Ṛgveda · Maṇḍala 10 · Sūkta 125
Ṛk 10.125.1
Saṃhitā
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमिं॑द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥
अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः |
अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ||
ahám rudrébhirvásubhiścarāmyahámādityáirutá viśvádevaiḥ ǀ
ahám mitrā́váruṇobhā́ bibharmyahámindrāgnī́ ahámaśvínobhā́ ǁ
ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ |
aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā ||
Padapāṭha
अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः ।
अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥
अहम् । रुद्रेभिः । वसुऽभिः । चरामि । अहम् । आदित्यैः । उत । विश्वऽदेवैः ।
अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥
ahám ǀ rudrébhiḥ ǀ vásu-bhiḥ ǀ carāmi ǀ ahám ǀ ādityáiḥ ǀ utá ǀ viśvá-devaiḥ ǀ
ahám ǀ mitrā́váruṇā ǀ ubhā́ ǀ bibharmi ǀ ahám ǀ indrāgnī́ íti ǀ ahám ǀ aśvínā ǀ ubhā́ ǁ
aham ǀ rudrebhiḥ ǀ vasu-bhiḥ ǀ carāmi ǀ aham ǀ ādityaiḥ ǀ uta ǀ viśva-devaiḥ ǀ
aham ǀ mitrāvaruṇā ǀ ubhā ǀ bibharmi ǀ aham ǀ indrāgnī iti ǀ aham ǀ aśvinā ǀ ubhā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.125.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.11.01
- Maṇḍala · Anuvāka · Ṛk
- 10.10.114
- Devatā देवता
- Vāc
- Ṛṣi ऋषि
- Vāc Āmbhṛṇī
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.