Sūkta 63
- Devatā देवता
- 1-14, 17: Viśvedevās; 15, 16: Pathyāsvastiḥ
- Ṛṣi ऋषि
- Gaya Plāta
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Triṣṭubh Or Jagatī
Metres by ṛk
1st set of styles virāḍjagatī (1, 6, 8, 11-13); pādanicṛjjgatī (2, 3, 10, 14); nicṛjjagatī (4, 5, 7); svarāḍārcījagatī (9); jagatī triṣṭup vā (15); svarāḍārcītriṣṭup (16); pādanicṛttriṣṭup (17)
2nd set of styles jagatī (1-14); triṣṭubh (16, 17); triṣṭubh or jagatī (15)
-
Ṛk 1
प॒रा॒वतो॒ ये दिधि॑षंत॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।
य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवंतु नः ॥परावतो ये दिधिषन्त आप्यम् मनुप्रीतासो जनिमा विवस्वतः |
ययातेर् ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ||parāváto yé dídhiṣanta ā́pyam mánuprītāso jánimā vivásvataḥ ǀ
yayā́teryé nahuṣyásya barhíṣi devā́ ā́sate té ádhi bruvantu naḥ ǁparāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ |
yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ ||प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः ।
य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥पराऽवतः । ये । दिधिषन्ते । आप्यम् । मनुऽप्रीतासः । जनिम । विवस्वतः ।
ययातेः । ये । नहुष्यस्य । बर्हिषि । देवाः । आसते । ते । अधि । ब्रुवन्तु । नः ॥parā-vátaḥ ǀ yé ǀ dídhiṣante ǀ ā́pyam ǀ mánu-prītāsaḥ ǀ jánima ǀ vivásvataḥ ǀ
yayā́teḥ ǀ yé ǀ nahuṣyásya ǀ barhíṣi ǀ devā́ḥ ǀ ā́sate ǀ té ǀ ádhi ǀ bruvantu ǀ naḥ ǁparā-vataḥ ǀ ye ǀ didhiṣante ǀ āpyam ǀ manu-prītāsaḥ ǀ janima ǀ vivasvataḥ ǀ
yayāteḥ ǀ ye ǀ nahuṣyasya ǀ barhiṣi ǀ devāḥ ǀ āsate ǀ te ǀ adhi ǀ bruvantu ǀ naḥ ǁ10.63.1 Aṣṭaka 8.2.3.1Anuvāka 10.5.39
-
Ṛk 2
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वंद्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।
ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हवं॑ ॥विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः |
ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम् ||víśvā hí vo namasyā́ni vándyā nā́māni devā utá yajñíyāni vaḥ ǀ
yé sthá jātā́ áditeradbhyáspári yé pṛthivyā́sté ma ihá śrutā hávam ǁviśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ |
ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam ||विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ ।
ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥विश्वा । हि । वः । नमस्यानि । वन्द्या । नामानि । देवाः । उत । यज्ञियानि । वः ।
ये । स्थ । जाताः । अदितेः । अत्ऽभ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम् ॥víśvā ǀ hí ǀ vaḥ ǀ namasyā́ni ǀ vándyā ǀ nā́māni ǀ devāḥ ǀ utá ǀ yajñíyāni ǀ vaḥ ǀ
