Ṛgveda · Maṇḍala 10 · Sūkta 135
Ṛk 10.135.6
Saṃhitā
यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत ।
पु॒रस्ता॑द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तं ॥
यथाभवद् अनुदेयी ततो अग्रम् अजायत |
पुरस्ताद् बुध्न आततः पश्चान् निरयणं कृतम् ||
yáthā́bhavadanudéyī táto ágramajāyata ǀ
purástādbudhná ā́tataḥ paścā́nniráyaṇam kṛtám ǁ
yathābhavad anudeyī tato agram ajāyata |
purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam ||
Padapāṭha
यथा॑ । अभ॑वत् । अ॒नु॒ऽदेयी॑ । ततः॑ । अग्र॑म् । अ॒जा॒य॒त॒ ।
पु॒रस्ता॑त् । बु॒ध्नः । आऽत॑तः । प॒श्चात् । निः॒ऽअय॑नम् । कृ॒तम् ॥
यथा । अभवत् । अनुऽदेयी । ततः । अग्रम् । अजायत ।
पुरस्तात् । बुध्नः । आऽततः । पश्चात् । निःऽअयनम् । कृतम् ॥
yáthā ǀ ábhavat ǀ anu-déyī ǀ tátaḥ ǀ ágram ǀ ajāyata ǀ
purástāt ǀ budhnáḥ ǀ ā́-tataḥ ǀ paścā́t ǀ niḥ-áyanam ǀ kṛtám ǁ
yathā ǀ abhavat ǀ anu-deyī ǀ tataḥ ǀ agram ǀ ajāyata ǀ
purastāt ǀ budhnaḥ ǀ ā-tataḥ ǀ paścāt ǀ niḥ-ayanam ǀ kṛtam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.135.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.23.06
- Maṇḍala · Anuvāka · Ṛk
- 10.11.048
- Devatā देवता
- Yama
- Ṛṣi ऋषि
- Kumāra Yāmāyana
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.