Sūkta 124
- Devatā देवता
- 1-4: Agni; 5: Varuṇa; 6: Soma; 7: Varuṇa, Sindhu; 8: Sindhu; 9: Indra
- Ṛṣi ऋषि
- 1, 5-9: Agni; Soma; Varuṇa; 2-4: Agni
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles triṣṭup (1, 3, 8); nicṛttriṣṭup (2, 4, 9); virāṭtrisṭup (5); pādanicṛttriṣṭup (6); jagatī (7)
2nd set of styles triṣṭubh (1-6, 8, 9); jagatī (7)
-
Ṛk 1
इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पंच॑यामं त्रि॒वृतं॑ स॒प्ततं॑तुं ।
असो॑ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥इमं नो अग्न उप यज्ञम् एहि पञ्चयामं त्रिवृतं सप्ततन्तुम् |
असो हव्यवाऌ उत नः पुरोगा ज्योग् एव दीर्घं तम आशयिष्ठाः ||imám no agna úpa yajñáméhi páñcayāmam trivṛ́tam saptátantum ǀ
áso havyavā́ḷutá naḥ purogā́ jyógevá dīrghám táma ā́śayiṣṭhāḥ ǁimaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum |
aso havyavāḷ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ ||इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ।
असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥इमम् । नः । अग्ने । उप । यज्ञम् । आ । इहि । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ।
असः । हव्यऽवाट् । उत । नः । पुरःऽगाः । ज्योक् । एव । दीर्घम् । तमः । आ । अशयिष्ठाः ॥imám ǀ naḥ ǀ agne ǀ úpa ǀ yajñám ǀ ā́ ǀ ihi ǀ páñca-yāmam ǀ tri-vṛ́tam ǀ saptá-tantum ǀ
ásaḥ ǀ havya-vā́ṭ ǀ utá ǀ naḥ ǀ puraḥ-gā́ḥ ǀ jyók ǀ evá ǀ dīrghám ǀ támaḥ ǀ ā́ ǀ aśayiṣṭhāḥ ǁimam ǀ naḥ ǀ agne ǀ upa ǀ yajñam ǀ ā ǀ ihi ǀ pañca-yāmam ǀ tri-vṛtam ǀ sapta-tantum ǀ
asaḥ ǀ havya-vāṭ ǀ uta ǀ naḥ ǀ puraḥ-gāḥ ǀ jyok ǀ eva ǀ dīrgham ǀ tamaḥ ǀ ā ǀ aśayiṣṭhāḥ ǁ10.124.1 Aṣṭaka 8.7.9.1Anuvāka 10.10.105
-
Ṛk 2
अदे॑वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे॑मि ।
शि॒वं यत्संत॒मशि॑वो॒ जहा॑मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ॥अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि |
शिवं यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीं नाभिम् एमि ||ádevāddeváḥ pracátā gúhā yánprapáśyamāno amṛtatvámemi ǀ
śivám yátsántamáśivo jáhāmi svā́tsakhyā́dáraṇīm nā́bhimemi ǁadevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi |
śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi ||अदे॑वात् । दे॒वः । प्र॒ऽचता॑ । गुहा॑ । यन् । प्र॒ऽपश्य॑मानः । अ॒मृ॒त॒ऽत्वम् । ए॒मि॒ ।
शि॒वम् । यत् । सन्त॑म् । अशि॑वः । जहा॑मि । स्वात् । स॒ख्यात् । अर॑णीम् । नाभि॑म् । ए॒मि॒ ॥अदेवात् । देवः । प्रऽचता । गुहा । यन् । प्रऽपश्यमानः । अमृतऽत्वम् । एमि ।