yé ǀ sthá ǀ jātā́ḥ ǀ áditeḥ ǀ at-bhyáḥ ǀ pári ǀ yé ǀ pṛthivyā́ḥ ǀ té ǀ me ǀ ihá ǀ śruta ǀ hávam ǁviśvā ǀ hi ǀ vaḥ ǀ namasyāni ǀ vandyā ǀ nāmāni ǀ devāḥ ǀ uta ǀ yajñiyāni ǀ vaḥ ǀ
ye ǀ stha ǀ jātāḥ ǀ aditeḥ ǀ at-bhyaḥ ǀ pari ǀ ye ǀ pṛthivyāḥ ǀ te ǀ me ǀ iha ǀ śruta ǀ havam ǁ10.63.2 Aṣṭaka 8.2.3.2Anuvāka 10.5.40
-
Ṛk 3
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।
उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः |
उक्थशुष्मान् वृषभरान् स्वप्नसस् तां आदित्यां अनु मदा स्वस्तये ||yébhyo mātā́ mádhumatpínvate páyaḥ pīyū́ṣam dyáuráditirádribarhāḥ ǀ
uktháśuṣmānvṛṣabharā́ntsvápnasastā́m̐ ādityā́m̐ ánu madā svastáye ǁyebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ |
ukthaśuṣmān vṛṣabharān svapnasas tāṃ ādityāṃ anu madā svastaye ||येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः ।
उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । सु॒ऽअप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥येभ्यः । माता । मधुऽमत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रिऽबर्हाः ।
उक्थऽशुष्मान् । वृषऽभरान् । सुऽअप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥yébhyaḥ ǀ mātā́ ǀ mádhu-mat ǀ pínvate ǀ páyaḥ ǀ pīyū́ṣam ǀ dyáuḥ ǀ áditiḥ ǀ ádri-barhāḥ ǀ
ukthá-śuṣmān ǀ vṛṣa-bharā́n ǀ su-ápnasaḥ ǀ tā́n ǀ ādityā́n ǀ ánu ǀ mada ǀ svastáye ǁyebhyaḥ ǀ mātā ǀ madhu-mat ǀ pinvate ǀ payaḥ ǀ pīyūṣam ǀ dyauḥ ǀ aditiḥ ǀ adri-barhāḥ ǀ
uktha-śuṣmān ǀ vṛṣa-bharān ǀ su-apnasaḥ ǀ tān ǀ ādityān ǀ anu ǀ mada ǀ svastaye ǁ10.63.3 Aṣṭaka 8.2.3.3Anuvāka 10.5.41
-
Ṛk 4
नृ॒चक्ष॑सो॒ अनि॑मिषंतो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः ।
ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥नृचक्षसो अनिमिषन्तो अर्हणा बृहद् देवासो अमृतत्वम् आनशुः |
ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ||nṛcákṣaso ánimiṣanto arháṇā bṛháddevā́so amṛtatvámānaśuḥ ǀ
jyotī́rathā áhimāyā ánāgaso divó varṣmā́ṇam vasate svastáye ǁnṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ |
jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃ vasate svastaye ||नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ।
ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥नृऽचक्षसः । अनिऽमिषन्तः । अर्हणा । बृहत् । देवासः । अमृतऽत्वम् । आनशुः ।
ज्योतिःऽरथाः । अहिऽमायाः । अनागसः । दिवः । वर्ष्माणम् । वसते । स्वस्तये ॥nṛ-cákṣasaḥ ǀ áni-miṣantaḥ ǀ arháṇā ǀ bṛhát ǀ devā́saḥ ǀ amṛta-tvám ǀ ānaśuḥ ǀ
jyotíḥ-rathāḥ ǀ áhi-māyāḥ ǀ ánāgasaḥ ǀ diváḥ ǀ varṣmā́ṇam ǀ vasate ǀ svastáye ǁnṛ-cakṣasaḥ ǀ ani-miṣantaḥ ǀ arhaṇā ǀ bṛhat ǀ devāsaḥ ǀ amṛta-tvam ǀ ānaśuḥ ǀ
jyotiḥ-rathāḥ ǀ ahi-māyāḥ ǀ anāgasaḥ ǀ divaḥ ǀ varṣmāṇam ǀ vasate ǀ svastaye ǁ10.63.4 Aṣṭaka 8.2.3.4Anuvāka 10.5.42
