Ṛgveda · Maṇḍala 10 · Sūkta 124
Ṛk 10.124.4
Saṃhitā
ब॒ह्वीः समा॑ अकरमं॒तर॑स्मि॒न्निंद्रं॑ वृणा॒नः पि॒तरं॑ जहामि ।
अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वंते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ॥
बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं जहामि |
अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् राष्ट्रं तद् अवाम्य् आयन् ||
bahvī́ḥ sámā akaramantárasminníndram vṛṇānáḥ pitáram jahāmi ǀ
agníḥ sómo váruṇasté cyavante paryā́vardrāṣṭrám tádavāmyāyán ǁ
bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi |
agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan ||
Padapāṭha
ब॒ह्वीः । समाः॑ । अ॒क॒र॒म् । अ॒न्तः । अ॒स्मि॒न् । इन्द्र॑म् । वृ॒णा॒नः । पि॒तर॑म् । ज॒हा॒मि॒ ।
अ॒ग्निः । सोमः॑ । वरु॑णः । ते । च्य॒व॒न्ते॒ । प॒रि॒ऽआव॑र्त् । रा॒ष्ट्रम् । तत् । अ॒वा॒मि॒ । आ॒ऽयन् ॥
बह्वीः । समाः । अकरम् । अन्तः । अस्मिन् । इन्द्रम् । वृणानः । पितरम् । जहामि ।
अग्निः । सोमः । वरुणः । ते । च्यवन्ते । परिऽआवर्त् । राष्ट्रम् । तत् । अवामि । आऽयन् ॥
bahvī́ḥ ǀ sámāḥ ǀ akaram ǀ antáḥ ǀ asmin ǀ índram ǀ vṛṇānáḥ ǀ pitáram ǀ jahāmi ǀ
agníḥ ǀ sómaḥ ǀ váruṇaḥ ǀ té ǀ cyavante ǀ pari-ā́vart ǀ rāṣṭrám ǀ tát ǀ avāmi ǀ ā-yán ǁ
bahvīḥ ǀ samāḥ ǀ akaram ǀ antaḥ ǀ asmin ǀ indram ǀ vṛṇānaḥ ǀ pitaram ǀ jahāmi ǀ
agniḥ ǀ somaḥ ǀ varuṇaḥ ǀ te ǀ cyavante ǀ pari-āvart ǀ rāṣṭram ǀ tat ǀ avāmi ǀ ā-yan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.124.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.09.04
- Maṇḍala · Anuvāka · Ṛk
- 10.10.108
- Devatā देवता
- 1-4: Agni; 5: Varuṇa; 6: Soma; 7: Varuṇa, Sindhu; 8: Sindhu; 9: Indra
- Ṛṣi ऋषि
- 1, 5-9: Agni; Soma; Varuṇa; 2-4: Agni
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.