Sūkta 163
- Devatā देवता
- Yakṣmaghnam
- Ṛṣi ऋषि
- Vivṛhat Kāśyapa
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (2-5); anuṣṭup (1, 6)
2nd set of styles anuṣṭubh
-
Ṛk 1
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ ।
यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि |
यक्ष्मं शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते ||akṣī́bhyām te nā́sikābhyām kárṇābhyām chúbukādádhi ǀ
yákṣmam śīrṣaṇyám mastíṣkājjihvā́yā ví vṛhāmi te ǁakṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi |
yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te ||अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ ।
यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥अक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि ।
यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते ॥akṣī́bhyām ǀ te ǀ nā́sikābhyām ǀ kárṇābhyām ǀ chúbukāt ǀ ádhi ǀ
yákṣmam ǀ śīrṣaṇyám ǀ mastíṣkāt ǀ jihvā́yāḥ ǀ ví ǀ vṛhāmi ǀ te ǁakṣībhyām ǀ te ǀ nāsikābhyām ǀ karṇābhyām ǀ chubukāt ǀ adhi ǀ
yakṣmam ǀ śīrṣaṇyam ǀ mastiṣkāt ǀ jihvāyāḥ ǀ vi ǀ vṛhāmi ǀ te ǁ10.163.1 Aṣṭaka 8.8.21.1Anuvāka 10.12.58
-
Ṛk 2
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् ।
यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् |
यक्ष्मं दोषण्यम् अंसाभ्याम् बाहुभ्यां वि वृहामि ते ||grīvā́bhyasta uṣṇíhābhyaḥ kī́kasābhyo anūkyā́t ǀ
yákṣmam doṣaṇyámáṃsābhyām bāhúbhyām ví vṛhāmi te ǁgrīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te ||ग्री॒वाभ्यः॑ । ते॒ । उ॒ष्णिहा॑भ्यः । कीक॑साभ्यः । अ॒नू॒क्या॑त् ।
यक्ष्म॑म् । दो॒ष॒ण्य॑म् । अंसा॑भ्याम् । बा॒हुऽभ्या॑म् । वि । वृ॒हा॒मि॒ । ते॒ ॥ग्रीवाभ्यः । ते । उष्णिहाभ्यः । कीकसाभ्यः । अनूक्यात् ।
यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहुऽभ्याम् । वि । वृहामि । ते ॥grīvā́bhyaḥ ǀ te ǀ uṣṇíhābhyaḥ ǀ kī́kasābhyaḥ ǀ anūkyā́t ǀ
yákṣmam ǀ doṣaṇyám ǀ áṃsābhyām ǀ bāhú-bhyām ǀ ví ǀ vṛhāmi ǀ te ǁgrīvābhyaḥ ǀ te ǀ uṣṇihābhyaḥ ǀ kīkasābhyaḥ ǀ anūkyāt ǀ
yakṣmam ǀ doṣaṇyam ǀ aṃsābhyām ǀ bāhu-bhyām ǀ vi ǀ vṛhāmi ǀ te ǁ10.163.2 Aṣṭaka 8.8.21.2Anuvāka 10.12.59
-
Ṛk 3
आं॒त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि |
यक्ष्मम् मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ||āntrébhyaste gúdābhyo vaniṣṭhórhṛ́dayādádhi ǀ
yákṣmam mátasnābhyām yaknáḥ plāśíbhyo ví vṛhāmi te ǁāntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi |
yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te ||आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ ।
यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥आन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । हृदयात् । अधि ।
यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशिऽभ्यः । वि । वृहामि । ते ॥āntrébhyaḥ ǀ te ǀ gúdābhyaḥ ǀ vaniṣṭhóḥ ǀ hṛ́dayāt ǀ ádhi ǀ