-
Ṛk 5
स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षयं॑ ।
ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥सम्राजो ये सुवृधो यज्ञम् आययुर् अपरिह्वृता दधिरे दिवि क्षयम् |
तां आ विवास नमसा सुवृक्तिभिर् महो आदित्यां अदितिं स्वस्तये ||samrā́jo yé suvṛ́dho yajñámāyayúráparihvṛtā dadhiré diví kṣáyam ǀ
tā́m̐ ā́ vivāsa námasā suvṛktíbhirmahó ādityā́m̐ áditim svastáye ǁsamrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam |
tāṃ ā vivāsa namasā suvṛktibhir maho ādityāṃ aditiṃ svastaye ||स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् ।
तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥सम्ऽराजः । ये । सुऽवृधः । यज्ञम् । आऽययुः । अपरिऽह्वृताः । दधिरे । दिवि । क्षयम् ।
तान् । आ । विवास । नमसा । सुवृक्तिऽभिः । महः । आदित्यान् । अदितिम् । स्वस्तये ॥sam-rā́jaḥ ǀ yé ǀ su-vṛ́dhaḥ ǀ yajñám ǀ ā-yayúḥ ǀ ápari-hvṛtāḥ ǀ dadhiré ǀ diví ǀ kṣáyam ǀ
tā́n ǀ ā́ ǀ vivāsa ǀ námasā ǀ suvṛktí-bhiḥ ǀ maháḥ ǀ ādityā́n ǀ áditim ǀ svastáye ǁsam-rājaḥ ǀ ye ǀ su-vṛdhaḥ ǀ yajñam ǀ ā-yayuḥ ǀ apari-hvṛtāḥ ǀ dadhire ǀ divi ǀ kṣayam ǀ
tān ǀ ā ǀ vivāsa ǀ namasā ǀ suvṛkti-bhiḥ ǀ mahaḥ ǀ ādityān ǀ aditim ǀ svastaye ǁ10.63.5 Aṣṭaka 8.2.3.5Anuvāka 10.5.43
-
Ṛk 6
को वः॒ स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ ।
को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ॥को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन |
को वो ऽध्वरं तुविजाता अरं करद् यो नः पर्षद् अत्य् अंहः स्वस्तये ||kó vaḥ stómam rādhati yám jújoṣatha víśve devāso manuṣo yáti ṣṭhána ǀ
kó vo’dhvarám tuvijātā áram karadyó naḥ párṣadátyáṃhaḥ svastáye ǁko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana |
ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye ||कः । वः॒ । स्तोम॑म् । रा॒ध॒ति॒ । यम् । जुजो॑षथ । विश्वे॑ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति॑ । स्थन॑ ।
कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒ऽजा॒ताः॒ । अर॑म् । क॒र॒त् । यः । नः॒ । पर्ष॑त् । अति॑ । अंहः॑ । स्व॒स्तये॑ ॥कः । वः । स्तोमम् । राधति । यम् । जुजोषथ । विश्वे । देवासः । मनुषः । यति । स्थन ।
कः । वः । अध्वरम् । तुविऽजाताः । अरम् । करत् । यः । नः । पर्षत् । अति । अंहः । स्वस्तये ॥káḥ ǀ vaḥ ǀ stómam ǀ rādhati ǀ yám ǀ jújoṣatha ǀ víśve ǀ devāsaḥ ǀ manuṣaḥ ǀ yáti ǀ sthána ǀ
káḥ ǀ vaḥ ǀ adhvarám ǀ tuvi-jātāḥ ǀ áram ǀ karat ǀ yáḥ ǀ naḥ ǀ párṣat ǀ áti ǀ áṃhaḥ ǀ svastáye ǁkaḥ ǀ vaḥ ǀ stomam ǀ rādhati ǀ yam ǀ jujoṣatha ǀ viśve ǀ devāsaḥ ǀ manuṣaḥ ǀ yati ǀ sthana ǀ
kaḥ ǀ vaḥ ǀ adhvaram ǀ tuvi-jātāḥ ǀ aram ǀ karat ǀ yaḥ ǀ naḥ ǀ parṣat ǀ ati ǀ aṃhaḥ ǀ svastaye ǁ10.63.6 Aṣṭaka 8.2.4.1Anuvāka 10.5.44
