Ṛgveda · Maṇḍala 10

Sūkta 70

Hymn Āprī · Sumitra Vādhryaśva · 11 ṛks

Link
Devatā देवता
Hymn Āprī
Ṛṣi ऋषि
Sumitra Vādhryaśva
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (5-7, 9, 11); nicṛttriṣṭup (1, 2, 4, 10); pādanicṛttriṣṭup (3); virāṭtrisṭup (8)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताचीं॑ ।
    वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥

    इमाम् मे अग्ने समिधं जुषस्वेऌअस् पदे प्रति हर्या घृताचीम् |
    वर्ष्मन् पृथिव्याः सुदिनत्वे अह्नाम् ऊर्ध्वो भव सुक्रतो देवयज्या ||

    imā́m me agne samídham juṣasveḷáspadé práti haryā ghṛtā́cīm ǀ
    várṣmanpṛthivyā́ḥ sudinatvé áhnāmūrdhvó bhava sukrato devayajyā́ ǁ

    imām me agne samidhaṃ juṣasveḷas pade prati haryā ghṛtācīm |
    varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā ||

    इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒स्व॒ । इ॒ळः । प॒दे । प्रति॑ । ह॒र्य॒ । घृ॒ताची॑म् ।
    वर्ष्म॑न् । पृ॒थि॒व्याः । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दे॒व॒ऽय॒ज्या ॥

    इमाम् । मे । अग्ने । सम्ऽइधम् । जुषस्व । इळः । पदे । प्रति । हर्य । घृताचीम् ।
    वर्ष्मन् । पृथिव्याः । सुदिनऽत्वे । अह्नाम् । ऊर्ध्वः । भव । सुक्रतो इति सुऽक्रतो । देवऽयज्या ॥

    imā́m ǀ me ǀ agne ǀ sam-ídham ǀ juṣasva ǀ iḷáḥ ǀ padé ǀ práti ǀ harya ǀ ghṛtā́cīm ǀ
    várṣman ǀ pṛthivyā́ḥ ǀ sudina-tvé ǀ áhnām ǀ ūrdhváḥ ǀ bhava ǀ sukrato íti su-krato ǀ deva-yajyā́ ǁ

    imām ǀ me ǀ agne ǀ sam-idham ǀ juṣasva ǀ iḷaḥ ǀ pade ǀ prati ǀ harya ǀ ghṛtācīm ǀ
    varṣman ǀ pṛthivyāḥ ǀ sudina-tve ǀ ahnām ǀ ūrdhvaḥ ǀ bhava ǀ sukrato iti su-krato ǀ deva-yajyā ǁ

    10.70.1 Aṣṭaka 8.2.21.1Anuvāka 10.6.13

  2. Ṛk 2

    आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वैः॑ ।
    ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥

    आ देवानाम् अग्रयावेह यातु नराशंसो विश्वरूपेभिर् अश्वैः |
    ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ||

    ā́ devā́nāmagrayā́vehá yātu nárāśáṃso viśvárūpebhiráśvaiḥ ǀ
    ṛtásya pathā́ námasā miyédho devébhyo devátamaḥ suṣūdat ǁ

    ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ |
    ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat ||

    आ । दे॒वाना॑म् । अ॒ग्र॒ऽयावा॑ । इ॒ह । या॒तु॒ । नरा॒शंसः॑ । वि॒श्वऽरू॑पेभिः । अश्वैः॑ ।
    ऋ॒तस्य॑ । प॒था । नम॑सा । मि॒येधः॑ । दे॒वेभ्यः॑ । दे॒वऽत॑मः । सु॒सू॒द॒त् ॥

    आ । देवानाम् । अग्रऽयावा । इह । यातु । नराशंसः । विश्वऽरूपेभिः । अश्वैः ।
    ऋतस्य । पथा । नमसा । मियेधः । देवेभ्यः । देवऽतमः । सुसूदत् ॥

    ā́ ǀ devā́nām ǀ agra-yā́vā ǀ ihá ǀ yātu ǀ nárāśáṃsaḥ ǀ viśvá-rūpebhiḥ ǀ áśvaiḥ ǀ
    ṛtásya ǀ pathā́ ǀ námasā ǀ miyédhaḥ ǀ devébhyaḥ ǀ devá-tamaḥ ǀ susūdat ǁ

