Sūkta 59
- Devatā देवता
- 1-3: Nirṛti; 4: Nirṛti, Soma; 5, 6: Asunīti; 7: Liṅgoktadevatāḥ; 8, 9: Divaḥ, Pṛthivī; 10: Divaḥ, Pṛthivī Or Infra (A); Divaḥ, Pṛthivī (B)
- Ṛṣi ऋषि
- Bandhu Gaupāyana; Śrutabandhu Gaupāyana; Subandhu Gaupāyana; Viprabandhu Gaupāyana Or Bandhu Laupāyana; Śrutabandhu Laupāyana; Subandhu Laupāyana; Viprabandhu Laupāyana
- Chandas छन्दस्
- Triṣṭubh, Paṅkti, Mahāpaṅkti, Paṅktuttarā
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4-6); svarāḍārcītriṣṭup (3, 7); virāṭtrisṭup (1); bhurikpaṅkti (8); jagatī (9); virāḍjagatī (10)
2nd set of styles triṣṭubh (1-7); paṅkti (8); mahāpaṅkti (9); paṅktuttarā (10)
-
Ṛk 1
प्र ता॒र्यायुः॑ प्रत॒रं नवी॑यः॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य ।
अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥प्र तार्य् आयुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य |
अध च्यवान उत् तवीत्य् अर्थम् परातरं सु निरृतिर् जिहीताम् ||prá tāryā́yuḥ pratarám návīyaḥ sthā́tāreva krátumatā ráthasya ǀ
ádha cyávāna úttavītyártham parātarám sú nírṛtirjihītām ǁpra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya |
adha cyavāna ut tavīty artham parātaraṃ su nirṛtir jihītām ||प्र । ता॒रि॒ । आयुः॑ । प्र॒ऽत॒रम् । नवी॑यः । स्थाता॑राऽइव । क्रतु॑ऽमता । रथ॑स्य ।
अध॑ । च्यवा॑नः । उत् । त॒वी॒ति॒ । अर्थ॑म् । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥प्र । तारि । आयुः । प्रऽतरम् । नवीयः । स्थाताराऽइव । क्रतुऽमता । रथस्य ।
अध । च्यवानः । उत् । तवीति । अर्थम् । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥prá ǀ tāri ǀ ā́yuḥ ǀ pra-tarám ǀ návīyaḥ ǀ sthā́tārā-iva ǀ krátu-matā ǀ ráthasya ǀ
ádha ǀ cyávānaḥ ǀ út ǀ tavīti ǀ ártham ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁpra ǀ tāri ǀ āyuḥ ǀ pra-taram ǀ navīyaḥ ǀ sthātārā-iva ǀ kratu-matā ǀ rathasya ǀ
adha ǀ cyavānaḥ ǀ ut ǀ tavīti ǀ artham ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ10.59.1 Aṣṭaka 8.1.22.1Anuvāka 10.4.147
-
Ṛk 2
साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा॑महे॒ सु पु॑रु॒ध श्रवां॑सि ।
ता नो॒ विश्वा॑नि जरि॒ता म॑मत्तु परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥सामन् नु राये निधिमन् न्व् अन्नं करामहे सु पुरुध श्रवांसि |
ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर् जिहीताम् ||sā́mannú rāyé nidhimánnvánnam kárāmahe sú purudhá śrávāṃsi ǀ
tā́ no víśvāni jaritā́ mamattu parātarám sú nírṛtirjihītām ǁsāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi |
tā no viśvāni jaritā mamattu parātaraṃ su nirṛtir jihītām ||साम॑न् । नु । रा॒ये । नि॒धि॒ऽमत् । नु । अन्न॑म् । करा॑महे । सु । पु॒रु॒ध । श्रवां॑सि ।
ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । म॒म॒त्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥सामन् । नु । राये । निधिऽमत् । नु । अन्नम् । करामहे । सु । पुरुध । श्रवांसि ।
ता । नः । विश्वानि । जरिता । ममत्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥sā́man ǀ nú ǀ rāyé ǀ nidhi-mát ǀ nú ǀ ánnam ǀ kárāmahe ǀ sú ǀ purudhá ǀ śrávāṃsi ǀ
tā́ ǀ naḥ ǀ víśvāni ǀ jaritā́ ǀ mamattu ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁsāman ǀ nu ǀ rāye ǀ nidhi-mat ǀ nu ǀ annam ǀ karāmahe ǀ su ǀ purudha ǀ śravāṃsi ǀ
tā ǀ naḥ ǀ viśvāni ǀ jaritā ǀ mamattu ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ10.59.2 Aṣṭaka 8.1.22.2Anuvāka 10.4.148
-
Ṛk 3
अ॒भी ष्व१॒॑र्यः पौंस्यै॑र्भवेम॒ द्यौर्न भूमिं॑ गि॒रयो॒ नाज्रा॑न् ।
ता नो॒ विश्वा॑नि जरि॒ता चि॑केत परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥अभी ष्व् अर्यः पौंस्यैर् भवेम द्यौर् न भूमिं गिरयो नाज्रान् |
ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर् जिहीताम् ||abhī́ ṣváryáḥ páuṃsyairbhavema dyáurná bhū́mim giráyo nā́jrān ǀ
tā́ no víśvāni jaritā́ ciketa parātarám sú nírṛtirjihītām ǁabhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān |
tā no viśvāni jaritā ciketa parātaraṃ su nirṛtir jihītām ||अ॒भि । सु । अ॒र्यः । पौंस्यैः॑ । भ॒वे॒म॒ । द्यौः । न । भूमि॑म् । गि॒रयः॑ । न । अज्रा॑न् ।
ता । नः॒ । विश्वा॑नि । ज॒रि॒ता । चि॒के॒त॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥अभि । सु । अर्यः । पौंस्यैः । भवेम । द्यौः । न । भूमिम् । गिरयः । न । अज्रान् ।
ता । नः । विश्वानि । जरिता । चिकेत । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥abhí ǀ sú ǀ aryáḥ ǀ páuṃsyaiḥ ǀ bhavema ǀ dyáuḥ ǀ ná ǀ bhū́mim ǀ giráyaḥ ǀ ná ǀ ájrān ǀ
tā́ ǀ naḥ ǀ víśvāni ǀ jaritā́ ǀ ciketa ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁabhi ǀ su ǀ aryaḥ ǀ pauṃsyaiḥ ǀ bhavema ǀ dyauḥ ǀ na ǀ bhūmim ǀ girayaḥ ǀ na ǀ ajrān ǀ
tā ǀ naḥ ǀ viśvāni ǀ jaritā ǀ ciketa ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ10.59.3 Aṣṭaka 8.1.22.3Anuvāka 10.4.149
-
Ṛk 4
मो षु णः॑ सोम मृ॒त्यवे॒ परा॑ दाः॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चरं॑तं ।
द्युभि॑र्हि॒तो ज॑रि॒मा सू नो॑ अस्तु परात॒रं सु निर्ऋ॑तिर्जिहीतां ॥मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यम् उच्चरन्तम् |
द्युभिर् हितो जरिमा सू नो अस्तु परातरं सु निरृतिर् जिहीताम् ||mó ṣú ṇaḥ soma mṛtyáve párā dāḥ páśyema nú sū́ryamuccárantam ǀ
dyúbhirhitó jarimā́ sū́ no astu parātarám sú nírṛtirjihītām ǁmo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam |
dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām ||मो इति॑ । सु । नः॒ । सो॒म॒ । मृ॒त्यवे॑ । परा॑ । दाः॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
