Ṛgveda · Maṇḍala 10 · Sūkta 63
Ṛk 10.63.3
Saṃhitā
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।
उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥
येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिर् अद्रिबर्हाः |
उक्थशुष्मान् वृषभरान् स्वप्नसस् तां आदित्यां अनु मदा स्वस्तये ||
yébhyo mātā́ mádhumatpínvate páyaḥ pīyū́ṣam dyáuráditirádribarhāḥ ǀ
uktháśuṣmānvṛṣabharā́ntsvápnasastā́m̐ ādityā́m̐ ánu madā svastáye ǁ
yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ |
ukthaśuṣmān vṛṣabharān svapnasas tāṃ ādityāṃ anu madā svastaye ||
Padapāṭha
येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः ।
उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । सु॒ऽअप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥
येभ्यः । माता । मधुऽमत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रिऽबर्हाः ।
उक्थऽशुष्मान् । वृषऽभरान् । सुऽअप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥
yébhyaḥ ǀ mātā́ ǀ mádhu-mat ǀ pínvate ǀ páyaḥ ǀ pīyū́ṣam ǀ dyáuḥ ǀ áditiḥ ǀ ádri-barhāḥ ǀ
ukthá-śuṣmān ǀ vṛṣa-bharā́n ǀ su-ápnasaḥ ǀ tā́n ǀ ādityā́n ǀ ánu ǀ mada ǀ svastáye ǁ
yebhyaḥ ǀ mātā ǀ madhu-mat ǀ pinvate ǀ payaḥ ǀ pīyūṣam ǀ dyauḥ ǀ aditiḥ ǀ adri-barhāḥ ǀ
uktha-śuṣmān ǀ vṛṣa-bharān ǀ su-apnasaḥ ǀ tān ǀ ādityān ǀ anu ǀ mada ǀ svastaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.063.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.03.03
- Maṇḍala · Anuvāka · Ṛk
- 10.05.041
- Devatā देवता
- 1-14, 17: Viśvedevās; 15, 16: Pathyāsvastiḥ
- Ṛṣi ऋषि
- Gaya Plāta
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Triṣṭubh Or Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.