    ā ǀ devānām ǀ agra-yāvā ǀ iha ǀ yātu ǀ narāśaṃsaḥ ǀ viśva-rūpebhiḥ ǀ aśvaiḥ ǀ
    ṛtasya ǀ pathā ǀ namasā ǀ miyedhaḥ ǀ devebhyaḥ ǀ deva-tamaḥ ǀ susūdat ǁ

    10.70.2 Aṣṭaka 8.2.21.2Anuvāka 10.6.14

  3. Ṛk 3

    श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्मं॑तो मनु॒ष्या॑सो अ॒ग्निं ।
    वहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥

    शश्वत्तमम् ईऌअते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् |
    वहिष्ठैर् अश्वैः सुवृता रथेना देवान् वक्षि नि षदेह होता ||

    śaśvattamámīḷate dūtyā́ya havíṣmanto manuṣyā́so agním ǀ
    váhiṣṭhairáśvaiḥ suvṛ́tā ráthenā́ devā́nvakṣi ní ṣadehá hótā ǁ

    śaśvattamam īḷate dūtyāya haviṣmanto manuṣyāso agnim |
    vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā ||

    श॒श्व॒त्ऽत॒मम् । ई॒ळ॒ते॒ । दू॒त्या॑य । ह॒विष्म॑न्तः । म॒नु॒ष्या॑सः । अ॒ग्निम् ।
    वहि॑ष्ठैः । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । आ । दे॒वान् । व॒क्षि॒ । नि । स॒द॒ । इ॒ह । होता॑ ॥

    शश्वत्ऽतमम् । ईळते । दूत्याय । हविष्मन्तः । मनुष्यासः । अग्निम् ।
    वहिष्ठैः । अश्वैः । सुऽवृता । रथेन । आ । देवान् । वक्षि । नि । सद । इह । होता ॥

    śaśvat-tamám ǀ īḷate ǀ dūtyā́ya ǀ havíṣmantaḥ ǀ manuṣyā́saḥ ǀ agním ǀ
    váhiṣṭhaiḥ ǀ áśvaiḥ ǀ su-vṛ́tā ǀ ráthena ǀ ā́ ǀ devā́n ǀ vakṣi ǀ ní ǀ sada ǀ ihá ǀ hótā ǁ

    śaśvat-tamam ǀ īḷate ǀ dūtyāya ǀ haviṣmantaḥ ǀ manuṣyāsaḥ ǀ agnim ǀ
    vahiṣṭhaiḥ ǀ aśvaiḥ ǀ su-vṛtā ǀ rathena ǀ ā ǀ devān ǀ vakṣi ǀ ni ǀ sada ǀ iha ǀ hotā ǁ

    10.70.3 Aṣṭaka 8.2.21.3Anuvāka 10.6.15

  4. Ṛk 4

    वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।
    अहे॑ळता॒ मन॑सा देव बर्हि॒रिंद्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥

    वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्व् अस्मे |
    अहेऌअता मनसा देव बर्हिर् इन्द्रज्येष्ठां उशतो यक्षि देवान् ||

    ví prathatām devájuṣṭam tiraścā́ dīrghám drāghmā́ surabhí bhūtvasmé ǀ
    áheḷatā mánasā deva barhiríndrajyeṣṭhām̐ uśató yakṣi devā́n ǁ

    vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme |
    aheḷatā manasā deva barhir indrajyeṣṭhāṃ uśato yakṣi devān ||

    वि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ ।
    अहे॑ळता । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥

    वि । प्रथताम् । देवऽजुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति ।
    अहेळता । मनसा । देव । बर्हिः । इन्द्रऽज्येष्ठान् । उशतः । यक्षि । देवान् ॥

    ví ǀ prathatām ǀ devá-juṣṭam ǀ tiraścā́ ǀ dīrghám ǀ drāghmā́ ǀ surabhí ǀ bhūtu ǀ asmé íti ǀ
    áheḷatā ǀ mánasā ǀ deva ǀ barhiḥ ǀ índra-jyeṣṭhān ǀ uśatáḥ ǀ yakṣi ǀ devā́n ǁ

    vi ǀ prathatām ǀ deva-juṣṭam ǀ tiraścā ǀ dīrgham ǀ drāghmā ǀ surabhi ǀ bhūtu ǀ asme iti ǀ
    aheḷatā ǀ manasā ǀ deva ǀ barhiḥ ǀ indra-jyeṣṭhān ǀ uśataḥ ǀ yakṣi ǀ devān ǁ