शिवम् । यत् । सन्तम् । अशिवः । जहामि । स्वात् । सख्यात् । अरणीम् । नाभिम् । एमि ॥ádevāt ǀ deváḥ ǀ pra-cátā ǀ gúhā ǀ yán ǀ pra-páśyamānaḥ ǀ amṛta-tvám ǀ emi ǀ
śivám ǀ yát ǀ sántam ǀ áśivaḥ ǀ jáhāmi ǀ svā́t ǀ sakhyā́t ǀ áraṇīm ǀ nā́bhim ǀ emi ǁadevāt ǀ devaḥ ǀ pra-catā ǀ guhā ǀ yan ǀ pra-paśyamānaḥ ǀ amṛta-tvam ǀ emi ǀ
śivam ǀ yat ǀ santam ǀ aśivaḥ ǀ jahāmi ǀ svāt ǀ sakhyāt ǀ araṇīm ǀ nābhim ǀ emi ǁ10.124.2 Aṣṭaka 8.7.9.2Anuvāka 10.10.106
-
Ṛk 3
पश्य॑न्न॒न्यस्या॒ अति॑थिं व॒याया॑ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ ।
शंसा॑मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं॑ भा॒गमे॑मि ॥पश्यन्न् अन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि |
शंसामि पित्रे असुराय शेवम् अयज्ञियाद् यज्ञियम् भागम् एमि ||páśyannanyásyā átithim vayā́yā ṛtásya dhā́ma ví mime purū́ṇi ǀ
śáṃsāmi pitré ásurāya śévamayajñiyā́dyajñíyam bhāgámemi ǁpaśyann anyasyā atithiṃ vayāyā ṛtasya dhāma vi mime purūṇi |
śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi ||पश्य॑न् । अ॒न्यस्याः॑ । अति॑थिम् । व॒यायाः॑ । ऋ॒तस्य॑ । धाम॑ । वि । मि॒मे॒ । पु॒रूणि॑ ।
शंसा॑मि । पि॒त्रे । असु॑राय । शेव॑म् । अ॒य॒ज्ञि॒यात् । य॒ज्ञिय॑म् । भा॒गम् । ए॒मि॒ ॥पश्यन् । अन्यस्याः । अतिथिम् । वयायाः । ऋतस्य । धाम । वि । मिमे । पुरूणि ।
शंसामि । पित्रे । असुराय । शेवम् । अयज्ञियात् । यज्ञियम् । भागम् । एमि ॥páśyan ǀ anyásyāḥ ǀ átithim ǀ vayā́yāḥ ǀ ṛtásya ǀ dhā́ma ǀ ví ǀ mime ǀ purū́ṇi ǀ
śáṃsāmi ǀ pitré ǀ ásurāya ǀ śévam ǀ ayajñiyā́t ǀ yajñíyam ǀ bhāgám ǀ emi ǁpaśyan ǀ anyasyāḥ ǀ atithim ǀ vayāyāḥ ǀ ṛtasya ǀ dhāma ǀ vi ǀ mime ǀ purūṇi ǀ
śaṃsāmi ǀ pitre ǀ asurāya ǀ śevam ǀ ayajñiyāt ǀ yajñiyam ǀ bhāgam ǀ emi ǁ10.124.3 Aṣṭaka 8.7.9.3Anuvāka 10.10.107
-
Ṛk 4
ब॒ह्वीः समा॑ अकरमं॒तर॑स्मि॒न्निंद्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।
अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वंते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं जहामि |
अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् राष्ट्रं तद् अवाम्य् आयन् ||bahvī́ḥ sámā akaramantárasminníndram vṛṇānáḥ pitáram jahāmi ǀ
agníḥ sómo váruṇasté cyavante paryā́vardrāṣṭrám tádavāmyāyán ǁbahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi |
agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan ||ब॒ह्वीः । समाः॑ । अ॒क॒र॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र॑म् । वृ॒णा॒नः । पि॒तर॑म् । ज॒हा॒मि॒ ।
