Ṛgveda · Maṇḍala 10 · Sūkta 124

Ṛk 10.124.9

Agni · Varuṇa · Soma · Varuṇa, Sindhu · Sindhu · Indra · 1, 5-9: Agni; Soma; Varuṇa; 2-4: Agni

The whole sūkta Link

Saṃhitā

बी॒भ॒त्सूनां॑ स॒युजं॑ हं॒समा॑हुर॒पां दि॒व्यानां॑ स॒ख्ये चरं॑तं ।
अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा॑ण॒मिंद्रं॒ नि चि॑क्युः क॒वयो॑ मनी॒षा ॥

बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये चरन्तम् |
अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो मनीषा ||

bībhatsū́nām sayújam haṃsámāhurapā́m divyā́nām sakhyé cárantam ǀ
anuṣṭúbhamánu carcūryámāṇamíndram ní cikyuḥ kaváyo manīṣā́ ǁ

bībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam |
anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā ||

Padapāṭha

बी॒भ॒त्सूना॑म् । स॒ऽयुज॑म् । हं॒सम् । आ॒हुः॒ । अ॒पाम् । दि॒व्याना॑म् । स॒ख्ये । चर॑न्तम् ।
अ॒नु॒ऽस्तुभ॑म् । अनु॑ । च॒र्चू॒र्यमा॑णम् । इन्द्र॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । म॒नी॒षा ॥

बीभत्सूनाम् । सऽयुजम् । हंसम् । आहुः । अपाम् । दिव्यानाम् । सख्ये । चरन्तम् ।
अनुऽस्तुभम् । अनु । चर्चूर्यमाणम् । इन्द्रम् । नि । चिक्युः । कवयः । मनीषा ॥

bībhatsū́nām ǀ sa-yújam ǀ haṃsám ǀ āhuḥ ǀ apā́m ǀ divyā́nām ǀ sakhyé ǀ cárantam ǀ
anu-stúbham ǀ ánu ǀ carcūryámāṇam ǀ índram ǀ ní ǀ cikyuḥ ǀ kaváyaḥ ǀ manīṣā́ ǁ

bībhatsūnām ǀ sa-yujam ǀ haṃsam ǀ āhuḥ ǀ apām ǀ divyānām ǀ sakhye ǀ carantam ǀ
anu-stubham ǀ anu ǀ carcūryamāṇam ǀ indram ǀ ni ǀ cikyuḥ ǀ kavayaḥ ǀ manīṣā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.124.09
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.10.04
Maṇḍala · Anuvāka · Ṛk
10.10.113
Devatā देवता
1-4: Agni; 5: Varuṇa; 6: Soma; 7: Varuṇa, Sindhu; 8: Sindhu; 9: Indra
Ṛṣi ऋषि
1, 5-9: Agni; Soma; Varuṇa; 2-4: Agni
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.124.9

Interpretations

Sāyaṇa

बीभत्सूनां कम्पमानावयवानां यद्वा मेघेन बद्धानां। हन्ति गच्छतीति हंसः सूर्यः। तं सयुजं सखायमाहुः। ब्रह्मवादिनः कथयन्ति। एतदेवाह। दिव्यानां दिवि भवानामान्तरिक्षाणामपां सख्ये सखित्वे चतन्तं वर्तमानं। अनुष्टुभमनुष्तोभनीयं स्तोतव्यं। यद्वा। अनुष्टुप्शब्देन तत्सम्बद्धो यागः स्तुतिर्वा लक्ष्यते। अनुष्टुप्सम्बद्धं यागमनुष्टुप्छन्दसा युक्तं स्तुतिविशेषं वा। अनुलक्ष्य चर्चूर्यमाणं पुनः पुनश्चरन्तं गच्छन्तम्। चरतेर्यङ्युत्परस्यातः। पा. ७-४-८८। इत्यभ्यासादुत्तरस्याकारस्योत्वं। चरफलोश्च। पा. ७-४-८७। इति नुकि प्राप्ते व्यत्ययेनाभ्यासस्य रुगागमः। एवं गुणविशिष्टमिन्द्रं कवयः क्रान्तदर्शिन ऋषयो मनीषा मनीषया स्तुत्या नि चिक्युः। पूजयन्ति। यद्वा। मनीशा बुद्ध्या नि चिक्युः। जानन्ति। मनीषाशब्दात्त्तृतीयायाः सुपां सुलुगिति लुक्। चायृ पूजनिशामनयोरित्यस्माच्छान्दसे लिटि चायः की। पा. ६-१-३५। इति प्रकृतेः कीभावः। एरनेकाच इति यण्॥९॥