Ṛgveda · Maṇḍala 10 · Sūkta 63
Ṛk 10.63.16
Saṃhitā
स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।
सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥
स्वस्तिर् इद् धि प्रपथे श्रेष्ठा रेक्णस्वत्य् अभि या वामम् एति |
सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ||
svastíríddhí prápathe śréṣṭhā rékṇasvatyabhí yā́ vāmáméti ǀ
sā́ no amā́ só áraṇe ní pātu svāveśā́ bhavatu devágopā ǁ
svastir id dhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti |
sā no amā so araṇe ni pātu svāveśā bhavatu devagopā ||
Padapāṭha
स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ ।
सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥
स्वस्तिः । इत् । हि । प्रऽपथे । श्रेष्ठा । रेक्णस्वती । अभि । या । वामम् । एति ।
सा । नः । अमा । सो इति । अरणे । नि । पातु । सुऽआवेशा । भवतु । देवऽगोपा ॥
svastíḥ ǀ ít ǀ hí ǀ prá-pathe ǀ śréṣṭhā ǀ rékṇasvatī ǀ abhí ǀ yā́ ǀ vāmám ǀ éti ǀ
sā́ ǀ naḥ ǀ amā́ ǀ só íti ǀ áraṇe ǀ ní ǀ pātu ǀ su-āveśā́ ǀ bhavatu ǀ devá-gopā ǁ
svastiḥ ǀ it ǀ hi ǀ pra-pathe ǀ śreṣṭhā ǀ rekṇasvatī ǀ abhi ǀ yā ǀ vāmam ǀ eti ǀ
sā ǀ naḥ ǀ amā ǀ so iti ǀ araṇe ǀ ni ǀ pātu ǀ su-āveśā ǀ bhavatu ǀ deva-gopā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.063.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.05.06
- Maṇḍala · Anuvāka · Ṛk
- 10.05.054
- Devatā देवता
- 1-14, 17: Viśvedevās; 15, 16: Pathyāsvastiḥ
- Ṛṣi ऋषि
- Gaya Plāta
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Triṣṭubh Or Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.