-
Ṛk 7
येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः ।
त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ॥येभ्यो होत्राम् प्रथमाम् आयेजे मनुः समिद्धाग्निर् मनसा सप्त होतृभिः |
त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ||yébhyo hótrām prathamā́māyejé mánuḥ sámiddhāgnirmánasā saptá hótṛbhiḥ ǀ
tá ādityā ábhayam śárma yacchata sugā́ naḥ karta supáthā svastáye ǁyebhyo hotrām prathamām āyeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ |
ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye ||येभ्यः॑ । होत्रा॑म् । प्र॒थ॒माम् । आ॒ऽये॒जे । मनुः॑ । समि॑द्धऽअग्निः । मन॑सा । स॒प्त । होतृ॑ऽभिः ।
ते । आ॒दि॒त्याः॒ । अभ॑यम् । शर्म॑ । य॒च्छ॒त॒ । सु॒ऽगा । नः॒ । क॒र्त॒ । सु॒ऽपथा॑ । स्व॒स्तये॑ ॥येभ्यः । होत्राम् । प्रथमाम् । आऽयेजे । मनुः । समिद्धऽअग्निः । मनसा । सप्त । होतृऽभिः ।
ते । आदित्याः । अभयम् । शर्म । यच्छत । सुऽगा । नः । कर्त । सुऽपथा । स्वस्तये ॥yébhyaḥ ǀ hótrām ǀ prathamā́m ǀ ā-yejé ǀ mánuḥ ǀ sámiddha-agniḥ ǀ mánasā ǀ saptá ǀ hótṛ-bhiḥ ǀ
té ǀ ādityāḥ ǀ ábhayam ǀ śárma ǀ yacchata ǀ su-gā́ ǀ naḥ ǀ karta ǀ su-páthā ǀ svastáye ǁyebhyaḥ ǀ hotrām ǀ prathamām ǀ ā-yeje ǀ manuḥ ǀ samiddha-agniḥ ǀ manasā ǀ sapta ǀ hotṛ-bhiḥ ǀ
te ǀ ādityāḥ ǀ abhayam ǀ śarma ǀ yacchata ǀ su-gā ǀ naḥ ǀ karta ǀ su-pathā ǀ svastaye ǁ10.63.7 Aṣṭaka 8.2.4.2Anuvāka 10.5.45
-
Ṛk 8
य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मंत॑वः ।
ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर् जगतश् च मन्तवः |
ते नः कृताद् अकृताद् एनसस् पर्य् अद्या देवासः पिपृता स्वस्तये ||yá ī́śire bhúvanasya prácetaso víśvasya sthātúrjágataśca mántavaḥ ǀ
té naḥ kṛtā́dákṛtādénasaspáryadyā́ devāsaḥ pipṛtā svastáye ǁya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ |
te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye ||ये । ईशि॑रे । भुव॑नस्य । प्रऽचे॑तसः । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । मन्त॑वः ।
ते । नः॒ । कृ॒तात् । अकृ॑तात् । एन॑सः । परि॑ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये॑ ॥ये । ईशिरे । भुवनस्य । प्रऽचेतसः । विश्वस्य । स्थातुः । जगतः । च । मन्तवः ।
ते । नः । कृतात् । अकृतात् । एनसः । परि । अद्य । देवासः । पिपृत । स्वस्तये ॥yé ǀ ī́śire ǀ bhúvanasya ǀ prá-cetasaḥ ǀ víśvasya ǀ sthātúḥ ǀ jágataḥ ǀ ca ǀ mántavaḥ ǀ
té ǀ naḥ ǀ kṛtā́t ǀ ákṛtāt ǀ énasaḥ ǀ pári ǀ adyá ǀ devāsaḥ ǀ pipṛta ǀ svastáye ǁye ǀ īśire ǀ bhuvanasya ǀ pra-cetasaḥ ǀ viśvasya ǀ sthātuḥ ǀ jagataḥ ǀ ca ǀ mantavaḥ ǀ
te ǀ naḥ ǀ kṛtāt ǀ akṛtāt ǀ enasaḥ ǀ pari ǀ adya ǀ devāsaḥ ǀ pipṛta ǀ svastaye ǁ10.63.8 Aṣṭaka 8.2.4.3Anuvāka 10.5.46
-
Ṛk 9
