Sūkta 134
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- 1-5: Māndhātṛ Yauvanāśva; 6: Māndhātṛ Yauvanāśva (A); Godhā (B); 7: Godhā
- Chandas छन्दस्
- Mahāpaṅkti, Paṅkti
Metres by ṛk
1st set of styles mahāpaṅkti (1-6); paṅktiḥ (7)
2nd set of styles mahāpaṅkti (1-6); paṅkti (7)
-
Ṛk 1
उ॒भे यदिं॑द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।
म॒हांतं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥उभे यद् इन्द्र रोदसी आपप्राथोषा इव |
महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ||ubhé yádindra ródasī āpaprā́thoṣā́ iva ǀ
mahā́ntam tvā mahī́nām samrā́jam carṣaṇīnā́m devī́ jánitryajījanadbhadrā́ jánitryajījanat ǁubhe yad indra rodasī āpaprāthoṣā iva |
mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat ||उ॒भे इति॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । आ॒ऽप॒प्राथ॑ । उ॒षाःऽइ॑व ।
म॒हान्त॑म् । त्वा॒ । म॒हीना॑म् । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥उभे इति । यत् । इन्द्र । रोदसी इति । आऽपप्राथ । उषाःऽइव ।
महान्तम् । त्वा । महीनाम् । सम्ऽराजम् । चर्षणीनाम् । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥ubhé íti ǀ yát ǀ indra ǀ ródasī íti ǀ ā-paprā́tha ǀ uṣā́ḥ-iva ǀ
mahā́ntam ǀ tvā ǀ mahī́nām ǀ sam-rā́jam ǀ carṣaṇīnā́m ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁubhe iti ǀ yat ǀ indra ǀ rodasī iti ǀ ā-paprātha ǀ uṣāḥ-iva ǀ
mahāntam ǀ tvā ǀ mahīnām ǀ sam-rājam ǀ carṣaṇīnām ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ10.134.1 Aṣṭaka 8.7.22.1Anuvāka 10.11.36
-
Ṛk 2
अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रं ।
अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् |
अधस्पदं तम् ईं कृधि यो अस्मां आदिदेशति देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ||áva sma durhaṇāyató mártasya tanuhi sthirám ǀ
adhaspadám támīm kṛdhi yó asmā́m̐ ādídeśati devī́ jánitryajījanadbhadrā́ jánitryajījanat ǁava sma durhaṇāyato martasya tanuhi sthiram |
adhaspadaṃ tam īṃ kṛdhi yo asmāṃ ādideśati devī janitry ajījanad bhadrā janitry ajījanat ||अव॑ । स्म॒ । दुः॒ऽह॒ना॒य॒तः । मर्त॑स्य । त॒नु॒हि॒ । स्थि॒रम् ।
अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । यः । अ॒स्मान् । आ॒ऽदिदे॑शति । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥अव । स्म । दुःऽहनायतः । मर्तस्य । तनुहि । स्थिरम् ।
अधःऽपदम् । तम् । ईम् । कृधि । यः । अस्मान् । आऽदिदेशति । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥áva ǀ sma ǀ duḥ-hanāyatáḥ ǀ mártasya ǀ tanuhi ǀ sthirám ǀ
adhaḥ-padám ǀ tám ǀ īm ǀ kṛdhi ǀ yáḥ ǀ asmā́n ǀ ā-dídeśati ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁava ǀ sma ǀ duḥ-hanāyataḥ ǀ martasya ǀ tanuhi ǀ sthiram ǀ
adhaḥ-padam ǀ tam ǀ īm ǀ kṛdhi ǀ yaḥ ǀ asmān ǀ ā-dideśati ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ10.134.2 Aṣṭaka 8.7.22.2Anuvāka 10.11.37
-
Ṛk 3
अव॒ त्या बृ॑ह॒तीरिषो॑ वि॒श्वश्चं॑द्रा अमित्रहन् ।
शची॑भिः शक्र धूनु॒हींद्र॒ विश्वा॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् |
