Ṛgveda · Maṇḍala 10 · Sūkta 124
Ṛk 10.124.5
Saṃhitā
निर्मा॑या उ॒ त्ये असु॑रा अभूवं॒त्वं च॑ मा वरुण का॒मया॑से ।
ऋ॒तेन॑ राज॒न्ननृ॑तं विविं॒चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ॥
निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे |
ऋतेन राजन्न् अनृतं विविञ्चन् मम राष्ट्रस्याधिपत्यम् एहि ||
nírmāyā u tyé ásurā abhūvantvám ca mā varuṇa kāmáyāse ǀ
ṛténa rājannánṛtam viviñcánmáma rāṣṭrásyā́dhipatyaméhi ǁ
nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse |
ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi ||
Padapāṭha
निःऽमा॑याः । ऊं॒ इति॑ । त्ये । असु॑राः । अ॒भू॒व॒न् । त्वम् । च॒ । मा॒ । व॒रु॒ण॒ । का॒मया॑से ।
ऋ॒तेन॑ । रा॒ज॒न् । अनृ॑तम् । वि॒ऽवि॒ञ्चन् । मम॑ । रा॒ष्ट्रस्य॑ । अधि॑ऽपत्यम् । आ । इ॒हि॒ ॥
निःऽमायाः । ऊं इति । त्ये । असुराः । अभूवन् । त्वम् । च । मा । वरुण । कामयासे ।
ऋतेन । राजन् । अनृतम् । विऽविञ्चन् । मम । राष्ट्रस्य । अधिऽपत्यम् । आ । इहि ॥
níḥ-māyāḥ ǀ ūṃ íti ǀ tyé ǀ ásurāḥ ǀ abhūvan ǀ tvám ǀ ca ǀ mā ǀ varuṇa ǀ kāmáyāse ǀ
ṛténa ǀ rājan ǀ ánṛtam ǀ vi-viñcán ǀ máma ǀ rāṣṭrásya ǀ ádhi-patyam ǀ ā́ ǀ ihi ǁ
niḥ-māyāḥ ǀ ūṃ iti ǀ tye ǀ asurāḥ ǀ abhūvan ǀ tvam ǀ ca ǀ mā ǀ varuṇa ǀ kāmayāse ǀ
ṛtena ǀ rājan ǀ anṛtam ǀ vi-viñcan ǀ mama ǀ rāṣṭrasya ǀ adhi-patyam ǀ ā ǀ ihi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.124.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.09.05
- Maṇḍala · Anuvāka · Ṛk
- 10.10.109
- Devatā देवता
- 1-4: Agni; 5: Varuṇa; 6: Soma; 7: Varuṇa, Sindhu; 8: Sindhu; 9: Indra
- Ṛṣi ऋषि
- 1, 5-9: Agni; Soma; Varuṇa; 2-4: Agni
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.