द्युऽभिः॑ । हि॒तः । ज॒रि॒मा । सु । नः॒ । अ॒स्तु॒ । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥मो इति । सु । नः । सोम । मृत्यवे । परा । दाः । पश्येम । नु । सूर्यम् । उत्ऽचरन्तम् ।
द्युऽभिः । हितः । जरिमा । सु । नः । अस्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥mó íti ǀ sú ǀ naḥ ǀ soma ǀ mṛtyáve ǀ párā ǀ dāḥ ǀ páśyema ǀ nú ǀ sū́ryam ǀ ut-cárantam ǀ
dyú-bhiḥ ǀ hitáḥ ǀ jarimā́ ǀ sú ǀ naḥ ǀ astu ǀ parā-tarám ǀ sú ǀ níḥ-ṛtiḥ ǀ jihītām ǁmo iti ǀ su ǀ naḥ ǀ soma ǀ mṛtyave ǀ parā ǀ dāḥ ǀ paśyema ǀ nu ǀ sūryam ǀ ut-carantam ǀ
dyu-bhiḥ ǀ hitaḥ ǀ jarimā ǀ su ǀ naḥ ǀ astu ǀ parā-taram ǀ su ǀ niḥ-ṛtiḥ ǀ jihītām ǁ10.59.4 Aṣṭaka 8.1.22.4Anuvāka 10.4.150
-
Ṛk 5
असु॑नीते॒ मनो॑ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ ।
रा॒रं॒धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व ॥असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः |
रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ||ásunīte máno asmā́su dhāraya jīvā́tave sú prá tirā na ā́yuḥ ǀ
rārandhí naḥ sū́ryasya saṃdṛ́śi ghṛténa tvám tanvám vardhayasva ǁasunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ |
rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva ||असु॑ऽनीते । मनः॑ । अ॒स्मासु॑ । धा॒र॒य॒ । जी॒वात॑वे । सु । प्र । ति॒र॒ । नः॒ । आयुः॑ ।
र॒र॒न्धि । नः॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । घृ॒तेन॑ । त्वम् । त॒न्व॑म् । व॒र्ध॒य॒स्व॒ ॥असुऽनीते । मनः । अस्मासु । धारय । जीवातवे । सु । प्र । तिर । नः । आयुः ।
ररन्धि । नः । सूर्यस्य । सम्ऽदृशि । घृतेन । त्वम् । तन्वम् । वर्धयस्व ॥ásu-nīte ǀ mánaḥ ǀ asmā́su ǀ dhāraya ǀ jīvā́tave ǀ sú ǀ prá ǀ tira ǀ naḥ ǀ ā́yuḥ ǀ
rarandhí ǀ naḥ ǀ sū́ryasya ǀ sam-dṛ́śi ǀ ghṛténa ǀ tvám ǀ tanvám ǀ vardhayasva ǁasu-nīte ǀ manaḥ ǀ asmāsu ǀ dhāraya ǀ jīvātave ǀ su ǀ pra ǀ tira ǀ naḥ ǀ āyuḥ ǀ
rarandhi ǀ naḥ ǀ sūryasya ǀ sam-dṛśi ǀ ghṛtena ǀ tvam ǀ tanvam ǀ vardhayasva ǁ10.59.5 Aṣṭaka 8.1.22.5Anuvāka 10.4.151
-
Ṛk 6
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोगं॑ ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चरं॑त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति ॥असुनीते पुनर् अस्मासु चक्षुः पुनः प्राणम् इह नो धेहि भोगम् |
ज्योक् पश्येम सूर्यम् उच्चरन्तम् अनुमते मृऌअया नः स्वस्ति ||ásunīte púnarasmā́su cákṣuḥ púnaḥ prāṇámihá no dhehi bhógam ǀ
jyókpaśyema sū́ryamuccárantamánumate mṛḷáyā naḥ svastí ǁasunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam |
jyok paśyema sūryam uccarantam anumate mṛḷayā naḥ svasti ||असु॑ऽनीते । पुनः॑ । अ॒स्मासु॑ । चक्षुः॑ । पुन॒रिति॑ । प्रा॒णम् । इ॒ह । नः॒ । धे॒हि॒ । भोग॑म् ।
ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् । उ॒त्ऽचर॑न्तम् । अनु॑ऽमते । मृ॒ळय॑ । नः॒ । स्व॒स्ति ॥असुऽनीते । पुनः । अस्मासु । चक्षुः । पुनरिति । प्राणम् । इह । नः । धेहि । भोगम् ।