भरे॒ष्विंद्रं॑ सु॒हवं॑ हवामहेऽंहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जनं॑ ।
अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ॥भरेष्व् इन्द्रं सुहवं हवामहे ऽंहोमुचं सुकृतं दैव्यं जनम् |
अग्निम् मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ||bháreṣvíndram suhávam havāmahe’ṃhomúcam sukṛ́tam dáivyam jánam ǀ
agním mitrám váruṇam sātáye bhágam dyā́vāpṛthivī́ marútaḥ svastáye ǁbhareṣv indraṃ suhavaṃ havāmahe 'ṃhomucaṃ sukṛtaṃ daivyaṃ janam |
agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye ||भरे॑षु । इन्द्र॑म् । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ । अं॒हः॒ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् ।
अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । द्यावा॑पृथि॒वी इति॑ । म॒रुतः॑ । स्व॒स्तये॑ ॥भरेषु । इन्द्रम् । सुऽहवम् । हवामहे । अंहःऽमुचम् । सुऽकृतम् । दैव्यम् । जनम् ।
अग्निम् । मित्रम् । वरुणम् । सातये । भगम् । द्यावापृथिवी इति । मरुतः । स्वस्तये ॥bháreṣu ǀ índram ǀ su-hávam ǀ havāmahe ǀ aṃhaḥ-múcam ǀ su-kṛ́tam ǀ dáivyam ǀ jánam ǀ
agním ǀ mitrám ǀ váruṇam ǀ sātáye ǀ bhágam ǀ dyā́vāpṛthivī́ íti ǀ marútaḥ ǀ svastáye ǁbhareṣu ǀ indram ǀ su-havam ǀ havāmahe ǀ aṃhaḥ-mucam ǀ su-kṛtam ǀ daivyam ǀ janam ǀ
agnim ǀ mitram ǀ varuṇam ǀ sātaye ǀ bhagam ǀ dyāvāpṛthivī iti ǀ marutaḥ ǀ svastaye ǁ10.63.9 Aṣṭaka 8.2.4.4Anuvāka 10.5.47
-
Ṛk 10
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिं ।
दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वंती॒मा रु॑हेमा स्व॒स्तये॑ ॥सुत्रामाणम् पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् |
दैवीं नावं स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ||sutrā́māṇam pṛthivī́m dyā́manehásam suśármāṇamáditim supráṇītim ǀ
dáivīm nā́vam svaritrā́mánāgasamásravantīmā́ ruhemā svastáye ǁsutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim |
daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye ||सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ।
दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥सुऽत्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ।
दैवीम् । नावम् । सुऽअरित्राम् । अनागसम् । अस्रवन्तीम् । आ । रुहेम । स्वस्तये ॥su-trā́māṇam ǀ pṛthivī́m ǀ dyā́m ǀ anehásam ǀ su-śármāṇam ǀ áditim ǀ su-pránītim ǀ
dáivīm ǀ nā́vam ǀ su-aritrā́m ǀ ánāgasam ǀ ásravantīm ǀ ā́ ǀ ruhema ǀ svastáye ǁsu-trāmāṇam ǀ pṛthivīm ǀ dyām ǀ anehasam ǀ su-śarmāṇam ǀ aditim ǀ su-pranītim ǀ
daivīm ǀ nāvam ǀ su-aritrām ǀ anāgasam ǀ asravantīm ǀ ā ǀ ruhema ǀ svastaye ǁ10.63.10 Aṣṭaka 8.2.4.5Anuvāka 10.5.48
-
Ṛk 11
विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ ।
