Ṛgveda · Maṇḍala 10 · Sūkta 163

Ṛk 10.163.6

Yakṣmaghnam · Vivṛhat Kāśyapa

The whole sūkta Link

Saṃhitā

अंगा॑दंगा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि |
यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ||

áṅgādaṅgāllómnolomno jātám párvaṇiparvaṇi ǀ
yákṣmam sárvasmādātmánastámidám ví vṛhāmi te ǁ

aṅgād-aṅgāl lomno-lomno jātam parvaṇi-parvaṇi |
yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||

Padapāṭha

अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥

अङ्गात्ऽअङ्गात् । लोम्नःऽलोम्नः । जातम् । पर्वणिऽपर्वणि ।
यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥

áṅgāt-aṅgāt ǀ lómnaḥ-lomnaḥ ǀ jātám ǀ párvaṇi-parvaṇi ǀ
yákṣmam ǀ sárvasmāt ǀ ātmánaḥ ǀ tám ǀ idám ǀ ví ǀ vṛhāmi ǀ te ǁ

aṅgāt-aṅgāt ǀ lomnaḥ-lomnaḥ ǀ jātam ǀ parvaṇi-parvaṇi ǀ
yakṣmam ǀ sarvasmāt ǀ ātmanaḥ ǀ tam ǀ idam ǀ vi ǀ vṛhāmi ǀ te ǁ

References

Maṇḍala · Sūkta · Ṛk
10.163.06
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.21.06
Maṇḍala · Anuvāka · Ṛk
10.12.063
Devatā देवता
Yakṣmaghnam
Ṛṣi ऋषि
Vivṛhat Kāśyapa
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.163.6

Interpretations

Sāyaṇa

अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यो लोम्नो लोम्नः सर्वेभ्यो लोमभ्यश्च पर्वणि पर्वण्यवयवानां सन्धौ जातमुत्पन्नं यक्ष्मं वि वृहामि। अन्यद्गतम्॥६॥