Ṛgveda · Maṇḍala 10 · Sūkta 63
Ṛk 10.63.2
Saṃhitā
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वंद्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।
ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हवं॑ ॥
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः |
ये स्थ जाता अदितेर् अद्भ्यस् परि ये पृथिव्यास् ते म इह श्रुता हवम् ||
víśvā hí vo namasyā́ni vándyā nā́māni devā utá yajñíyāni vaḥ ǀ
yé sthá jātā́ áditeradbhyáspári yé pṛthivyā́sté ma ihá śrutā hávam ǁ
viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ |
ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam ||
Padapāṭha
विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ ।
ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥
विश्वा । हि । वः । नमस्यानि । वन्द्या । नामानि । देवाः । उत । यज्ञियानि । वः ।
ये । स्थ । जाताः । अदितेः । अत्ऽभ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम् ॥
víśvā ǀ hí ǀ vaḥ ǀ namasyā́ni ǀ vándyā ǀ nā́māni ǀ devāḥ ǀ utá ǀ yajñíyāni ǀ vaḥ ǀ
yé ǀ sthá ǀ jātā́ḥ ǀ áditeḥ ǀ at-bhyáḥ ǀ pári ǀ yé ǀ pṛthivyā́ḥ ǀ té ǀ me ǀ ihá ǀ śruta ǀ hávam ǁ
viśvā ǀ hi ǀ vaḥ ǀ namasyāni ǀ vandyā ǀ nāmāni ǀ devāḥ ǀ uta ǀ yajñiyāni ǀ vaḥ ǀ
ye ǀ stha ǀ jātāḥ ǀ aditeḥ ǀ at-bhyaḥ ǀ pari ǀ ye ǀ pṛthivyāḥ ǀ te ǀ me ǀ iha ǀ śruta ǀ havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.063.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.03.02
- Maṇḍala · Anuvāka · Ṛk
- 10.05.040
- Devatā देवता
- 1-14, 17: Viśvedevās; 15, 16: Pathyāsvastiḥ
- Ṛṣi ऋषि
- Gaya Plāta
- Chandas छन्दस्
- Jagatī, Triṣṭubh, Triṣṭubh Or Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.