    10.70.4 Aṣṭaka 8.2.21.4Anuvāka 10.6.16

  5. Ṛk 5

    दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वं ।
    उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वं ॥

    दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् |
    उशतीर् द्वारो महिना महद्भिर् देवं रथं रथयुर् धारयध्वम् ||

    divó vā sā́nu spṛśátā várīyaḥ pṛthivyā́ vā mā́trayā ví śrayadhvam ǀ
    uśatī́rdvāro mahinā́ mahádbhirdevám rátham rathayúrdhārayadhvam ǁ

    divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam |
    uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam ||

    दि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑यः । पृ॒थि॒व्या । वा॒ । मात्र॑या । वि । श्र॒य॒ध्व॒म् ।
    उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्ऽभिः॑ । दे॒वम् । रथ॑म् । र॒थ॒ऽयुः । धा॒र॒य॒ध्व॒म् ॥

    दिवः । वा । सानु । स्पृशत । वरीयः । पृथिव्या । वा । मात्रया । वि । श्रयध्वम् ।
    उशतीः । द्वारः । महिना । महत्ऽभिः । देवम् । रथम् । रथऽयुः । धारयध्वम् ॥

    diváḥ ǀ vā ǀ sā́nu ǀ spṛśáta ǀ várīyaḥ ǀ pṛthivyā́ ǀ vā ǀ mā́trayā ǀ ví ǀ śrayadhvam ǀ
    uśatī́ḥ ǀ dvāraḥ ǀ mahinā́ ǀ mahát-bhiḥ ǀ devám ǀ rátham ǀ ratha-yúḥ ǀ dhārayadhvam ǁ

    divaḥ ǀ vā ǀ sānu ǀ spṛśata ǀ varīyaḥ ǀ pṛthivyā ǀ vā ǀ mātrayā ǀ vi ǀ śrayadhvam ǀ
    uśatīḥ ǀ dvāraḥ ǀ mahinā ǀ mahat-bhiḥ ǀ devam ǀ ratham ǀ ratha-yuḥ ǀ dhārayadhvam ǁ

    10.70.5 Aṣṭaka 8.2.21.5Anuvāka 10.6.17

  6. Ṛk 6

    दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
    आ वां॑ दे॒वास॑ उशती उ॒शंत॑ उ॒रौ सी॑दंतु सुभगे उ॒पस्थे॑ ॥

    देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ |
    आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ||

    devī́ divó duhitárā suśilpé uṣā́sānáktā sadatām ní yónau ǀ
    ā́ vām devā́sa uśatī uśánta uráu sīdantu subhage upásthe ǁ

    devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau |
    ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe ||

    दे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।
    आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥

    देवी इति । दिवः । दुहितरा । सुशिल्पे इति सुऽशिल्पे । उषसानक्ता । सदताम् । नि । योनौ ।
    आ । वाम् । देवासः । उशती इति । उशन्तः । उरौ । सीदन्तु । सुभगे इति सुऽभगे । उपऽस्थे ॥

    devī́ íti ǀ diváḥ ǀ duhitárā ǀ suśilpé íti su-śilpé ǀ uṣásānáktā ǀ sadatām ǀ ní ǀ yónau ǀ
    ā́ ǀ vām ǀ devā́saḥ ǀ uśatī íti ǀ uśántaḥ ǀ uráu ǀ sīdantu ǀ subhage íti su-bhage ǀ upá-sthe ǁ

    devī iti ǀ divaḥ ǀ duhitarā ǀ suśilpe iti su-śilpe ǀ uṣasānaktā ǀ sadatām ǀ ni ǀ yonau ǀ
    ā ǀ vām ǀ devāsaḥ ǀ uśatī iti ǀ uśantaḥ ǀ urau ǀ sīdantu ǀ subhage iti su-bhage ǀ upa-sthe ǁ

    10.70.6 Aṣṭaka 8.2.22.1Anuvāka 10.6.18

  7. Ṛk 7

    ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।
    पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथां ॥

    ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे |
    पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम् ||

    ūrdhvó grā́vā bṛhádagníḥ sámiddhaḥ priyā́ dhā́mānyáditerupásthe ǀ
    puróhitāvṛtvijā yajñé asmínvidúṣṭarā dráviṇamā́ yajethām ǁ

    ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe |
    purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām ||

