Ṛgveda · Maṇḍala 10 · Sūkta 106
Ṛk 10.106.1
Saṃhitā
उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व ।
स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥
उभा उ नूनं तद् इद् अर्थयेथे वि तन्वाथे धियो वस्त्रापसेव |
सध्रीचीना यातवे प्रेम् अजीगः सुदिनेव पृक्ष आ तंसयेथे ||
ubhā́ u nūnám tádídarthayethe ví tanvāthe dhíyo vástrāpáseva ǀ
sadhrīcīnā́ yā́tave prémajīgaḥ sudíneva pṛ́kṣa ā́ taṃsayethe ǁ
ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva |
sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe ||
Padapāṭha
उ॒भौ । ऊं॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव ।
स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥
उभौ । ऊं इति । नूनम् । तत् । इत् । अर्थयेथे इति । वि । तन्वाथे इति । धियः । वस्त्रा । अपसाऽइव ।
सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाऽइव । पृक्षः । आ । तंसयेथे इति ॥
ubháu ǀ ūṃ íti ǀ nūnám ǀ tát ǀ ít ǀ arthayethe íti ǀ ví ǀ tanvāthe íti ǀ dhíyaḥ ǀ vástrā ǀ apásā-iva ǀ
sadhrīcīnā́ ǀ yā́tave ǀ prá ǀ īm ǀ ajīgaríti ǀ sudínā-iva ǀ pṛ́kṣaḥ ǀ ā́ ǀ taṃsayethe íti ǁ
ubhau ǀ ūṃ iti ǀ nūnam ǀ tat ǀ it ǀ arthayethe iti ǀ vi ǀ tanvāthe iti ǀ dhiyaḥ ǀ vastrā ǀ apasā-iva ǀ
sadhrīcīnā ǀ yātave ǀ pra ǀ īm ǀ ajīgariti ǀ sudinā-iva ǀ pṛkṣaḥ ǀ ā ǀ taṃsayethe iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.106.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.01.01
- Maṇḍala · Anuvāka · Ṛk
- 10.09.072
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bhūtāṃśa Kāśyapa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.