ज्योक् । पश्येम । सूर्यम् । उत्ऽचरन्तम् । अनुऽमते । मृळय । नः । स्वस्ति ॥ásu-nīte ǀ púnaḥ ǀ asmā́su ǀ cákṣuḥ ǀ púnaríti ǀ prāṇám ǀ ihá ǀ naḥ ǀ dhehi ǀ bhógam ǀ
jyók ǀ paśyema ǀ sū́ryam ǀ ut-cárantam ǀ ánu-mate ǀ mṛḷáya ǀ naḥ ǀ svastí ǁasu-nīte ǀ punaḥ ǀ asmāsu ǀ cakṣuḥ ǀ punariti ǀ prāṇam ǀ iha ǀ naḥ ǀ dhehi ǀ bhogam ǀ
jyok ǀ paśyema ǀ sūryam ǀ ut-carantam ǀ anu-mate ǀ mṛḷaya ǀ naḥ ǀ svasti ǁ10.59.6 Aṣṭaka 8.1.23.1Anuvāka 10.4.152
-
Ṛk 7
पुन॑र्नो॒ असुं॑ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑रं॒तरि॑क्षं ।
पुन॑र्नः॒ सोम॑स्त॒न्वं॑ ददातु॒ पुनः॑ पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ॥पुनर् नो असुम् पृथिवी ददातु पुनर् द्यौर् देवी पुनर् अन्तरिक्षम् |
पुनर् नः सोमस् तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ||púnarno ásum pṛthivī́ dadātu púnardyáurdevī́ púnarantárikṣam ǀ
púnarnaḥ sómastanvám dadātu púnaḥ pūṣā́ pathyā́m yā́ svastíḥ ǁpunar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam |
punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ ||पुनः॑ । नः॒ । असु॑म् । पृ॒थि॒वी । द॒दा॒तु॒ । पुनः॑ । द्यौः । दे॒वी । पुनः॑ । अ॒न्तरि॑क्षम् ।
पुनः॑ । नः॒ । सोमः॑ । त॒न्व॑म् । द॒दा॒तु॒ । पुन॒रिति॑ । पू॒षा । प॒थ्या॑म् । या । स्व॒स्तिः ॥पुनः । नः । असुम् । पृथिवी । ददातु । पुनः । द्यौः । देवी । पुनः । अन्तरिक्षम् ।
पुनः । नः । सोमः । तन्वम् । ददातु । पुनरिति । पूषा । पथ्याम् । या । स्वस्तिः ॥púnaḥ ǀ naḥ ǀ ásum ǀ pṛthivī́ ǀ dadātu ǀ púnaḥ ǀ dyáuḥ ǀ devī́ ǀ púnaḥ ǀ antárikṣam ǀ
púnaḥ ǀ naḥ ǀ sómaḥ ǀ tanvám ǀ dadātu ǀ púnaríti ǀ pūṣā́ ǀ pathyā́m ǀ yā́ ǀ svastíḥ ǁpunaḥ ǀ naḥ ǀ asum ǀ pṛthivī ǀ dadātu ǀ punaḥ ǀ dyauḥ ǀ devī ǀ punaḥ ǀ antarikṣam ǀ
punaḥ ǀ naḥ ǀ somaḥ ǀ tanvam ǀ dadātu ǀ punariti ǀ pūṣā ǀ pathyām ǀ yā ǀ svastiḥ ǁ10.59.7 Aṣṭaka 8.1.23.2Anuvāka 10.4.153
-
Ṛk 8
शं रोद॑सी सु॒बंध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा |
भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ||śám ródasī subándhave yahvī́ ṛtásya mātárā ǀ
bháratāmápa yádrápo dyáuḥ pṛthivi kṣamā́ rápo mó ṣú te kím canā́mamat ǁśaṃ rodasī subandhave yahvī ṛtasya mātarā |
bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||शम् । रोद॑सी॒ इति॑ । सु॒ऽबन्ध॑वे । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।
भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥शम् । रोदसी इति । सुऽबन्धवे । यह्वी इति । ऋतस्य । मातरा ।
भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥śám ǀ ródasī íti ǀ su-bándhave ǀ yahvī́ íti ǀ ṛtásya ǀ mātárā ǀ
bháratām ǀ ápa ǀ yát ǀ rápaḥ ǀ dyáuḥ ǀ pṛthivi ǀ kṣamā́ ǀ rápaḥ ǀ mó íti ǀ sú ǀ te ǀ kím ǀ caná ǀ āmamat ǁśam ǀ rodasī iti ǀ su-bandhave ǀ yahvī iti ǀ ṛtasya ǀ mātarā ǀ
