Ṛgveda · Maṇḍala 10 · Sūkta 70
Ṛk 10.70.4
Saṃhitā
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।
अहे॑ळता॒ मन॑सा देव बर्हि॒रिंद्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥
वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्व् अस्मे |
अहेऌअता मनसा देव बर्हिर् इन्द्रज्येष्ठां उशतो यक्षि देवान् ||
ví prathatām devájuṣṭam tiraścā́ dīrghám drāghmā́ surabhí bhūtvasmé ǀ
áheḷatā mánasā deva barhiríndrajyeṣṭhām̐ uśató yakṣi devā́n ǁ
vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme |
aheḷatā manasā deva barhir indrajyeṣṭhāṃ uśato yakṣi devān ||
Padapāṭha
वि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ ।
अहे॑ळता । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥
वि । प्रथताम् । देवऽजुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति ।
अहेळता । मनसा । देव । बर्हिः । इन्द्रऽज्येष्ठान् । उशतः । यक्षि । देवान् ॥
ví ǀ prathatām ǀ devá-juṣṭam ǀ tiraścā́ ǀ dīrghám ǀ drāghmā́ ǀ surabhí ǀ bhūtu ǀ asmé íti ǀ
áheḷatā ǀ mánasā ǀ deva ǀ barhiḥ ǀ índra-jyeṣṭhān ǀ uśatáḥ ǀ yakṣi ǀ devā́n ǁ
vi ǀ prathatām ǀ deva-juṣṭam ǀ tiraścā ǀ dīrgham ǀ drāghmā ǀ surabhi ǀ bhūtu ǀ asme iti ǀ
aheḷatā ǀ manasā ǀ deva ǀ barhiḥ ǀ indra-jyeṣṭhān ǀ uśataḥ ǀ yakṣi ǀ devān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.070.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.21.04
- Maṇḍala · Anuvāka · Ṛk
- 10.06.016
- Devatā देवता
- Hymn Āprī
- Ṛṣi ऋषि
- Sumitra Vādhryaśva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.