    ऊ॒र्ध्वः । ग्रावा॑ । बृ॒हत् । अ॒ग्निः । सम्ऽइ॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पऽस्थे॑ ।
    पु॒रःऽहि॑तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽत॑रा । द्रवि॑णम् । आ । य॒जे॒था॒म् ॥

    ऊर्ध्वः । ग्रावा । बृहत् । अग्निः । सम्ऽइद्धः । प्रिया । धामानि । अदितेः । उपऽस्थे ।
    पुरःऽहितौ । ऋत्विजा । यज्ञे । अस्मिन् । विदुःऽतरा । द्रविणम् । आ । यजेथाम् ॥

    ūrdhváḥ ǀ grā́vā ǀ bṛhát ǀ agníḥ ǀ sám-iddhaḥ ǀ priyā́ ǀ dhā́māni ǀ áditeḥ ǀ upá-sthe ǀ
    puráḥ-hitau ǀ ṛtvijā ǀ yajñé ǀ asmín ǀ vidúḥ-tarā ǀ dráviṇam ǀ ā́ ǀ yajethām ǁ

    ūrdhvaḥ ǀ grāvā ǀ bṛhat ǀ agniḥ ǀ sam-iddhaḥ ǀ priyā ǀ dhāmāni ǀ aditeḥ ǀ upa-sthe ǀ
    puraḥ-hitau ǀ ṛtvijā ǀ yajñe ǀ asmin ǀ viduḥ-tarā ǀ draviṇam ǀ ā ǀ yajethām ǁ

    10.70.7 Aṣṭaka 8.2.22.2Anuvāka 10.6.19

  8. Ṛk 8

    तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा वः॑ स्यो॒नं ।
    म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषंत ॥

    तिस्रो देवीर् बर्हिर् इदं वरीय आ सीदत चकृमा वः स्योनम् |
    मनुष्वद् यज्ञं सुधिता हवींषीऌआ देवी घृतपदी जुषन्त ||

    tísro devīrbarhíridám várīya ā́ sīdata cakṛmā́ vaḥ syonám ǀ
    manuṣvádyajñám súdhitā havī́ṃṣī́ḷā devī́ ghṛtápadī juṣanta ǁ

    tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam |
    manuṣvad yajñaṃ sudhitā havīṃṣīḷā devī ghṛtapadī juṣanta ||

    तिस्रः॑ । दे॒वीः॒ । ब॒र्हिः । इ॒दम् । वरी॑यः । आ । सी॒द॒त॒ । च॒कृ॒म । वः॒ । स्यो॒नम् ।
    म॒नु॒ष्वत् । य॒ज्ञम् । सुऽधि॑ता । ह॒वींषि॑ । इळा॑ । दे॒वी । घृ॒तऽप॑दी । जु॒ष॒न्त॒ ॥

    तिस्रः । देवीः । बर्हिः । इदम् । वरीयः । आ । सीदत । चकृम । वः । स्योनम् ।
    मनुष्वत् । यज्ञम् । सुऽधिता । हवींषि । इळा । देवी । घृतऽपदी । जुषन्त ॥

    tísraḥ ǀ devīḥ ǀ barhíḥ ǀ idám ǀ várīyaḥ ǀ ā́ ǀ sīdata ǀ cakṛmá ǀ vaḥ ǀ syonám ǀ
    manuṣvát ǀ yajñám ǀ sú-dhitā ǀ havī́ṃṣi ǀ íḷā ǀ devī́ ǀ ghṛtá-padī ǀ juṣanta ǁ

    tisraḥ ǀ devīḥ ǀ barhiḥ ǀ idam ǀ varīyaḥ ǀ ā ǀ sīdata ǀ cakṛma ǀ vaḥ ǀ syonam ǀ
    manuṣvat ǀ yajñam ǀ su-dhitā ǀ havīṃṣi ǀ iḷā ǀ devī ǀ ghṛta-padī ǀ juṣanta ǁ

    10.70.8 Aṣṭaka 8.2.22.3Anuvāka 10.6.20

  9. Ṛk 9

    देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदंगि॑रसा॒मभ॑वः सचा॒भूः ।
    स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ॥