शचीभिः शक्र धूनुहीन्द्र विश्वाभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ||áva tyā́ bṛhatī́ríṣo viśváścandrā amitrahan ǀ
śácībhiḥ śakra dhūnuhī́ndra víśvābhirūtíbhirdevī́ jánitryajījanadbhadrā́ jánitryajījanat ǁava tyā bṛhatīr iṣo viśvaścandrā amitrahan |
śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||अव॑ । त्याः । बृ॒ह॒तीः । इषः॑ । वि॒श्वऽच॑न्द्राः । अ॒मि॒त्र॒ऽह॒न् ।
शची॑भिः । श॒क्र॒ । धू॒नु॒हि॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥अव । त्याः । बृहतीः । इषः । विश्वऽचन्द्राः । अमित्रऽहन् ।
शचीभिः । शक्र । धूनुहि । इन्द्र । विश्वाभिः । ऊतिऽभिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥áva ǀ tyā́ḥ ǀ bṛhatī́ḥ ǀ íṣaḥ ǀ viśvá-candrāḥ ǀ amitra-han ǀ
śácībhiḥ ǀ śakra ǀ dhūnuhi ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁava ǀ tyāḥ ǀ bṛhatīḥ ǀ iṣaḥ ǀ viśva-candrāḥ ǀ amitra-han ǀ
śacībhiḥ ǀ śakra ǀ dhūnuhi ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ10.134.3 Aṣṭaka 8.7.22.3Anuvāka 10.11.38
-
Ṛk 4
अव॒ यत्त्वं श॑तक्रत॒विंद्र॒ विश्वा॑नि धूनु॒षे ।
र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे |
रयिं न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ||áva yáttvám śatakratavíndra víśvāni dhūnuṣé ǀ
rayím ná sunvaté sácā sahasríṇībhirūtíbhirdevī́ jánitryajījanadbhadrā́ jánitryajījanat ǁava yat tvaṃ śatakratav indra viśvāni dhūnuṣe |
rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||अव॑ । यत् । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । विश्वा॑नि । धू॒नु॒षे ।
र॒यिम् । न । सु॒न्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥अव । यत् । त्वम् । शतक्रतो इति शतऽक्रतो । इन्द्र । विश्वानि । धूनुषे ।
रयिम् । न । सुन्वते । सचा । सहस्रिणीभिः । ऊतिऽभिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥áva ǀ yát ǀ tvám ǀ śatakrato íti śata-krato ǀ índra ǀ víśvāni ǀ dhūnuṣé ǀ
rayím ǀ ná ǀ sunvaté ǀ sácā ǀ sahasríṇībhiḥ ǀ ūtí-bhiḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁava ǀ yat ǀ tvam ǀ śatakrato iti śata-krato ǀ indra ǀ viśvāni ǀ dhūnuṣe ǀ
rayim ǀ na ǀ sunvate ǀ sacā ǀ sahasriṇībhiḥ ǀ ūti-bhiḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ10.134.4 Aṣṭaka 8.7.22.4Anuvāka 10.11.39
-
Ṛk 5
अव॒ स्वेदा॑ इवा॒भितो॒ विष्व॑क्पतंतु दि॒द्यवः॑ ।
दूर्वा॑या इव॒ तंत॑वो॒ व्य१॒॑स्मदे॑तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः |
दूर्वाया इव तन्तवो व्य् अस्मद् एतु दुर्मतिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ||áva svédā ivābhíto víṣvakpatantu didyávaḥ ǀ
dū́rvāyā iva tántavo vyásmádetu durmatírdevī́ jánitryajījanadbhadrā́ jánitryajījanat ǁava svedā ivābhito viṣvak patantu didyavaḥ |
dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat ||अव॑ । स्वेदाः॑ऽइव । अ॒भितः॑ । विष्व॑क् । प॒त॒न्तु॒ । दि॒द्यवः॑ ।
दूर्वा॑याःऽइव । तन्त॑वः । वि । अ॒स्मत् । ए॒तु॒ । दुः॒ऽम॒तिः । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥अव । स्वेदाःऽइव । अभितः । विष्वक् । पतन्तु । दिद्यवः ।
