Ṛgveda · Maṇḍala 10 · Sūkta 135

Ṛk 10.135.7

Yama · Kumāra Yāmāyana

The whole sūkta Link

Saṃhitā

इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ ।
इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥

इदं यमस्य सादनं देवमानं यद् उच्यते |
इयम् अस्य धम्यते नाऌईर् अयं गीर्भिः परिष्कृतः ||

idám yamásya sā́danam devamānám yáducyáte ǀ
iyámasya dhamyate nāḷī́rayám gīrbhíḥ páriṣkṛtaḥ ǁ

idaṃ yamasya sādanaṃ devamānaṃ yad ucyate |
iyam asya dhamyate nāḷīr ayaṃ gīrbhiḥ pariṣkṛtaḥ ||

Padapāṭha

इ॒दम् । य॒मस्य॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒च्यते॑ ।
इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒ऽभिः । परि॑ऽकृतः ॥

इदम् । यमस्य । सदनम् । देवऽमानम् । यत् । उच्यते ।
इयम् । अस्य । धम्यते । नाळीः । अयम् । गीःऽभिः । परिऽकृतः ॥

idám ǀ yamásya ǀ sádanam ǀ deva-mānám ǀ yát ǀ ucyáte ǀ
iyám ǀ asya ǀ dhamyate ǀ nāḷī́ḥ ǀ ayám ǀ gīḥ-bhíḥ ǀ pári-kṛtaḥ ǁ

idam ǀ yamasya ǀ sadanam ǀ deva-mānam ǀ yat ǀ ucyate ǀ
iyam ǀ asya ǀ dhamyate ǀ nāḷīḥ ǀ ayam ǀ gīḥ-bhiḥ ǀ pari-kṛtaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.135.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.23.07
Maṇḍala · Anuvāka · Ṛk
10.11.049
Devatā देवता
Yama
Ṛṣi ऋषि
Kumāra Yāmāyana
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.135.7

Interpretations

Sāyaṇa

इदं यमस्य नियन्तुरादित्यस्य वैवस्वतस्य वा सदनं स्थानं । छान्दसः सांहितिकोदीर्घः। यत्सदनं देवमानं देवैर्निर्मितमित्युच्यते सर्वत्राभिधीयते। यद्वा। देवानां रश्मीनां निर्माणसाधनमिति गीयते। अस्य यमस्य प्रीणनायेयं नाळीर्वाद्यविशेषो वेणुर्धम्यते। वाद्यते। यद्वा। नाळीति वाङ्नाम। इयं स्तुतिरूपा वागस्य प्रीणनाय धम्यते। उच्चार्यते। एवं सत्ययं यमो गीर्भिः स्तुतिभिः परिष्कृतः। आलङ्क्रुतोऽभूत्। सम्पर्युपेभ्य इति सुडागमः। परिनिविभ्य इति षत्वम्। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्॥७॥