अ॒ग्निः । सोमः॑ । वरु॑णः । ते । च्य॒व॒न्ते॒ । प॒रि॒ऽआव॑र्त् । रा॒ष्ट्रम् । तत् । अ॒वा॒मि॒ । आ॒ऽयन् ॥बह्वीः । समाः । अकरम् । अन्तः । अस्मिन् । इन्द्रम् । वृणानः । पितरम् । जहामि ।
अग्निः । सोमः । वरुणः । ते । च्यवन्ते । परिऽआवर्त् । राष्ट्रम् । तत् । अवामि । आऽयन् ॥bahvī́ḥ ǀ sámāḥ ǀ akaram ǀ antáḥ ǀ asmin ǀ índram ǀ vṛṇānáḥ ǀ pitáram ǀ jahāmi ǀ
agníḥ ǀ sómaḥ ǀ váruṇaḥ ǀ té ǀ cyavante ǀ pari-ā́vart ǀ rāṣṭrám ǀ tát ǀ avāmi ǀ ā-yán ǁbahvīḥ ǀ samāḥ ǀ akaram ǀ antaḥ ǀ asmin ǀ indram ǀ vṛṇānaḥ ǀ pitaram ǀ jahāmi ǀ
agniḥ ǀ somaḥ ǀ varuṇaḥ ǀ te ǀ cyavante ǀ pari-āvart ǀ rāṣṭram ǀ tat ǀ avāmi ǀ ā-yan ǁ10.124.4 Aṣṭaka 8.7.9.4Anuvāka 10.10.108
-
Ṛk 5
निर्मा॑या उ॒ त्ये असु॑रा अभूवं॒त्वं च॑ मा वरुण का॒मया॑से ।
ऋ॒तेन॑ राज॒न्ननृ॑तं विविं॒चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे |
ऋतेन राजन्न् अनृतं विविञ्चन् मम राष्ट्रस्याधिपत्यम् एहि ||nírmāyā u tyé ásurā abhūvantvám ca mā varuṇa kāmáyāse ǀ
ṛténa rājannánṛtam viviñcánmáma rāṣṭrásyā́dhipatyaméhi ǁnirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse |
ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi ||निःऽमा॑याः । ऊं॒ इति॑ । त्ये । असु॑राः । अ॒भू॒व॒न् । त्वम् । च॒ । मा॒ । व॒रु॒ण॒ । का॒मया॑से ।
ऋ॒तेन॑ । रा॒ज॒न् । अनृ॑तम् । वि॒ऽवि॒ञ्चन् । मम॑ । रा॒ष्ट्रस्य॑ । अधि॑ऽपत्यम् । आ । इ॒हि॒ ॥निःऽमायाः । ऊं इति । त्ये । असुराः । अभूवन् । त्वम् । च । मा । वरुण । कामयासे ।
ऋतेन । राजन् । अनृतम् । विऽविञ्चन् । मम । राष्ट्रस्य । अधिऽपत्यम् । आ । इहि ॥níḥ-māyāḥ ǀ ūṃ íti ǀ tyé ǀ ásurāḥ ǀ abhūvan ǀ tvám ǀ ca ǀ mā ǀ varuṇa ǀ kāmáyāse ǀ
ṛténa ǀ rājan ǀ ánṛtam ǀ vi-viñcán ǀ máma ǀ rāṣṭrásya ǀ ádhi-patyam ǀ ā́ ǀ ihi ǁniḥ-māyāḥ ǀ ūṃ iti ǀ tye ǀ asurāḥ ǀ abhūvan ǀ tvam ǀ ca ǀ mā ǀ varuṇa ǀ kāmayāse ǀ
ṛtena ǀ rājan ǀ anṛtam ǀ vi-viñcan ǀ mama ǀ rāṣṭrasya ǀ adhi-patyam ǀ ā ǀ ihi ǁ10.124.5 Aṣṭaka 8.7.9.5Anuvāka 10.10.109
-
Ṛk 6
इ॒दं स्व॑रि॒दमिदा॑स वा॒मम॒यं प्र॑का॒श उ॒र्वं१॒॑तरि॑क्षं ।
हना॑व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ संतं॑ ह॒विषा॑ यजाम ॥इदं स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अन्तरिक्षम् |
हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषा यजाम ||idám sváridámídāsa vāmámayám prakāśá urvántárikṣam ǀ
hánāva vṛtrám niréhi soma havíṣṭvā sántam havíṣā yajāma ǁidaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam |
hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma ||इ॒दम् । स्वः॑ । इ॒दम् । इत् । आ॒स॒ । वा॒मम् । अ॒यम् । प्र॒ऽका॒शः । उ॒रु । अ॒न्तरि॑क्षम् ।
हना॑व । वृ॒त्रम् । निः॒ऽएहि॑ । सो॒म॒ । ह॒विः । त्वा॒ । सन्त॑म् । ह॒विषा॑ । य॒जा॒म॒ ॥इदम् । स्वः । इदम् । इत् । आस । वामम् । अयम् । प्रऽकाशः । उरु । अन्तरिक्षम् ।
हनाव । वृत्रम् । निःऽएहि । सोम । हविः । त्वा । सन्तम् । हविषा । यजाम ॥idám ǀ sváḥ ǀ idám ǀ ít ǀ āsa ǀ vāmám ǀ ayám ǀ pra-kāśáḥ ǀ urú ǀ antárikṣam ǀ
hánāva ǀ vṛtrám ǀ niḥ-éhi ǀ soma ǀ havíḥ ǀ tvā ǀ sántam ǀ havíṣā ǀ yajāma ǁidam ǀ svaḥ ǀ idam ǀ it ǀ āsa ǀ vāmam ǀ ayam ǀ pra-kāśaḥ ǀ uru ǀ antarikṣam ǀ
hanāva ǀ vṛtram ǀ niḥ-ehi ǀ soma ǀ haviḥ ǀ tvā ǀ santam ǀ haviṣā ǀ yajāma ǁ10.124.6 Aṣṭaka 8.7.10.1Anuvāka 10.10.110
-
Ṛk 7
क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् ।
क्षेमं॑ कृण्वा॒ना जन॑यो॒ न सिंध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ॥कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर् अपः सृजत् |
क्षेमं कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णं शुचयो भरिभ्रति ||kavíḥ kavitvā́ diví rūpámā́sajadáprabhūtī váruṇo nírapáḥ sṛjat ǀ
kṣémam kṛṇvānā́ jánayo ná síndhavastā́ asya várṇam śúcayo bharibhrati ǁkaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat |
kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati ||क॒विः । क॒वि॒ऽत्वा । दि॒वि । रू॒पम् । आ । अ॒स॒ज॒त् । अप्र॑ऽभूती । वरु॑णः । निः । अ॒पः । सृ॒ज॒त् ।
क्षेम॑म् । कृ॒ण्वा॒नाः । जन॑यः । न । सिन्ध॑वः । ताः । अ॒स्य॒ । वर्ण॑म् । शुच॑यः । भ॒रि॒भ्र॒ति॒ ॥कविः । कविऽत्वा । दिवि । रूपम् । आ । असजत् । अप्रऽभूती । वरुणः । निः । अपः । सृजत् ।
क्षेमम् । कृण्वानाः । जनयः । न । सिन्धवः । ताः । अस्य । वर्णम् । शुचयः । भरिभ्रति ॥kavíḥ ǀ kavi-tvā́ ǀ diví ǀ rūpám ǀ ā́ ǀ asajat ǀ ápra-bhūtī ǀ váruṇaḥ ǀ níḥ ǀ apáḥ ǀ sṛjat ǀ
kṣémam ǀ kṛṇvānā́ḥ ǀ jánayaḥ ǀ ná ǀ síndhavaḥ ǀ tā́ḥ ǀ asya ǀ várṇam ǀ śúcayaḥ ǀ bharibhrati ǁkaviḥ ǀ kavi-tvā ǀ divi ǀ rūpam ǀ ā ǀ asajat ǀ apra-bhūtī ǀ varuṇaḥ ǀ niḥ ǀ apaḥ ǀ sṛjat ǀ
kṣemam ǀ kṛṇvānāḥ ǀ janayaḥ ǀ na ǀ sindhavaḥ ǀ tāḥ ǀ asya ǀ varṇam ǀ śucayaḥ ǀ bharibhrati ǁ10.124.7 Aṣṭaka 8.7.10.2Anuvāka 10.10.111
-
Ṛk 8
ता अ॑स्य॒ ज्येष्ठ॑मिंद्रि॒यं स॑चंते॒ ता ई॒मा क्षे॑ति स्व॒धया॒ मदं॑तीः ।
ता ईं॒ विशो॒ न राजा॑नं वृणा॒ना बी॑भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ॥ता अस्य ज्येष्ठम् इन्द्रियं सचन्ते ता ईम् आ क्षेति स्वधया मदन्तीः |
ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्राद् अतिष्ठन् ||tā́ asya jyéṣṭhamindriyám sacante tā́ īmā́ kṣeti svadháyā mádantīḥ ǀ
tā́ īm víśo ná rā́jānam vṛṇānā́ bībhatsúvo ápa vṛtrā́datiṣṭhan ǁtā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ |
tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan ||ताः । अ॒स्य॒ । ज्येष्ठ॑म् । इ॒न्द्रि॒यम् । स॒च॒न्ते॒ । ताः । ई॒म् । आ । क्षे॒ति॒ । स्व॒धया॑ । मद॑न्तीः ।
ताः । ई॒म् । विशः॑ । न । राजा॑नम् । वृ॒णा॒नाः । बी॒भ॒त्सुवः॑ । अप॑ । वृ॒त्रात् । अ॒ति॒ष्ठ॒न् ॥ताः । अस्य । ज्येष्ठम् । इन्द्रियम् । सचन्ते । ताः । ईम् । आ । क्षेति । स्वधया । मदन्तीः ।
ताः । ईम् । विशः । न । राजानम् । वृणानाः । बीभत्सुवः । अप । वृत्रात् । अतिष्ठन् ॥tā́ḥ ǀ asya ǀ jyéṣṭham ǀ indriyám ǀ sacante ǀ tā́ḥ ǀ īm ǀ ā́ ǀ kṣeti ǀ svadháyā ǀ mádantīḥ ǀ
tā́ḥ ǀ īm ǀ víśaḥ ǀ ná ǀ rā́jānam ǀ vṛṇānā́ḥ ǀ bībhatsúvaḥ ǀ ápa ǀ vṛtrā́t ǀ atiṣṭhan ǁtāḥ ǀ asya ǀ jyeṣṭham ǀ indriyam ǀ sacante ǀ tāḥ ǀ īm ǀ ā ǀ kṣeti ǀ svadhayā ǀ madantīḥ ǀ
tāḥ ǀ īm ǀ viśaḥ ǀ na ǀ rājānam ǀ vṛṇānāḥ ǀ bībhatsuvaḥ ǀ apa ǀ vṛtrāt ǀ atiṣṭhan ǁ10.124.8 Aṣṭaka 8.7.10.3Anuvāka 10.10.112
-
Ṛk 9
बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चरं॑तं ।
अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिंद्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये चरन्तम् |
अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो मनीषा ||bībhatsū́nām sayújam haṃsámāhurapā́m divyā́nām sakhyé cárantam ǀ
anuṣṭúbhamánu carcūryámāṇamíndram ní cikyuḥ kaváyo manīṣā́ ǁbībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam |
anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā ||बी॒भ॒त्सूना॑म् । स॒ऽयुज॑म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना॑म् । स॒ख्ये । चर॑न्तम् ।
अ॒नु॒ऽस्तुभ॑म् । अनु॑ । च॒र्चू॒र्यमा॑णम् । इन्द्र॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । म॒नी॒षा ॥बीभत्सूनाम् । सऽयुजम् । हंसम् । आहुः । अपाम् । दिव्यानाम् । सख्ये । चरन्तम् ।
अनुऽस्तुभम् । अनु । चर्चूर्यमाणम् । इन्द्रम् । नि । चिक्युः । कवयः । मनीषा ॥bībhatsū́nām ǀ sa-yújam ǀ haṃsám ǀ āhuḥ ǀ apā́m ǀ divyā́nām ǀ sakhyé ǀ cárantam ǀ
anu-stúbham ǀ ánu ǀ carcūryámāṇam ǀ índram ǀ ní ǀ cikyuḥ ǀ kaváyaḥ ǀ manīṣā́ ǁbībhatsūnām ǀ sa-yujam ǀ haṃsam ǀ āhuḥ ǀ apām ǀ divyānām ǀ sakhye ǀ carantam ǀ
anu-stubham ǀ anu ǀ carcūryamāṇam ǀ indram ǀ ni ǀ cikyuḥ ǀ kavayaḥ ǀ manīṣā ǁ10.124.9 Aṣṭaka 8.7.10.4Anuvāka 10.10.113
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.