाकन् दिवा नक्तं श्नथिता वैतसेन ||
sā́ vásu dádhatī śváśurāya váya úṣo yádi váṣṭyántigṛhāt ǀ
ástam nanakṣe yásmiñcākándívā náktam śnathitā́ vaitaséna ǁ
sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt |
astaṃ nanakṣe yasmiñ cākan divā naktaṃ śnathitā vaitasena ||
Padapāṭha
सा । वसु॑ । दध॑ती । श्वशु॑राय । वयः॑ । उषः॑ । यदि॑ । वष्टि॑ । अन्ति॑ऽगृहात् ।
अस्त॑म् । न॒न॒क्षे॒ । यस्मि॑न् । चा॒कन् । दिवा॑ । नक्त॑म् । श्न॒थि॒ता । वै॒त॒सेन॑ ॥
सा । वसु । दधती । श्वशुराय । वयः । उषः । यदि । वष्टि । अन्तिऽगृहात् ।
अस्तम् । ननक्षे । यस्मिन् । चाकन् । दिवा । नक्तम् । श्नथिता । वैतसेन ॥
sā́ ǀ vásu ǀ dádhatī ǀ śváśurāya ǀ váyaḥ ǀ úṣaḥ ǀ yádi ǀ váṣṭi ǀ ánti-gṛhāt ǀ
ástam ǀ nanakṣe ǀ yásmin ǀ cākán ǀ dívā ǀ náktam ǀ śnathitā́ ǀ vaitaséna ǁ
sā ǀ vasu ǀ dadhatī ǀ śvaśurāya ǀ vayaḥ ǀ uṣaḥ ǀ yadi ǀ vaṣṭi ǀ anti-gṛhāt ǀ
astam ǀ nanakṣe ǀ yasmin ǀ cākan ǀ divā ǀ naktam ǀ śnathitā ǀ vaitasena ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.095.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.01.04
- Maṇḍala · Anuvāka · Ṛk
- 10.08.063
- Devatā देवता
- 1, 3, 6, 8-10, 12, 14, 17: Urvaśī; 2, 4, 5, 7, 11, 13, 15, 16, 18: Purūravas Aiḷa
- Ṛṣi ऋषि
- 1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.