Sūkta 23
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vimada Aindra Or Vimada Prājāpatya Or Vimada Aindra And Vasukṛt Vāsukra
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Abhisāriṇī
Metres by ṛk
1st set of styles bhurigārcījagatī (2, 4); nicṛttriṣṭup (5, 7); virāṭtrisṭup (1); nicṛjjagatī (3); svarāḍārcījagatī (6)
2nd set of styles jagatī (2-4, 6); triṣṭubh (1, 7); abhisāriṇī (5)
-
Ṛk 1
यजा॑मह॒ इंद्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानां ।
प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् |
प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर् दयमानो वि राधसा ||yájāmaha índram vájradakṣiṇam hárīṇām rathyám vívratānām ǀ
prá śmáśru dódhuvadūrdhváthā bhūdví sénābhirdáyamāno ví rā́dhasā ǁyajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām |
pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā ||यजा॑महे । इन्द्र॑म् । वज्र॑ऽदक्षिणम् । हरी॑णाम् । र॒थ्य॑म् । विऽव्र॑तानाम् ।
प्र । श्मश्रु॑ । दोधु॑वत् । ऊ॒र्ध्वऽथा॑ । भू॒त् । वि । सेना॑भिः । दय॑मानः । वि । राध॑सा ॥यजामहे । इन्द्रम् । वज्रऽदक्षिणम् । हरीणाम् । रथ्यम् । विऽव्रतानाम् ।
प्र । श्मश्रु । दोधुवत् । ऊर्ध्वऽथा । भूत् । वि । सेनाभिः । दयमानः । वि । राधसा ॥yájāmahe ǀ índram ǀ vájra-dakṣiṇam ǀ hárīṇām ǀ rathyám ǀ ví-vratānām ǀ
prá ǀ śmáśru ǀ dódhuvat ǀ ūrdhvá-thā ǀ bhūt ǀ ví ǀ sénābhiḥ ǀ dáyamānaḥ ǀ ví ǀ rā́dhasā ǁyajāmahe ǀ indram ǀ vajra-dakṣiṇam ǀ harīṇām ǀ rathyam ǀ vi-vratānām ǀ
pra ǀ śmaśru ǀ dodhuvat ǀ ūrdhva-thā ǀ bhūt ǀ vi ǀ senābhiḥ ǀ dayamānaḥ ǀ vi ǀ rādhasā ǁ10.23.1 Aṣṭaka 7.7.9.1Anuvāka 10.2.70
-
Ṛk 2
हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विंद्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् ।
ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा वृत्रहा भुवत् |
ऋभुर् वाज ऋभुक्षाः पत्यते शवो ऽव क्ष्णौमि दासस्य नाम चित् ||hárī nvásya yā́ váne vidé vásvíndro magháirmaghávā vṛtrahā́ bhuvat ǀ
ṛbhúrvā́ja ṛbhukṣā́ḥ patyate śávó’va kṣṇaumi dā́sasya nā́ma cit ǁharī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat |
ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit ||हरी॒ इति॑ । नु । अ॒स्य॒ । या । वने॑ । वि॒दे । वसु॑ । इन्द्रः॑ । म॒घैः । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ।
ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः॑ । अव॑ । क्ष्णौ॒मि॒ । दास॑स्य । नाम॑ । चि॒त् ॥हरी इति । नु । अस्य । या । वने । विदे । वसु । इन्द्रः । मघैः । मघऽवा । वृत्रऽहा । भुवत् ।
ऋभुः । वाजः । ऋभुक्षाः । पत्यते । शवः । अव । क्ष्णौमि । दासस्य । नाम । चित् ॥hárī íti ǀ nú ǀ asya ǀ yā́ ǀ váne ǀ vidé ǀ vásu ǀ índraḥ ǀ magháiḥ ǀ maghá-vā ǀ vṛtra-hā́ ǀ bhuvat ǀ
ṛbhúḥ ǀ vā́jaḥ ǀ ṛbhukṣā́ḥ ǀ patyate ǀ śávaḥ ǀ áva ǀ kṣṇaumi ǀ dā́sasya ǀ nā́ma ǀ cit ǁharī iti ǀ nu ǀ asya ǀ yā ǀ vane ǀ vide ǀ vasu ǀ indraḥ ǀ maghaiḥ ǀ magha-vā ǀ vṛtra-hā ǀ bhuvat ǀ
ṛbhuḥ ǀ vājaḥ ǀ ṛbhukṣāḥ ǀ patyate ǀ śavaḥ ǀ ava ǀ kṣṇaumi ǀ dāsasya ǀ nāma ǀ cit ǁ10.23.2 Aṣṭaka 7.7.9.2Anuvāka 10.2.71
-
Ṛk 3
य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ ।
आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इंद्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥यदा वज्रं हिरण्यम् इद् अथा रथं हरी यम् अस्य वहतो वि सूरिभिः |
आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ||yadā́ vájram híraṇyamídáthā rátham hárī yámasya váhato ví sūríbhiḥ ǀ
ā́ tiṣṭhati maghávā sánaśruta índro vā́jasya dīrgháśravasaspátiḥ ǁyadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ |
ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ ||य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् । अ॒स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ ।
आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः । इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥यदा । वज्रम् । हिरण्यम् । इत् । अथ । रथम् । हरी इति । यम् । अस्य । वहतः । वि । सूरिऽभिः ।
आ । तिष्ठति । मघऽवा । सनऽश्रुतः । इन्द्रः । वाजस्य । दीर्घऽश्रवसः । पतिः ॥yadā́ ǀ vájram ǀ híraṇyam ǀ ít ǀ átha ǀ rátham ǀ hárī íti ǀ yám ǀ asya ǀ váhataḥ ǀ ví ǀ sūrí-bhiḥ ǀ
ā́ ǀ tiṣṭhati ǀ maghá-vā ǀ sána-śrutaḥ ǀ índraḥ ǀ vā́jasya ǀ dīrghá-śravasaḥ ǀ pátiḥ ǁyadā ǀ vajram ǀ hiraṇyam ǀ it ǀ atha ǀ ratham ǀ harī iti ǀ yam ǀ asya ǀ vahataḥ ǀ vi ǀ sūri-bhiḥ ǀ
ā ǀ tiṣṭhati ǀ magha-vā ǀ sana-śrutaḥ ǀ indraḥ ǀ vājasya ǀ dīrgha-śravasaḥ ǀ patiḥ ǁ10.23.3 Aṣṭaka 7.7.9.3Anuvāka 10.2.72
-
Ṛk 4
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इंद्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते ।
अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वनं॑ ॥सो चिन् नु वृष्टिर् यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते |
अव वेति सुक्षयं सुते मधूद् इद् धूनोति वातो यथा वनम् ||só cinnú vṛṣṭíryūthyā́ svā́ sácām̐ índraḥ śmáśrūṇi háritābhí pruṣṇute ǀ
áva veti sukṣáyam suté mádhū́díddhūnoti vā́to yáthā vánam ǁso cin nu vṛṣṭir yūthyā svā sacāṃ indraḥ śmaśrūṇi haritābhi pruṣṇute |
ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam ||सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ ।
अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥सो इति । चित् । नु । वृष्टिः । यूथ्या । स्वा । सचा । इन्द्रः । श्मश्रूणि । हरिता । अभि । प्रुष्णुते ।
अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वातः । यथा । वनम् ॥só íti ǀ cit ǀ nú ǀ vṛṣṭíḥ ǀ yūthyā́ ǀ svā́ ǀ sácā ǀ índraḥ ǀ śmáśrūṇi ǀ háritā ǀ abhí ǀ pruṣṇute ǀ
áva ǀ veti ǀ su-kṣáyam ǀ suté ǀ mádhu ǀ út ǀ ít ǀ dhūnoti ǀ vā́taḥ ǀ yáthā ǀ vánam ǁso iti ǀ cit ǀ nu ǀ vṛṣṭiḥ ǀ yūthyā ǀ svā ǀ sacā ǀ indraḥ ǀ śmaśrūṇi ǀ haritā ǀ abhi ǀ pruṣṇute ǀ
ava ǀ veti ǀ su-kṣayam ǀ sute ǀ madhu ǀ ut ǀ it ǀ dhūnoti ǀ vātaḥ ǀ yathā ǀ vanam ǁ10.23.4 Aṣṭaka 7.7.9.4Anuvāka 10.2.73
-
Ṛk 5
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ ।
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान |
तत्-तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ||yó vācā́ vívāco mṛdhrávācaḥ purū́ sahásrā́śivā jaghā́na ǀ
táttadídasya páuṃsyam gṛṇīmasi pitéva yástáviṣīm vāvṛdhé śávaḥ ǁyo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |
tat-tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ ||यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ।
तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शवः॑ ॥यः । वाचा । विऽवाचः । मृध्रऽवाचः । पुरु । सहस्रा । अशिवा । जघान ।
तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । यः । तविषीम् । ववृधे । शवः ॥yáḥ ǀ vācā́ ǀ ví-vācaḥ ǀ mṛdhrá-vācaḥ ǀ purú ǀ sahásrā ǀ áśivā ǀ jaghā́na ǀ
tát-tat ǀ ít ǀ asya ǀ páuṃsyam ǀ gṛṇīmasi ǀ pitā́-iva ǀ yáḥ ǀ táviṣīm ǀ vavṛdhé ǀ śávaḥ ǁyaḥ ǀ vācā ǀ vi-vācaḥ ǀ mṛdhra-vācaḥ ǀ puru ǀ sahasrā ǀ aśivā ǀ jaghāna ǀ
tat-tat ǀ it ǀ asya ǀ pauṃsyam ǀ gṛṇīmasi ǀ pitā-iva ǀ yaḥ ǀ taviṣīm ǀ vavṛdhe ǀ śavaḥ ǁ10.23.5 Aṣṭaka 7.7.9.5Anuvāka 10.2.74
-
Ṛk 6
स्तोमं॑ त इंद्र विम॒दा अ॑जीजन॒न्नपू॑र्व्यं पुरु॒तमं॑ सु॒दान॑वे ।
वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ॥स्तोमं त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमं सुदानवे |
विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुं न गोपाः करामहे ||stómam ta indra vimadā́ ajījanannápūrvyam purutámam sudā́nave ǀ
vidmā́ hyásya bhójanaminásya yádā́ paśúm ná gopā́ḥ karāmahe ǁstomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave |
vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe ||स्तोम॑म् । ते॒ । इ॒न्द्र॒ । वि॒ऽम॒दाः । अ॒जी॒ज॒न॒न् । अपू॑र्व्यम् । पु॒रु॒ऽतम॑म् । सु॒ऽदान॑वे ।
वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् । इ॒नस्य॑ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥स्तोमम् । ते । इन्द्र । विऽमदाः । अजीजनन् । अपूर्व्यम् । पुरुऽतमम् । सुऽदानवे ।
विद्म । हि । अस्य । भोजनम् । इनस्य । यत् । आ । पशुम् । न । गोपाः । करामहे ॥stómam ǀ te ǀ indra ǀ vi-madā́ḥ ǀ ajījanan ǀ ápūrvyam ǀ puru-támam ǀ su-dā́nave ǀ
vidmá ǀ hí ǀ asya ǀ bhójanam ǀ inásya ǀ yát ǀ ā́ ǀ paśúm ǀ ná ǀ gopā́ḥ ǀ karāmahe ǁstomam ǀ te ǀ indra ǀ vi-madāḥ ǀ ajījanan ǀ apūrvyam ǀ puru-tamam ǀ su-dānave ǀ
vidma ǀ hi ǀ asya ǀ bhojanam ǀ inasya ǀ yat ǀ ā ǀ paśum ǀ na ǀ gopāḥ ǀ karāmahe ǁ10.23.6 Aṣṭaka 7.7.9.6Anuvāka 10.2.75
-
Ṛk 7
माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेंद्र विम॒दस्य॑ च॒ ऋषेः॑ ।
वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ ॥माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च ऋषेः |
विद्मा हि ते प्रमतिं देव जामिवद् अस्मे ते सन्तु सख्या शिवानि ||mā́kirna enā́ sakhyā́ ví yauṣustáva cendra vimadásya ca ṛ́ṣeḥ ǀ
vidmā́ hí te prámatim deva jāmivádasmé te santu sakhyā́ śivā́ni ǁmākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ |
vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni ||माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ ।
वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥माकिः । नः । एना । सख्या । वि । यौषुः । तव । च । इन्द्र । विऽमदस्य । च । ऋषेः ।
विद्म । हि । ते । प्रऽमतिम् । देव । जामिऽवत् । अस्मे इति । ते । सन्तु । सख्या । शिवानि ॥mā́kiḥ ǀ naḥ ǀ enā́ ǀ sakhyā́ ǀ ví ǀ yauṣuḥ ǀ táva ǀ ca ǀ indra ǀ vi-madásya ǀ ca ǀ ṛ́ṣeḥ ǀ
vidmá ǀ hí ǀ te ǀ prá-matim ǀ deva ǀ jāmi-vát ǀ asmé íti ǀ te ǀ santu ǀ sakhyā́ ǀ śivā́ni ǁmākiḥ ǀ naḥ ǀ enā ǀ sakhyā ǀ vi ǀ yauṣuḥ ǀ tava ǀ ca ǀ indra ǀ vi-madasya ǀ ca ǀ ṛṣeḥ ǀ
vidma ǀ hi ǀ te ǀ pra-matim ǀ deva ǀ jāmi-vat ǀ asme iti ǀ te ǀ santu ǀ sakhyā ǀ śivāni ǁ10.23.7 Aṣṭaka 7.7.9.7Anuvāka 10.2.76
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.