Ṛgveda · Maṇḍala 10 · Sūkta 63
Ṛk 10.63.12
Saṃhitā
अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।
आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये॑ ॥
अपामीवाम् अप विश्वाम् अनाहुतिम् अपारातिं दुर्विदत्राम् अघायतः |
आरे देवा द्वेषो अस्मद् युयोतनोरु णः शर्म यच्छता स्वस्तये ||
ápā́mīvāmápa víśvāmánāhutimápā́rātim durvidátrāmaghāyatáḥ ǀ
āré devā dvéṣo asmádyuyotanorú ṇaḥ śárma yacchatā svastáye ǁ
apāmīvām apa viśvām anāhutim apārātiṃ durvidatrām aghāyataḥ |
āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye ||
Padapāṭha
अप॑ । अमी॑वाम् । अप॑ । विश्वा॑म् । अना॑हुतिम् । अप॑ । अरा॑तिम् । दुः॒ऽवि॒दत्रा॑म् । अ॒घ॒ऽय॒तः ।
आ॒रे । दे॒वाः॒ । द्वेषः॑ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । स्व॒स्तये॑ ॥
अप । अमीवाम् । अप । विश्वाम् । अनाहुतिम् । अप । अरातिम् । दुःऽविदत्राम् । अघऽयतः ।
आरे । देवाः । द्वेषः । अस्मत् । युयोतन । उरु । नः । शर्म । यच्छत । स्वस्तये ॥
ápa ǀ ámīvām ǀ ápa ǀ víśvām ǀ ánāhutim ǀ ápa ǀ árātim ǀ duḥ-vidátrām ǀ agha-yatáḥ ǀ
āré ǀ devāḥ ǀ dvéṣaḥ ǀ asmát ǀ yuyotana ǀ urú ǀ naḥ ǀ śárma ǀ yacchata ǀ svastáye ǁ
apa ǀ amīvām ǀ apa ǀ viśvām ǀ anāhutim ǀ apa ǀ arātim ǀ duḥ-vidatrām ǀ agha-yataḥ ǀ
āre ǀ devāḥ ǀ dveṣaḥ ǀ asmat ǀ yuyotana ǀ uru ǀ naḥ ǀ śarma ǀ yacchata ǀ svastaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.063.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.05.02
- Maṇḍala · Anuvāka · Ṛk
- 10.05.050
- Devatā देवता
- 1-14, 17: Viśvedevās; 15, 16: Pathyāsvastiḥ
- Ṛṣi ऋषि
- Gaya Plāta
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Triṣṭubh Or Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.