bharatām ǀ apa ǀ yat ǀ rapaḥ ǀ dyauḥ ǀ pṛthivi ǀ kṣamā ǀ rapaḥ ǀ mo iti ǀ su ǀ te ǀ kim ǀ cana ǀ āmamat ǁ10.59.8 Aṣṭaka 8.1.23.3Anuvāka 10.4.154
-
Ṛk 9
अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रंति भेष॒जा ।
क्ष॒मा च॑रि॒ष्ण्वे॑क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥अव द्वके अव त्रिका दिवश् चरन्ति भेषजा |
क्षमा चरिष्ण्व् एककम् भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ||áva dvaké áva trikā́ diváścaranti bheṣajā́ ǀ
kṣamā́ cariṣṇvékakám bháratāmápa yádrápo dyáuḥ pṛthivi kṣamā́ rápo mó ṣú te kím canā́mamat ǁava dvake ava trikā divaś caranti bheṣajā |
kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||अव॑ । द्व॒के इति॑ । अव॑ । त्रि॒का । दि॒वः । च॒र॒न्ति॒ । भे॒ष॒जा ।
क्ष॒मा । च॒रि॒ष्णु । ए॒क॒कम् । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥अव । द्वके इति । अव । त्रिका । दिवः । चरन्ति । भेषजा ।
क्षमा । चरिष्णु । एककम् । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥áva ǀ dvaké íti ǀ áva ǀ trikā́ ǀ diváḥ ǀ caranti ǀ bheṣajā́ ǀ
kṣamā́ ǀ cariṣṇú ǀ ekakám ǀ bháratām ǀ ápa ǀ yát ǀ rápaḥ ǀ dyáuḥ ǀ pṛthivi ǀ kṣamā́ ǀ rápaḥ ǀ mó íti ǀ sú ǀ te ǀ kím ǀ caná ǀ āmamat ǁava ǀ dvake iti ǀ ava ǀ trikā ǀ divaḥ ǀ caranti ǀ bheṣajā ǀ
kṣamā ǀ cariṣṇu ǀ ekakam ǀ bharatām ǀ apa ǀ yat ǀ rapaḥ ǀ dyauḥ ǀ pṛthivi ǀ kṣamā ǀ rapaḥ ǀ mo iti ǀ su ǀ te ǀ kim ǀ cana ǀ āmamat ǁ10.59.9 Aṣṭaka 8.1.23.4Anuvāka 10.4.155
-
Ṛk 10
समिं॑द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अनः॑ ।
भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥सम् इन्द्रेरय गाम् अनड्वाहं य आवहद् उशीनराण्या अनः |
भरताम् अप यद् रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ||sámindreraya gā́manaḍvā́ham yá ā́vahaduśīnárāṇyā ánaḥ ǀ
bháratāmápa yádrápo dyáuḥ pṛthivi kṣamā́ rápo mó ṣú te kím canā́mamat ǁsam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ |
bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat ||सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह॑म् । यः । आ । अव॑हत् । उ॒शी॒नरा॑ण्याः । अनः॑ ।
भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥सम् । इन्द्र । ईरय । गाम् । अनड्वाहम् । यः । आ । अवहत् । उशीनराण्याः । अनः ।
भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥sám ǀ indra ǀ īraya ǀ gā́m ǀ anaḍvā́ham ǀ yáḥ ǀ ā́ ǀ ávahat ǀ uśīnárāṇyāḥ ǀ ánaḥ ǀ
bháratām ǀ ápa ǀ yát ǀ rápaḥ ǀ dyáuḥ ǀ pṛthivi ǀ kṣamā́ ǀ rápaḥ ǀ mó íti ǀ sú ǀ te ǀ kím ǀ caná ǀ āmamat ǁsam ǀ indra ǀ īraya ǀ gām ǀ anaḍvāham ǀ yaḥ ǀ ā ǀ avahat ǀ uśīnarāṇyāḥ ǀ anaḥ ǀ
bharatām ǀ apa ǀ yat ǀ rapaḥ ǀ dyauḥ ǀ pṛthivi ǀ kṣamā ǀ rapaḥ ǀ mo iti ǀ su ǀ te ǀ kim ǀ cana ǀ āmamat ǁ10.59.10 Aṣṭaka 8.1.23.5Anuvāka 10.4.156
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.