yákṣmam ǀ mátasnābhyām ǀ yaknáḥ ǀ plāśí-bhyaḥ ǀ ví ǀ vṛhāmi ǀ te ǁāntrebhyaḥ ǀ te ǀ gudābhyaḥ ǀ vaniṣṭhoḥ ǀ hṛdayāt ǀ adhi ǀ
yakṣmam ǀ matasnābhyām ǀ yaknaḥ ǀ plāśi-bhyaḥ ǀ vi ǀ vṛhāmi ǀ te ǁ10.163.3 Aṣṭaka 8.8.21.3Anuvāka 10.12.60
-
Ṛk 4
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्यां ।
यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥ऊरुभ्यां ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् |
यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो वि वृहामि ते ||ūrúbhyām te aṣṭhīvádbhyām pā́rṣṇibhyām prápadābhyām ǀ
yákṣmam śróṇibhyām bhā́sadādbháṃsaso ví vṛhāmi te ǁūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām |
yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te ||ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् ।
यक्ष्म॑म् । श्रोणि॑ऽभ्याम् । भास॑दात् । भंस॑सः । वि । वृ॒हा॒मि॒ । ते॒ ॥ऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् ।
यक्ष्मम् । श्रोणिऽभ्याम् । भासदात् । भंससः । वि । वृहामि । ते ॥ūrú-bhyām ǀ te ǀ aṣṭhīvát-bhyām ǀ pā́rṣṇi-bhyām ǀ prá-padābhyām ǀ
yákṣmam ǀ śróṇi-bhyām ǀ bhā́sadāt ǀ bháṃsasaḥ ǀ ví ǀ vṛhāmi ǀ te ǁūru-bhyām ǀ te ǀ aṣṭhīvat-bhyām ǀ pārṣṇi-bhyām ǀ pra-padābhyām ǀ
yakṣmam ǀ śroṇi-bhyām ǀ bhāsadāt ǀ bhaṃsasaḥ ǀ vi ǀ vṛhāmi ǀ te ǁ10.163.4 Aṣṭaka 8.8.21.4Anuvāka 10.12.61
-
Ṛk 5
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥मेहनाद् वनङ्करणाल् लोमभ्यस् ते नखेभ्यः |
यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ||méhanādvanaṃkáraṇāllómabhyaste nakhébhyaḥ ǀ
yákṣmam sárvasmādātmánastámidám ví vṛhāmi te ǁmehanād vanaṅkaraṇāl lomabhyas te nakhebhyaḥ |
yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥मेहनात् । वनम्ऽकरणात् । लोमऽभ्यः । ते । नखेभ्यः ।
यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥méhanāt ǀ vanam-káraṇāt ǀ lóma-bhyaḥ ǀ te ǀ nakhébhyaḥ ǀ
yákṣmam ǀ sárvasmāt ǀ ātmánaḥ ǀ tám ǀ idám ǀ ví ǀ vṛhāmi ǀ te ǁmehanāt ǀ vanam-karaṇāt ǀ loma-bhyaḥ ǀ te ǀ nakhebhyaḥ ǀ
yakṣmam ǀ sarvasmāt ǀ ātmanaḥ ǀ tam ǀ idam ǀ vi ǀ vṛhāmi ǀ te ǁ10.163.5 Aṣṭaka 8.8.21.5Anuvāka 10.12.62
-
Ṛk 6
अंगा॑दंगा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि |
यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ||áṅgādaṅgāllómnolomno jātám párvaṇiparvaṇi ǀ
yákṣmam sárvasmādātmánastámidám ví vṛhāmi te ǁaṅgād-aṅgāl lomno-lomno jātam parvaṇi-parvaṇi |
yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥अङ्गात्ऽअङ्गात् । लोम्नःऽलोम्नः । जातम् । पर्वणिऽपर्वणि ।
यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥áṅgāt-aṅgāt ǀ lómnaḥ-lomnaḥ ǀ jātám ǀ párvaṇi-parvaṇi ǀ
yákṣmam ǀ sárvasmāt ǀ ātmánaḥ ǀ tám ǀ idám ǀ ví ǀ vṛhāmi ǀ te ǁaṅgāt-aṅgāt ǀ lomnaḥ-lomnaḥ ǀ jātam ǀ parvaṇi-parvaṇi ǀ
yakṣmam ǀ sarvasmāt ǀ ātmanaḥ ǀ tam ǀ idam ǀ vi ǀ vṛhāmi ǀ te ǁ10.163.6 Aṣṭaka 8.8.21.6Anuvāka 10.12.63
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.