स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः |
सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ||víśve yajatrā ádhi vocatotáye trā́yadhvam no durévāyā abhihrútaḥ ǀ
satyáyā vo deváhūtyā huvema śṛṇvató devā ávase svastáye ǁviśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ |
satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye ||विश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ ।
स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥विश्वे । यजत्राः । अधि । वोचत । ऊतये । त्रायध्वम् । नः । दुःऽएवायाः । अभिऽह्रुतः ।
सत्यया । वः । देवऽहूत्या । हुवेम । शृण्वतः । देवाः । अवसे । स्वस्तये ॥víśve ǀ yajatrāḥ ǀ ádhi ǀ vocata ǀ ūtáye ǀ trā́yadhvam ǀ naḥ ǀ duḥ-évāyāḥ ǀ abhi-hrútaḥ ǀ
satyáyā ǀ vaḥ ǀ devá-hūtyā ǀ huvema ǀ śṛṇvatáḥ ǀ devāḥ ǀ ávase ǀ svastáye ǁviśve ǀ yajatrāḥ ǀ adhi ǀ vocata ǀ ūtaye ǀ trāyadhvam ǀ naḥ ǀ duḥ-evāyāḥ ǀ abhi-hrutaḥ ǀ
satyayā ǀ vaḥ ǀ deva-hūtyā ǀ huvema ǀ śṛṇvataḥ ǀ devāḥ ǀ avase ǀ svastaye ǁ10.63.11 Aṣṭaka 8.2.5.1Anuvāka 10.5.49
-
Ṛk 12
अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।
आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये॑ ॥अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम् अघायतः |
आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये ||ápā́mīvāmápa víśvāmánāhutimápā́rātim durvidátrāmaghāyatáḥ ǀ
āré devā dvéṣo asmádyuyotanorú ṇaḥ śárma yacchatā svastáye ǁapāmīvām apa viśvām anāhutim apārātiṃ durvidatrām aghāyataḥ |
āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye ||अप॑ । अमी॑वाम् । अप॑ । विश्वा॑म् । अना॑हुतिम् । अप॑ । अरा॑तिम् । दुः॒ऽवि॒दत्रा॑म् । अ॒घ॒ऽय॒तः ।
आ॒रे । दे॒वाः॒ । द्वेषः॑ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । स्व॒स्तये॑ ॥अप । अमीवाम् । अप । विश्वाम् । अनाहुतिम् । अप । अरातिम् । दुःऽविदत्राम् । अघऽयतः ।
आरे । देवाः । द्वेषः । अस्मत् । युयोतन । उरु । नः । शर्म । यच्छत । स्वस्तये ॥ápa ǀ ámīvām ǀ ápa ǀ víśvām ǀ ánāhutim ǀ ápa ǀ árātim ǀ duḥ-vidátrām ǀ agha-yatáḥ ǀ
āré ǀ devāḥ ǀ dvéṣaḥ ǀ asmát ǀ yuyotana ǀ urú ǀ naḥ ǀ śárma ǀ yacchata ǀ svastáye ǁapa ǀ amīvām ǀ apa ǀ viśvām ǀ anāhutim ǀ apa ǀ arātim ǀ duḥ-vidatrām ǀ agha-yataḥ ǀ
āre ǀ devāḥ ǀ dveṣaḥ ǀ asmat ǀ yuyotana ǀ uru ǀ naḥ ǀ śarma ǀ yacchata ǀ svastaye ǁ10.63.12 Aṣṭaka 8.2.5.2Anuvāka 10.5.50
-
Ṛk 13
अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ ।
यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर् जायते धर्मणस् परि |
यम् आदित्यासो नयथा सुनीतिभिर् अति विश्वानि दुरिता स्वस्तये ||áriṣṭaḥ sá márto víśva edhate prá prajā́bhirjāyate dhármaṇaspári ǀ
yámādityāso náyathā sunītíbhiráti víśvāni duritā́ svastáye ǁariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari |
yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye ||अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ ।
यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥अरिष्टः । सः । मर्तः । विश्वः । एधते । प्र । प्रऽजाभिः । जायते । धर्मणः । परि ।
यम् । आदित्यासः । नयथ । सुनीतिऽभिः । अति । विश्वानि । दुःऽइता । स्वस्तये ॥áriṣṭaḥ ǀ sáḥ ǀ mártaḥ ǀ víśvaḥ ǀ edhate ǀ prá ǀ pra-jā́bhiḥ ǀ jāyate ǀ dhármaṇaḥ ǀ pári ǀ
yám ǀ ādityāsaḥ ǀ náyatha ǀ sunītí-bhiḥ ǀ áti ǀ víśvāni ǀ duḥ-itā́ ǀ svastáye ǁariṣṭaḥ ǀ saḥ ǀ martaḥ ǀ viśvaḥ ǀ edhate ǀ pra ǀ pra-jābhiḥ ǀ jāyate ǀ dharmaṇaḥ ǀ pari ǀ
yam ǀ ādityāsaḥ ǀ nayatha ǀ sunīti-bhiḥ ǀ ati ǀ viśvāni ǀ duḥ-itā ǀ svastaye ǁ10.63.13 Aṣṭaka 8.2.5.3Anuvāka 10.5.51
-
Ṛk 14
यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ ।
प्रा॒त॒र्यावा॑णं॒ रथ॑मिंद्र सान॒सिमरि॑ष्यंत॒मा रु॑हेमा स्व॒स्तये॑ ॥यं देवासो ऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने |
प्रातर्यावाणं रथम् इन्द्र सानसिम् अरिष्यन्तम् आ रुहेमा स्वस्तये ||yám devāsó’vatha vā́jasātau yám śū́rasātā maruto hité dháne ǀ
prātaryā́vāṇam ráthamindra sānasímáriṣyantamā́ ruhemā svastáye ǁyaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane |
prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye ||यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ ।
प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥यम् । देवासः । अवथ । वाजऽसातौ । यम् । शूरऽसाता । मरुतः । हिते । धने ।
प्रातःऽयावानम् । रथम् । इन्द्र । सानसिम् । अरिष्यन्तम् । आ । रुहेम । स्वस्तये ॥yám ǀ devāsaḥ ǀ ávatha ǀ vā́ja-sātau ǀ yám ǀ śū́ra-sātā ǀ marutaḥ ǀ hité ǀ dháne ǀ
prātaḥ-yā́vānam ǀ rátham ǀ indra ǀ sānasím ǀ áriṣyantam ǀ ā́ ǀ ruhema ǀ svastáye ǁyam ǀ devāsaḥ ǀ avatha ǀ vāja-sātau ǀ yam ǀ śūra-sātā ǀ marutaḥ ǀ hite ǀ dhane ǀ
prātaḥ-yāvānam ǀ ratham ǀ indra ǀ sānasim ǀ ariṣyantam ǀ ā ǀ ruhema ǀ svastaye ǁ10.63.14 Aṣṭaka 8.2.5.4Anuvāka 10.5.52
-
Ṛk 15
स्व॒स्ति नः॑ प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति ।
स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥स्वस्ति नः पथ्यासु धन्वसु स्वस्त्य् अप्सु वृजने स्वर्वति |
स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ||svastí naḥ pathyā́su dhánvasu svastyápsú vṛjáne svárvati ǀ
svastí naḥ putrakṛthéṣu yóniṣu svastí rāyé maruto dadhātana ǁsvasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati |
svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana ||स्व॒स्ति । नः॒ । प॒थ्या॑सु । धन्व॑ऽसु । स्व॒स्ति । अ॒प्ऽसु । वृ॒जने॑ । स्वः॑ऽवति ।
