Ṛgveda · Maṇḍala 10 · Sūkta 134

Ṛk 10.134.7

Indra · 1-5: Māndhātṛ Yauvanāśva; 6: Māndhātṛ Yauvanāśva (A); Godhā (B); 7: Godhā

The whole sūkta Link

Saṃhitā

नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मंत्र॒श्रुत्यं॑ चरामसि ।
प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥

नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं चरामसि |
पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ||

nákirdevā minīmasi nákirā́ yopayāmasi mantraśrútyam carāmasi ǀ
pakṣébhirapikakṣébhirátrābhí sám rabhāmahe ǁ

nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi |
pakṣebhir apikakṣebhir atrābhi saṃ rabhāmahe ||

Padapāṭha

नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ ।
प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥

नकिः । देवाः । मिनीमसि । नकिः । आ । योपयामसि । मन्त्रऽश्रुत्यम् । चरामसि ।
पक्षेभिः । अपिऽकक्षेभिः । अत्र । अभि । सम् । रभामहे ॥

nákiḥ ǀ devāḥ ǀ minīmasi ǀ nákiḥ ǀ ā́ ǀ yopayāmasi ǀ mantra-śrútyam ǀ carāmasi ǀ
pakṣébhiḥ ǀ api-kakṣébhiḥ ǀ átra ǀ abhí ǀ sám ǀ rabhāmahe ǁ

nakiḥ ǀ devāḥ ǀ minīmasi ǀ nakiḥ ǀ ā ǀ yopayāmasi ǀ mantra-śrutyam ǀ carāmasi ǀ
pakṣebhiḥ ǀ api-kakṣebhiḥ ǀ atra ǀ abhi ǀ sam ǀ rabhāmahe ǁ

References

Maṇḍala · Sūkta · Ṛk
10.134.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.22.07
Maṇḍala · Anuvāka · Ṛk
10.11.042
Devatā देवता
Indra
Ṛṣi ऋषि
1-5: Māndhātṛ Yauvanāśva; 6: Māndhātṛ Yauvanāśva (A); Godhā (B); 7: Godhā
Chandas छन्दस्
Mahāpaṅkti, Paṅkti
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.134.7

Interpretations

Sāyaṇa

हे देवा इन्द्रादयः युष्मद्विषये नकिर्मिनीमसि। न किमपि हिंस्मः। मीङ् हिंसायां क्रैयादिकः। मीनातेर्निगम इति ह्रस्वः। इदन्तो मसिः। आकारः समुच्चये। नकिर्न किञ्च योपयामसि। योपयामः। अननुष्थाने विमोहयामः। युप विमोहने। किं तर्हि मन्त्रश्रुत्यं मन्त्रेण स्मार्यं श्रुतौ विधिवाक्ये प्रतिपाद्यं युष्मद्विषयं कर्म तच्चरामसि। आचरामः। अनुतिष्थामः। अपि च पक्षेभिः पक्षैः पक्शस्थानीयैः स्तुत शस्त्रैरपि कक्षेभिः। अपिकक्शो नाम बाह्वोर्मध्यभागः। यज्ञस्यापिकक्षभूतैर्हविर्भिरत्रास्मिन्यज्ञेऽभितः सर्वतो युश्मान्संरभामहे। सम्यगवलंबामहे॥७॥