Sūkta 161
- Devatā देवता
- Rājayakṣmaghnam
- Ṛṣi ऋषि
- Yakṣmanāśana Prājāpatya
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles bhuriktriṣṭup (1, 4); triṣṭup (2); nicṛttriṣṭup (3); nicṛdanuṣṭup (5)
2nd set of styles triṣṭubh (1-4); anuṣṭubh (5)
-
Ṛk 1
मुं॒चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् ।
ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे॑नं॒ तस्या॑ इंद्राग्नी॒ प्र मु॑मुक्तमेनं ॥मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् |
ग्राहिर् जग्राह यदि वैतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ||muñcā́mi tvā havíṣā jī́vanāya kámajñātayakṣmā́dutá rājayakṣmā́t ǀ
grā́hirjagrā́ha yádi vaitádenam tásyā indrāgnī prá mumuktamenam ǁmuñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt |
grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam ||मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् ।
ग्राहिः॑ । ज॒ग्राह॑ । यदि॑ । वा॒ । ए॒तत् । ए॒न॒म् । तस्याः॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥मुञ्चामि । त्वा । हविषा । जीवनाय । कम् । अज्ञातऽयक्ष्मात् । उत । राजऽयक्ष्मात् ।
ग्राहिः । जग्राह । यदि । वा । एतत् । एनम् । तस्याः । इन्द्राग्नी इति । प्र । मुमुक्तम् । एनम् ॥muñcā́mi ǀ tvā ǀ havíṣā ǀ jī́vanāya ǀ kám ǀ ajñāta-yakṣmā́t ǀ utá ǀ rāja-yakṣmā́t ǀ
grā́hiḥ ǀ jagrā́ha ǀ yádi ǀ vā ǀ etát ǀ enam ǀ tásyāḥ ǀ indrāgnī íti ǀ prá ǀ mumuktam ǀ enam ǁmuñcāmi ǀ tvā ǀ haviṣā ǀ jīvanāya ǀ kam ǀ ajñāta-yakṣmāt ǀ uta ǀ rāja-yakṣmāt ǀ
grāhiḥ ǀ jagrāha ǀ yadi ǀ vā ǀ etat ǀ enam ǀ tasyāḥ ǀ indrāgnī iti ǀ pra ǀ mumuktam ǀ enam ǁ10.161.1 Aṣṭaka 8.8.19.1Anuvāka 10.12.47
-
Ṛk 2
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योरं॑ति॒कं नी॑त ए॒व ।
तमा ह॑रामि॒ निर्ऋ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव |
तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं शतशारदाय ||yádi kṣitā́yuryádi vā páreto yádi mṛtyórantikám nī́ta evá ǀ
támā́ harāmi nírṛterupásthādáspārṣamenam śatáśāradāya ǁyadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva |
tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya ||यदि॑ । क्षि॒तऽआ॑युः । यदि॑ । वा॒ । परा॑ऽइतः । यदि॑ । मृ॒त्योः । अ॒न्ति॒कम् । निऽइ॑तः । ए॒व ।
तम् । आ । ह॒रा॒मि॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् । अस्पा॑र्षम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥यदि । क्षितऽआयुः । यदि । वा । पराऽइतः । यदि । मृत्योः । अन्तिकम् । निऽइतः । एव ।
तम् । आ । हरामि । निःऽऋतेः । उपऽस्थात् । अस्पार्षम् । एनम् । शतऽशारदाय ॥yádi ǀ kṣitá-āyuḥ ǀ yádi ǀ vā ǀ párā-itaḥ ǀ yádi ǀ mṛtyóḥ ǀ antikám ǀ ní-itaḥ ǀ evá ǀ
tám ǀ ā́ ǀ harāmi ǀ níḥ-ṛteḥ ǀ upá-sthāt ǀ áspārṣam ǀ enam ǀ śatá-śāradāya ǁyadi ǀ kṣita-āyuḥ ǀ yadi ǀ vā ǀ parā-itaḥ ǀ yadi ǀ mṛtyoḥ ǀ antikam ǀ ni-itaḥ ǀ eva ǀ
tam ǀ ā ǀ harāmi ǀ niḥ-ṛteḥ ǀ upa-sthāt ǀ aspārṣam ǀ enam ǀ śata-śāradāya ǁ10.161.2 Aṣṭaka 8.8.19.2Anuvāka 10.12.48
-
Ṛk 3
स॒ह॒स्रा॒क्षेण॑ श॒तशा॑रदेन श॒तायु॑षा ह॒विषाहा॑र्षमेनं ।
श॒तं यथे॒मं श॒रदो॒ नया॒तींद्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रं ॥सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम् एनम् |
शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ||sahasrākṣéṇa śatáśāradena śatā́yuṣā havíṣā́hārṣamenam ǀ
śatám yáthemám śarádo náyātī́ndro víśvasya duritásya pārám ǁsahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam |
śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram ||स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽशा॑रदेन । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ।
श॒तम् । यथा॑ । इ॒मम् । श॒रदः॑ । नया॑ति । इन्द्रः॑ । विश्व॑स्य । दुः॒ऽइ॒तस्य॑ । पा॒रम् ॥सहस्रऽअक्षेण । शतऽशारदेन । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ।
शतम् । यथा । इमम् । शरदः । नयाति । इन्द्रः । विश्वस्य । दुःऽइतस्य । पारम् ॥sahasra-akṣéṇa ǀ śatá-śāradena ǀ śatá-āyuṣā ǀ havíṣā ǀ ā́ ǀ ahārṣam ǀ enam ǀ
śatám ǀ yáthā ǀ imám ǀ śarádaḥ ǀ náyāti ǀ índraḥ ǀ víśvasya ǀ duḥ-itásya ǀ pārám ǁsahasra-akṣeṇa ǀ śata-śāradena ǀ śata-āyuṣā ǀ haviṣā ǀ ā ǀ ahārṣam ǀ enam ǀ
śatam ǀ yathā ǀ imam ǀ śaradaḥ ǀ nayāti ǀ indraḥ ǀ viśvasya ǀ duḥ-itasya ǀ pāram ǁ10.161.3 Aṣṭaka 8.8.19.3Anuvāka 10.12.49
-
Ṛk 4
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑मं॒तांछ॒तमु॑ वसं॒तान् ।
श॒तमिं॑द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ॥शतं जीव शरदो वर्धमानः शतं हेमन्ताञ् छतम् उ वसन्तान् |
शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम् पुनर् दुः ||śatám jīva śarádo várdhamānaḥ śatám hemantā́ñchatámu vasantā́n ǀ
śatámindrāgnī́ savitā́ bṛ́haspátiḥ śatā́yuṣā havíṣemám púnarduḥ ǁśataṃ jīva śarado vardhamānaḥ śataṃ hemantāñ chatam u vasantān |
śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ ||श॒तम् । जी॒व॒ । श॒रदः॑ । वर्ध॑मानः । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।
श॒तम् । इ॒न्द्रा॒ग्नी इति॑ । स॒वि॒ता । बृह॒स्पतिः॑ । श॒तऽआ॑युषा । ह॒विषा॑ । इ॒मम् । पुनः॑ । दुः॒ ॥शतम् । जीव । शरदः । वर्धमानः । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।
शतम् । इन्द्राग्नी इति । सविता । बृहस्पतिः । शतऽआयुषा । हविषा । इमम् । पुनः । दुः ॥śatám ǀ jīva ǀ śarádaḥ ǀ várdhamānaḥ ǀ śatám ǀ hemantā́n ǀ śatám ǀ ūṃ íti ǀ vasantā́n ǀ
śatám ǀ indrāgnī́ íti ǀ savitā́ ǀ bṛ́haspátiḥ ǀ śatá-āyuṣā ǀ havíṣā ǀ imám ǀ púnaḥ ǀ duḥ ǁśatam ǀ jīva ǀ śaradaḥ ǀ vardhamānaḥ ǀ śatam ǀ hemantān ǀ śatam ǀ ūṃ iti ǀ vasantān ǀ
śatam ǀ indrāgnī iti ǀ savitā ǀ bṛhaspatiḥ ǀ śata-āyuṣā ǀ haviṣā ǀ imam ǀ punaḥ ǀ duḥ ǁ10.161.4 Aṣṭaka 8.8.19.4Anuvāka 10.12.50
-
Ṛk 5
आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः॑ पुनर्नव ।
सर्वां॑ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदं ॥आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव |
सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ||ā́hārṣam tvā́vidam tvā púnarā́gāḥ punarnava ǀ
sárvāṅga sárvam te cákṣuḥ sárvamā́yuśca te’vidam ǁāhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava |
sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam ||आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ ।
सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥आ । अहार्षम् । त्वा । अविदम् । त्वा । पुनः । आ । अगाः । पुनःऽनव ।
सर्वऽअङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम् ॥ā́ ǀ ahārṣam ǀ tvā ǀ ávidam ǀ tvā ǀ púnaḥ ǀ ā́ ǀ agāḥ ǀ punaḥ-nava ǀ
sárva-aṅga ǀ sárvam ǀ te ǀ cákṣuḥ ǀ sárvam ǀ ā́yuḥ ǀ ca ǀ te ǀ avidam ǁā ǀ ahārṣam ǀ tvā ǀ avidam ǀ tvā ǀ punaḥ ǀ ā ǀ agāḥ ǀ punaḥ-nava ǀ
sarva-aṅga ǀ sarvam ǀ te ǀ cakṣuḥ ǀ sarvam ǀ āyuḥ ǀ ca ǀ te ǀ avidam ǁ10.161.5 Aṣṭaka 8.8.19.5Anuvāka 10.12.51
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.