स्व॒स्ति । नः॒ । पु॒त्र॒ऽकृ॒थेषु॑ । योनि॑षु । स्व॒स्ति । रा॒ये । म॒रु॒तः॒ । द॒धा॒त॒न॒ ॥स्वस्ति । नः । पथ्यासु । धन्वऽसु । स्वस्ति । अप्ऽसु । वृजने । स्वःऽवति ।
स्वस्ति । नः । पुत्रऽकृथेषु । योनिषु । स्वस्ति । राये । मरुतः । दधातन ॥svastí ǀ naḥ ǀ pathyā́su ǀ dhánva-su ǀ svastí ǀ ap-sú ǀ vṛjáne ǀ sváḥ-vati ǀ
svastí ǀ naḥ ǀ putra-kṛthéṣu ǀ yóniṣu ǀ svastí ǀ rāyé ǀ marutaḥ ǀ dadhātana ǁsvasti ǀ naḥ ǀ pathyāsu ǀ dhanva-su ǀ svasti ǀ ap-su ǀ vṛjane ǀ svaḥ-vati ǀ
svasti ǀ naḥ ǀ putra-kṛtheṣu ǀ yoniṣu ǀ svasti ǀ rāye ǀ marutaḥ ǀ dadhātana ǁ10.63.15 Aṣṭaka 8.2.5.5Anuvāka 10.5.53
-
Ṛk 16
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।
सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति |
सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ||svastíríddhí prápathe śréṣṭhā rékṇasvatyabhí yā́ vāmáméti ǀ
sā́ no amā́ só áraṇe ní pātu svāveśā́ bhavatu devágopā ǁsvastir id dhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti |
sā no amā so araṇe ni pātu svāveśā bhavatu devagopā ||स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ ।
सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥स्वस्तिः । इत् । हि । प्रऽपथे । श्रेष्ठा । रेक्णस्वती । अभि । या । वामम् । एति ।
सा । नः । अमा । सो इति । अरणे । नि । पातु । सुऽआवेशा । भवतु । देवऽगोपा ॥svastíḥ ǀ ít ǀ hí ǀ prá-pathe ǀ śréṣṭhā ǀ rékṇasvatī ǀ abhí ǀ yā́ ǀ vāmám ǀ éti ǀ
sā́ ǀ naḥ ǀ amā́ ǀ só íti ǀ áraṇe ǀ ní ǀ pātu ǀ su-āveśā́ ǀ bhavatu ǀ devá-gopā ǁsvastiḥ ǀ it ǀ hi ǀ pra-pathe ǀ śreṣṭhā ǀ rekṇasvatī ǀ abhi ǀ yā ǀ vāmam ǀ eti ǀ
sā ǀ naḥ ǀ amā ǀ so iti ǀ araṇe ǀ ni ǀ pātu ǀ su-āveśā ǀ bhavatu ǀ deva-gopā ǁ10.63.16 Aṣṭaka 8.2.5.6Anuvāka 10.5.54
-
Ṛk 17
ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥एवा प्लतेः सूनुर् अवीवृधद् वो विश्व आदित्या अदिते मनीषी |
ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ||evā́ platéḥ sūnúravīvṛdhadvo víśva ādityā adite manīṣī́ ǀ
īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ǁevā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī |
īśānāso naro amartyenāstāvi jano divyo gayena ||ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।
ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी ।
ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥evá ǀ platéḥ ǀ sūnúḥ ǀ avīvṛdhat ǀ vaḥ ǀ víśve ǀ ādityāḥ ǀ adite ǀ manīṣī́ ǀ
īśānā́saḥ ǀ náraḥ ǀ ámartyena ǀ ástāvi ǀ jánaḥ ǀ divyáḥ ǀ gáyena ǁeva ǀ plateḥ ǀ sūnuḥ ǀ avīvṛdhat ǀ vaḥ ǀ viśve ǀ ādityāḥ ǀ adite ǀ manīṣī ǀ
īśānāsaḥ ǀ naraḥ ǀ amartyena ǀ astāvi ǀ janaḥ ǀ divyaḥ ǀ gayena ǁ10.63.17 Aṣṭaka 8.2.5.7Anuvāka 10.5.55
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.