दूर्वायाःऽइव । तन्तवः । वि । अस्मत् । एतु । दुःऽमतिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥áva ǀ svédāḥ-iva ǀ abhítaḥ ǀ víṣvak ǀ patantu ǀ didyávaḥ ǀ
dū́rvāyāḥ-iva ǀ tántavaḥ ǀ ví ǀ asmát ǀ etu ǀ duḥ-matíḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁava ǀ svedāḥ-iva ǀ abhitaḥ ǀ viṣvak ǀ patantu ǀ didyavaḥ ǀ
dūrvāyāḥ-iva ǀ tantavaḥ ǀ vi ǀ asmat ǀ etu ǀ duḥ-matiḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ10.134.5 Aṣṭaka 8.7.22.5Anuvāka 10.11.40
-
Ṛk 6
दी॒र्घं ह्यं॑कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मंतुमः ।
पूर्वे॑ण मघवन्प॒दाजो व॒यां यथा॑ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥दीर्घं ह्य् अङ्कुशं यथा शक्तिम् बिभर्षि मन्तुमः |
पूर्वेण मघवन् पदाजो वयां यथा यमो देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ||dīrghám hyáṅkuśám yathā śáktim bíbharṣi mantumaḥ ǀ
pū́rveṇa maghavanpadā́jó vayā́m yáthā yamo devī́ jánitryajījanadbhadrā́ jánitryajījanat ǁdīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ |
pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat ||दी॒र्घम् । हि । अ॒ङ्कु॒शम् । य॒था॒ । शक्ति॑म् । बिभ॑र्षि । म॒न्तु॒ऽमः॒ ।
पूर्वे॑ण । म॒घ॒ऽव॒न् । प॒दा । अ॒जः । व॒याम् । यथा॑ । य॒मः॒ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥दीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तुऽमः ।
पूर्वेण । मघऽवन् । पदा । अजः । वयाम् । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥dīrghám ǀ hí ǀ aṅkuśám ǀ yathā ǀ śáktim ǀ bíbharṣi ǀ mantu-maḥ ǀ
pū́rveṇa ǀ magha-van ǀ padā́ ǀ ajáḥ ǀ vayā́m ǀ yáthā ǀ yamaḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁdīrgham ǀ hi ǀ aṅkuśam ǀ yathā ǀ śaktim ǀ bibharṣi ǀ mantu-maḥ ǀ
pūrveṇa ǀ magha-van ǀ padā ǀ ajaḥ ǀ vayām ǀ yathā ǀ yamaḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ10.134.6 Aṣṭaka 8.7.22.6Anuvāka 10.11.41
-
Ṛk 7
नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मंत्र॒श्रुत्यं॑ चरामसि ।
प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं चरामसि |
पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ||nákirdevā minīmasi nákirā́ yopayāmasi mantraśrútyam carāmasi ǀ
pakṣébhirapikakṣébhirátrābhí sám rabhāmahe ǁnakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi |
pakṣebhir apikakṣebhir atrābhi saṃ rabhāmahe ||नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ ।
प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्रऽश्रुत्यम् । चरामसि ।
पक्षेभिः । अपिऽकक्षेभिः । अत्र । अभि । सम् । रभामहे ॥nákiḥ ǀ devāḥ ǀ minīmasi ǀ nákiḥ ǀ ā́ ǀ yopayāmasi ǀ mantra-śrútyam ǀ carāmasi ǀ
pakṣébhiḥ ǀ api-kakṣébhiḥ ǀ átra ǀ abhí ǀ sám ǀ rabhāmahe ǁnakiḥ ǀ devāḥ ǀ minīmasi ǀ nakiḥ ǀ ā ǀ yopayāmasi ǀ mantra-śrutyam ǀ carāmasi ǀ
pakṣebhiḥ ǀ api-kakṣebhiḥ ǀ atra ǀ abhi ǀ sam ǀ rabhāmahe ǁ10.134.7 Aṣṭaka 8.7.22.7Anuvāka 10.11.42
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.