    देव त्वष्टर् यद् ध चारुत्वम् आनड् यद् अङ्गिरसाम् अभवः सचाभूः |
    स देवानाम् पाथ उप प्र विद्वां उशन् यक्षि द्रविणोदः सुरत्नः ||

    déva tvaṣṭaryáddha cārutvámā́naḍyádáṅgirasāmábhavaḥ sacābhū́ḥ ǀ
    sá devā́nām pā́tha úpa prá vidvā́m̐ uśányakṣi draviṇodaḥ surátnaḥ ǁ

    deva tvaṣṭar yad dha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ |
    sa devānām pātha upa pra vidvāṃ uśan yakṣi draviṇodaḥ suratnaḥ ||

    देव॑ । त्व॒ष्टः॒ । यत् । ह॒ । चा॒रु॒ऽत्वम् । आन॑ट् । यत् । अङ्गि॑रसाम् । अभ॑वः । स॒चा॒ऽभूः ।
    सः । दे॒वाना॑म् । पाथः॑ । उप॑ । प्र । वि॒द्वान् । उ॒शन् । य॒क्षि॒ । द्र॒वि॒णः॒ऽदः॒ । सु॒ऽरत्नः॑ ॥

    देव । त्वष्टः । यत् । ह । चारुऽत्वम् । आनट् । यत् । अङ्गिरसाम् । अभवः । सचाऽभूः ।
    सः । देवानाम् । पाथः । उप । प्र । विद्वान् । उशन् । यक्षि । द्रविणःऽदः । सुऽरत्नः ॥

    déva ǀ tvaṣṭaḥ ǀ yát ǀ ha ǀ cāru-tvám ǀ ā́naṭ ǀ yát ǀ áṅgirasām ǀ ábhavaḥ ǀ sacā-bhū́ḥ ǀ
    sáḥ ǀ devā́nām ǀ pā́thaḥ ǀ úpa ǀ prá ǀ vidvā́n ǀ uśán ǀ yakṣi ǀ draviṇaḥ-daḥ ǀ su-rátnaḥ ǁ

    deva ǀ tvaṣṭaḥ ǀ yat ǀ ha ǀ cāru-tvam ǀ ānaṭ ǀ yat ǀ aṅgirasām ǀ abhavaḥ ǀ sacā-bhūḥ ǀ
    saḥ ǀ devānām ǀ pāthaḥ ǀ upa ǀ pra ǀ vidvān ǀ uśan ǀ yakṣi ǀ draviṇaḥ-daḥ ǀ su-ratnaḥ ǁ

    10.70.9 Aṣṭaka 8.2.22.4Anuvāka 10.6.21

  10. Ṛk 10

    वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् ।
    स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥

    वनस्पते रशनया नियूया देवानाम् पाथ उप वक्षि विद्वान् |
    स्वदाति देवः कृणवद् धवींष्य् अवतां द्यावापृथिवी हवम् मे ||

    vánaspate raśanáyā niyū́yā devā́nām pā́tha úpa vakṣi vidvā́n ǀ
    svádāti deváḥ kṛṇávaddhavī́ṃṣyávatām dyā́vāpṛthivī́ hávam me ǁ

    vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān |
    svadāti devaḥ kṛṇavad dhavīṃṣy avatāṃ dyāvāpṛthivī havam me ||

    वन॑स्पते । र॒श॒नया॑ । नि॒ऽयूय॑ । दे॒वाना॑म् । पाथः॑ । उप॑ । व॒क्षि॒ । वि॒द्वान् ।
    स्वदा॑ति । दे॒वः । कृ॒णव॑त् । ह॒वींषि॑ । अव॑ताम् । द्यावा॑पृथि॒वी इति॑ । हव॑म् । मे॒ ॥

    वनस्पते । रशनया । निऽयूय । देवानाम् । पाथः । उप । वक्षि । विद्वान् ।
    स्वदाति । देवः । कृणवत् । हवींषि । अवताम् । द्यावापृथिवी इति । हवम् । मे ॥

    vánaspate ǀ raśanáyā ǀ ni-yū́ya ǀ devā́nām ǀ pā́thaḥ ǀ úpa ǀ vakṣi ǀ vidvā́n ǀ
    svádāti ǀ deváḥ ǀ kṛṇávat ǀ havī́ṃṣi ǀ ávatām ǀ dyā́vāpṛthivī́ íti ǀ hávam ǀ me ǁ

    vanaspate ǀ raśanayā ǀ ni-yūya ǀ devānām ǀ pāthaḥ ǀ upa ǀ vakṣi ǀ vidvān ǀ
    svadāti ǀ devaḥ ǀ kṛṇavat ǀ havīṃṣi ǀ avatām ǀ dyāvāpṛthivī iti ǀ havam ǀ me ǁ

