Ṛgveda · Maṇḍala 10 · Sūkta 135
Ṛk 10.135.1
Saṃhitā
यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः सं॒पिब॑ते य॒मः ।
अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥
यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः |
अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ||
yásminvṛkṣé supalāśé deváiḥ sampíbate yamáḥ ǀ
átrā no viśpátiḥ pitā́ purāṇā́m̐ ánu venati ǁ
yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ |
atrā no viśpatiḥ pitā purāṇāṃ anu venati ||
Padapāṭha
यस्मि॑न् । वृ॒क्षे । सु॒ऽप॒ला॒शे । दे॒वैः । स॒म्ऽपिब॑ते । य॒मः ।
अत्र॑ । नः॒ । वि॒श्पतिः॑ । पि॒ता । पु॒रा॒णान् । अनु॑ । वे॒न॒ति॒ ॥
यस्मिन् । वृक्षे । सुऽपलाशे । देवैः । सम्ऽपिबते । यमः ।
अत्र । नः । विश्पतिः । पिता । पुराणान् । अनु । वेनति ॥
yásmin ǀ vṛkṣé ǀ su-palāśé ǀ deváiḥ ǀ sam-píbate ǀ yamáḥ ǀ
átra ǀ naḥ ǀ viśpátiḥ ǀ pitā́ ǀ purāṇā́n ǀ ánu ǀ venati ǁ
yasmin ǀ vṛkṣe ǀ su-palāśe ǀ devaiḥ ǀ sam-pibate ǀ yamaḥ ǀ
atra ǀ naḥ ǀ viśpatiḥ ǀ pitā ǀ purāṇān ǀ anu ǀ venati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.135.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.23.01
- Maṇḍala · Anuvāka · Ṛk
- 10.11.043
- Devatā देवता
- Yama
- Ṛṣi ऋषि
- Kumāra Yāmāyana
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.