Ṛgveda · Maṇḍala 10 · Sūkta 181

Ṛk 10.181.3

Viśvedevās · 1: Pratha Vāsiṣṭha; 2: Sapratha Bhāradvāja; 3: Gharma Saurya

The whole sūkta Link

Saṃhitā

ते॑ऽविंद॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यानं॑ ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥

ते ऽविन्दन् मनसा दीध्याना यजु ष्कन्नम् प्रथमं देवयानम् |
धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते ||

té’vindanmánasā dī́dhyānā yájuḥ ṣkannám prathamám devayā́nam ǀ
dhātúrdyútānātsavitúśca víṣṇorā́ sū́ryādabharangharmámeté ǁ

te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam |
dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete ||

Padapāṭha

ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् ।
धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥

ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवऽयानम् ।
धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥

té ǀ avindan ǀ mánasā ǀ dī́dhyānāḥ ǀ yájuḥ ǀ skannám ǀ prathamám ǀ deva-yā́nam ǀ
dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ ā́ ǀ sū́ryāt ǀ abharan ǀ gharmám ǀ eté ǁ

te ǀ avindan ǀ manasā ǀ dīdhyānāḥ ǀ yajuḥ ǀ skannam ǀ prathamam ǀ deva-yānam ǀ
dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ ā ǀ sūryāt ǀ abharan ǀ gharmam ǀ ete ǁ

References

Maṇḍala · Sūkta · Ṛk
10.181.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.39.03
Maṇḍala · Anuvāka · Ṛk
10.12.136
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
1: Pratha Vāsiṣṭha; 2: Sapratha Bhāradvāja; 3: Gharma Saurya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.181.3

Interpretations

Sāyaṇa

ते धात्रादयो दीध्याना दीप्यमानाः सन्तो मनसा बुद्ध्याविन्दन्। अलभन्त। किं तत्। युजुर्यागसाधनम् स्कन्नं स्कन्दनीयमासेचनीयं प्रवृञ्चनसाधनं प्रथमं मुख्यं देवयानं देवानां प्राप्तिसाधनं घर्मम्। एवं धात्रादिभिः प्रथममुपलब्धं तं घर्मं धातोर्द्योतमानात्सवितुर्विष्णोः सूर्याच्चैत ऋत्विज आभरन्। अहरन्। आनीतवन्त इत्यर्थः॥३॥