Ṛgveda · Maṇḍala 10 · Sūkta 95

Ṛk 10.95.18

Urvaśī · Purūravas Aiḷa · 1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī

The whole sūkta Link

Saṃhitā

इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युबं॑धुः ।
प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥

इति त्वा देवा इम आहुर् ऐऌअ यथेम् एतद् भवसि मृत्युबन्धुः |
प्रजा ते देवान् हविषा यजाति स्वर्ग उ त्वम् अपि मादयासे ||

íti tvā devā́ imá āhuraiḷa yáthemetádbhávasi mṛtyúbandhuḥ ǀ
prajā́ te devā́nhavíṣā yajāti svargá u tvámápi mādayāse ǁ

iti tvā devā ima āhur aiḷa yathem etad bhavasi mṛtyubandhuḥ |
prajā te devān haviṣā yajāti svarga u tvam api mādayāse ||

Padapāṭha

इति॑ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्युऽब॑न्धुः ।
प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विषा॑ । य॒जा॒ति॒ । स्वः॒ऽगे । ऊं॒ इति॑ । त्वम् । अपि॑ । मा॒द॒या॒से॒ ॥

इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्युऽबन्धुः ।
प्रऽजा । ते । देवान् । हविषा । यजाति । स्वःऽगे । ऊं इति । त्वम् । अपि । मादयासे ॥

íti ǀ tvā ǀ devā́ḥ ǀ imé ǀ āhuḥ ǀ aiḷa ǀ yáthā ǀ īm ǀ etát ǀ bhávasi ǀ mṛtyú-bandhuḥ ǀ
pra-jā́ ǀ te ǀ devā́n ǀ havíṣā ǀ yajāti ǀ svaḥ-gé ǀ ūṃ íti ǀ tvám ǀ ápi ǀ mādayāse ǁ

iti ǀ tvā ǀ devāḥ ǀ ime ǀ āhuḥ ǀ aiḷa ǀ yathā ǀ īm ǀ etat ǀ bhavasi ǀ mṛtyu-bandhuḥ ǀ
pra-jā ǀ te ǀ devān ǀ haviṣā ǀ yajāti ǀ svaḥ-ge ǀ ūṃ iti ǀ tvam ǀ api ǀ mādayāse ǁ

References

Maṇḍala · Sūkta · Ṛk
10.095.18
Aṣṭaka · Adhyāya · Varga · Ṛk
8.5.04.03
Maṇḍala · Anuvāka · Ṛk
10.08.077
Devatā देवता
1, 3, 6, 8-10, 12, 14, 17: Urvaśī; 2, 4, 5, 7, 11, 13, 15, 16, 18: Purūravas Aiḷa
Ṛṣi ऋषि
1, 3, 6, 8-10, 12, 14, 17: Purūravas Aiḷa; 2, 4, 5, 7, 11, 13, 15, 16, 18: Urvaśī
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.95.18

Interpretations

Sāyaṇa

हे ऐळ पुरूरवः त्वा त्वामिमे देवा इत्याहुः। मृत्युबन्धुर्मृत्योर्बन्धको मृत्योर्बन्धुभुतो वा मृत्युवशमप्राप्नुवंस्त्वम् यथें यथैतद्भवसि भविष्यसि प्रजा प्रकर्षेण जायमानस्त्वं ते तव सम्बन्धिनो यष्टव्यान्देवान्हविषा यजासि। यजसि। स्वर्ग उ स्वर्ग एव त्वमपि मादयासे। मादयसेऽस्माभिः सह। एवमाहुरित्यर्थः। यस्मादेवं करोषि तस्मादभिलाषं हित्वा सुखी भवेति सेयं पुरूरवसं प्रत्युवाच॥१९॥