Ṛgveda · Maṇḍala 10 · Sūkta 125
Ṛk 10.125.2
Saṃhitā
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भगं॑ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥
अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् |
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ||
ahám sómamāhanásam bibharmyahám tváṣṭāramutá pūṣáṇam bhágam ǀ
ahám dadhāmi dráviṇam havíṣmate suprāvyé yájamānāya sunvaté ǁ
ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam |
ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate ||
Padapāṭha
अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् ।
अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥
अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् ।
अहम् । दधामि । द्रविणम् । हविष्मते । सुप्रऽअव्ये । यजमानाय । सुन्वते ॥
ahám ǀ sómam ǀ āhanásam ǀ bibharmi ǀ ahám ǀ tváṣṭāram ǀ utá ǀ pūṣáṇam ǀ bhágam ǀ
ahám ǀ dadhāmi ǀ dráviṇam ǀ havíṣmate ǀ supra-avyé ǀ yájamānāya ǀ sunvaté ǁ
aham ǀ somam ǀ āhanasam ǀ bibharmi ǀ aham ǀ tvaṣṭāram ǀ uta ǀ pūṣaṇam ǀ bhagam ǀ
aham ǀ dadhāmi ǀ draviṇam ǀ haviṣmate ǀ supra-avye ǀ yajamānāya ǀ sunvate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.125.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.11.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.115
- Devatā देवता
- Vāc
- Ṛṣi ऋषि
- Vāc Āmbhṛṇī
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.