    10.70.10 Aṣṭaka 8.2.22.5Anuvāka 10.6.22

  11. Ṛk 11

    आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इंद्रं॑ दि॒वो म॒रुतो॑ अं॒तरि॑क्षात् ।
    सीदं॑तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥

    आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् |
    सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ||

    ā́gne vaha váruṇamiṣṭáye na índram divó marúto antárikṣāt ǀ
    sī́dantu barhírvíśva ā́ yájatrāḥ svā́hā devā́ amṛ́tā mādayantām ǁ

    āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt |
    sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām ||

    आ । अ॒ग्ने॒ । व॒ह॒ । वरु॑णम् । इ॒ष्टये॑ । नः॒ । इन्द्र॑म् । दि॒वः । म॒रुतः॑ । अ॒न्तरि॑क्षात् ।
    सीद॑न्तु । ब॒र्हिः । विश्वे॑ । आ । यज॑त्राः । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

    आ । अग्ने । वह । वरुणम् । इष्टये । नः । इन्द्रम् । दिवः । मरुतः । अन्तरिक्षात् ।
    सीदन्तु । बर्हिः । विश्वे । आ । यजत्राः । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥

    ā́ ǀ agne ǀ vaha ǀ váruṇam ǀ iṣṭáye ǀ naḥ ǀ índram ǀ diváḥ ǀ marútaḥ ǀ antárikṣāt ǀ
    sī́dantu ǀ barhíḥ ǀ víśve ǀ ā́ ǀ yájatrāḥ ǀ svā́hā ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayantām ǁ

    ā ǀ agne ǀ vaha ǀ varuṇam ǀ iṣṭaye ǀ naḥ ǀ indram ǀ divaḥ ǀ marutaḥ ǀ antarikṣāt ǀ
    sīdantu ǀ barhiḥ ǀ viśve ǀ ā ǀ yajatrāḥ ǀ svāhā ǀ devāḥ ǀ amṛtāḥ ǀ mādayantām ǁ

    10.70.11 Aṣṭaka 8.2.22.6Anuvāka 10.6.23

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.70 · Hymn Āprī

Interpretations

Ralph T. H. Griffith

Ṛk 1

ENJOY, O Agni, this my Fuel, welcome the oil-filled ladle where we pour libation. Rise up for worship of the Gods, wise Agni, on the earth's height, while days are bright with beauty.

Ṛk 2

May he who goes before the Gods come hither with steeds whose shapes are varied, Narasarhsa. May he, most Godlike, speed our offered viands with homage God-ward on the path of Order.

Ṛk 3

Men with oblations laud most constant Agni, and pray him to perform an envoy's duty. With lightly-rolling car and best draught-horses, bring the Gods hither and sit down as Hotar.

Ṛk 4

May the delight of Gods spread out transversely: may it be with us long in length and fragrant. O Holy Grass divine, with friendly spirit bring thou the willing Gods whose Chief is Indra.

Ṛk 5

Touch ye the far-extending height of heaven or spring apart to suit the wide earth's measure. Yearning, ye Doors, with those sublime in greatness, seize eagerly the heavenly Car that cometh.

Ṛk 6

Here in this shrine may Dawn and Night, the Daughters of Heaven, the skilful Goddesses, be seated. In your wide lap, auspicious, willing Ladies may the Gods seat them with a willing spirit.

Ṛk 7

Up stands the stone, high burns the fire enkindled: Aditi's lap contains the Friendly Natures Ye Two Chief Priests who serve at this our worship, may ye, more skilled, win for us rich possessions.

Ṛk 8

On our wide grass, Three Goddesses be seated: for you have we prepared and made it pleasant. May Iḷā, she whose foot drops oil, the Goddess, taste, man-like, sacrifice and well-set presents.

Ṛk 9

Since thou, God Tvaṣṭar, hast made beauty perfect, since hou hast been the Aṅgirases' Companion, Willing, most wealthy, Giver of possessions, grant us the Gods’ assembly, thou who knowest.

Ṛk 10

Well-knowing, binding with thy cord, bring hither, Lord of the Wood, the Deities' assembly. The God prepare and season our oblations may Heaven and Earth be gracious to my calling.