Ṛgveda · Maṇḍala 10 · Sūkta 70

Ṛk 10.70.11

Hymn Āprī · Sumitra Vādhryaśva

The whole sūkta Link

Saṃhitā

आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इंद्रं॑ दि॒वो म॒रुतो॑ अं॒तरि॑क्षात् ।
सीदं॑तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥

आग्ने वह वरुणम् इष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् |
सीदन्तु बर्हिर् विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ||

ā́gne vaha váruṇamiṣṭáye na índram divó marúto antárikṣāt ǀ
sī́dantu barhírvíśva ā́ yájatrāḥ svā́hā devā́ amṛ́tā mādayantām ǁ

āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt |
sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām ||

Padapāṭha

आ । अ॒ग्ने॒ । व॒ह॒ । वरु॑णम् । इ॒ष्टये॑ । नः॒ । इन्द्र॑म् । दि॒वः । म॒रुतः॑ । अ॒न्तरि॑क्षात् ।
सीद॑न्तु । ब॒र्हिः । विश्वे॑ । आ । यज॑त्राः । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

आ । अग्ने । वह । वरुणम् । इष्टये । नः । इन्द्रम् । दिवः । मरुतः । अन्तरिक्षात् ।
सीदन्तु । बर्हिः । विश्वे । आ । यजत्राः । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥

ā́ ǀ agne ǀ vaha ǀ váruṇam ǀ iṣṭáye ǀ naḥ ǀ índram ǀ diváḥ ǀ marútaḥ ǀ antárikṣāt ǀ
sī́dantu ǀ barhíḥ ǀ víśve ǀ ā́ ǀ yájatrāḥ ǀ svā́hā ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayantām ǁ

ā ǀ agne ǀ vaha ǀ varuṇam ǀ iṣṭaye ǀ naḥ ǀ indram ǀ divaḥ ǀ marutaḥ ǀ antarikṣāt ǀ
sīdantu ǀ barhiḥ ǀ viśve ǀ ā ǀ yajatrāḥ ǀ svāhā ǀ devāḥ ǀ amṛtāḥ ǀ mādayantām ǁ

References

Maṇḍala · Sūkta · Ṛk
10.070.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.2.22.06
Maṇḍala · Anuvāka · Ṛk
10.06.023
Devatā देवता
Hymn Āprī
Ṛṣi ऋषि
Sumitra Vādhryaśva
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.70.11

Interpretations

Sāyaṇa

हे अग्ने त्वं नोऽस्माकमिष्टये यागायेन्द्रं वरुणम् च मरुतश्च दिवो द्युलोकादन्तरिक्षाच्चास्मदीयं यज्ञमा वह। प्रापय। आगतस्ते यजत्रा यष्टव्या विश्वे सर्वे वेवा बर्हिरा सीदन्तु। तत्रासन्नाभवन्तु। ततोऽमृता मरणधर्मरहिता देवाः स्वाहा स्वाहाकारेण दत्तैर्हविर्भिर्मादयन्ताम्। आत्मानं मावयन्तु॥११॥