Ṛgveda · Maṇḍala 10 · Sūkta 70
Ṛk 10.70.7
Saṃhitā
ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।
पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथां ॥
ऊर्ध्वो ग्रावा बृहद् अग्निः समिद्धः प्रिया धामान्य् अदितेर् उपस्थे |
पुरोहिताव् ऋत्विजा यज्ञे अस्मिन् विदुष्टरा द्रविणम् आ यजेथाम् ||
ūrdhvó grā́vā bṛhádagníḥ sámiddhaḥ priyā́ dhā́mānyáditerupásthe ǀ
puróhitāvṛtvijā yajñé asmínvidúṣṭarā dráviṇamā́ yajethām ǁ
ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe |
purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām ||
Padapāṭha
ऊ॒र्ध्वः । ग्रावा॑ । बृ॒हत् । अ॒ग्निः । सम्ऽइ॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पऽस्थे॑ ।
पु॒रःऽहि॑तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽत॑रा । द्रवि॑णम् । आ । य॒जे॒था॒म् ॥
ऊर्ध्वः । ग्रावा । बृहत् । अग्निः । सम्ऽइद्धः । प्रिया । धामानि । अदितेः । उपऽस्थे ।
पुरःऽहितौ । ऋत्विजा । यज्ञे । अस्मिन् । विदुःऽतरा । द्रविणम् । आ । यजेथाम् ॥
ūrdhváḥ ǀ grā́vā ǀ bṛhát ǀ agníḥ ǀ sám-iddhaḥ ǀ priyā́ ǀ dhā́māni ǀ áditeḥ ǀ upá-sthe ǀ
puráḥ-hitau ǀ ṛtvijā ǀ yajñé ǀ asmín ǀ vidúḥ-tarā ǀ dráviṇam ǀ ā́ ǀ yajethām ǁ
ūrdhvaḥ ǀ grāvā ǀ bṛhat ǀ agniḥ ǀ sam-iddhaḥ ǀ priyā ǀ dhāmāni ǀ aditeḥ ǀ upa-sthe ǀ
puraḥ-hitau ǀ ṛtvijā ǀ yajñe ǀ asmin ǀ viduḥ-tarā ǀ draviṇam ǀ ā ǀ yajethām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.070.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.22.02
- Maṇḍala · Anuvāka · Ṛk
- 10.06.019
- Devatā देवता
- Hymn Āprī
- Ṛṣi ऋषि
- Sumitra Vādhryaśva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.