Ṛgveda · Maṇḍala 10 · Sūkta 134
Ṛk 10.134.4
Saṃhitā
अव॒ यत्त्वं श॑तक्रत॒विंद्र॒ विश्वा॑नि धूनु॒षे ।
र॒यिं न सु॑न्व॒ते सचा॑ सह॒स्रिणी॑भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे |
रयिं न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ||
áva yáttvám śatakratavíndra víśvāni dhūnuṣé ǀ
rayím ná sunvaté sácā sahasríṇībhirūtíbhirdevī́ jánitryajījanadbhadrā́ jánitryajījanat ǁ
ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe |
rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat ||
Padapāṭha
अव॑ । यत् । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । विश्वा॑नि । धू॒नु॒षे ।
र॒यिम् । न । सु॒न्व॒ते । सचा॑ । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥
अव । यत् । त्वम् । शतक्रतो इति शतऽक्रतो । इन्द्र । विश्वानि । धूनुषे ।
रयिम् । न । सुन्वते । सचा । सहस्रिणीभिः । ऊतिऽभिः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥
áva ǀ yát ǀ tvám ǀ śatakrato íti śata-krato ǀ índra ǀ víśvāni ǀ dhūnuṣé ǀ
rayím ǀ ná ǀ sunvaté ǀ sácā ǀ sahasríṇībhiḥ ǀ ūtí-bhiḥ ǀ devī́ ǀ jánitrī ǀ ajījanat ǀ bhadrā́ ǀ jánitrī ǀ ajījanat ǁ
ava ǀ yat ǀ tvam ǀ śatakrato iti śata-krato ǀ indra ǀ viśvāni ǀ dhūnuṣe ǀ
rayim ǀ na ǀ sunvate ǀ sacā ǀ sahasriṇībhiḥ ǀ ūti-bhiḥ ǀ devī ǀ janitrī ǀ ajījanat ǀ bhadrā ǀ janitrī ǀ ajījanat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.134.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.22.04
- Maṇḍala · Anuvāka · Ṛk
- 10.11.039
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- 1-5: Māndhātṛ Yauvanāśva; 6: Māndhātṛ Yauvanāśva (A); Godhā (B); 7: Godhā
- Chandas छन्दस्
- Mahāpaṅkti, Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.