Ṛgveda · Maṇḍala 10 · Sūkta 95
Ṛk 10.95.13
Saṃhitā
प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्रं॑ददा॒ध्ये॑ शि॒वायै॑ ।
प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥
प्रति ब्रवाणि वर्तयते अश्रु चक्रन् न क्रन्दद् आध्ये शिवायै |
प्र तत् ते हिनवा यत् ते अस्मे परेह्य् अस्तं नहि मूर मापः ||
práti bravāṇi vartáyate áśru cakránná krandadādhyé śivā́yai ǀ
prá tátte hinavā yátte asmé párehyástam nahí mūra mā́paḥ ǁ
prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai |
pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ ||
Padapāṭha
प्रति॑ । ब्र॒वा॒णि॒ । व॒र्तय॑ते । अश्रु॑ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒ऽध्ये॑ । शि॒वायै॑ ।
प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति॑ । परा॑ । इ॒हि॒ । अस्त॑म् । न॒हि । मू॒र॒ । मा॒ । आपः॑ ॥
प्रति । ब्रवाणि । वर्तयते । अश्रु । चक्रन् । न । क्रन्दत् । आऽध्ये । शिवायै ।
प्र । तत् । ते । हिनव । यत् । ते । अस्मे इति । परा । इहि । अस्तम् । नहि । मूर । मा । आपः ॥
práti ǀ bravāṇi ǀ vartáyate ǀ áśru ǀ cakrán ǀ ná ǀ krandat ǀ ā-dhyé ǀ śivā́yai ǀ
prá ǀ tát ǀ te ǀ hinava ǀ yát ǀ te ǀ asmé íti ǀ párā ǀ ihi ǀ ástam ǀ nahí ǀ mūra ǀ mā ǀ ā́paḥ ǁ
prati ǀ bravāṇi ǀ vartayate ǀ aśru ǀ cakran ǀ na ǀ krandat ǀ ā-dhye ǀ śivāyai ǀ
pra ǀ tat ǀ te ǀ hinava ǀ yat ǀ te ǀ asme iti ǀ parā ǀ ihi ǀ astam ǀ nahi ǀ mūra ǀ mā ǀ āpaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.095.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.03.03
- Maṇḍala · Anuvāka · Ṛk
- 10.08.072
- Devatā देवता
- 1, 3, 6, 8-10, 12, 14, 17: Urvaśī; 2, 4, 5, 7, 11, 13, 15, 16, 18: Purūravas Aiḷa
- Ṛṣi ऋषि
- 1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.