Ṛgveda · Maṇḍala 10 · Sūkta 161

Ṛk 10.161.5

Rājayakṣmaghnam · Yakṣmanāśana Prājāpatya

The whole sūkta Link

Saṃhitā

आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः॑ पुनर्नव ।
सर्वां॑ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदं ॥

आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव |
सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ||

ā́hārṣam tvā́vidam tvā púnarā́gāḥ punarnava ǀ
sárvāṅga sárvam te cákṣuḥ sárvamā́yuśca te’vidam ǁ

āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava |
sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam ||

Padapāṭha

आ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ ।
सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥

आ । अहार्षम् । त्वा । अविदम् । त्वा । पुनः । आ । अगाः । पुनःऽनव ।
सर्वऽअङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम् ॥

ā́ ǀ ahārṣam ǀ tvā ǀ ávidam ǀ tvā ǀ púnaḥ ǀ ā́ ǀ agāḥ ǀ punaḥ-nava ǀ
sárva-aṅga ǀ sárvam ǀ te ǀ cákṣuḥ ǀ sárvam ǀ ā́yuḥ ǀ ca ǀ te ǀ avidam ǁ

ā ǀ ahārṣam ǀ tvā ǀ avidam ǀ tvā ǀ punaḥ ǀ ā ǀ agāḥ ǀ punaḥ-nava ǀ
sarva-aṅga ǀ sarvam ǀ te ǀ cakṣuḥ ǀ sarvam ǀ āyuḥ ǀ ca ǀ te ǀ avidam ǁ

References

Maṇḍala · Sūkta · Ṛk
10.161.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.19.05
Maṇḍala · Anuvāka · Ṛk
10.12.051
Devatā देवता
Rājayakṣmaghnam
Ṛṣi ऋषि
Yakṣmanāśana Prājāpatya
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.161.5

Interpretations

Sāyaṇa

हे व्याधि गृहीत त्वा त्वामाहार्षम्। मृत्योः सकाशादाहृतवानस्मि। अत एव त्वा त्वामविदम्। अलप्सि। हे पुनर्नव पुनरभिनव पुनरागाः। पुनरस्मत्समीपमागच्छ। हे सर्वाङ्ग सर्वैरविकलैरङ्गैरुपेत ते तव सर्वम् चक्षुः। उपलक्षणमेतत्। इन्द्रियवर्गं सकलमविदम्। लब्धवानस्मि। ते तवायुर्जीवनं च सर्वं सम्पूर्णमविदम्॥५॥