Ṛgveda · Maṇḍala 10 · Sūkta 106

Ṛk 10.106.11

Aśvins · Bhūtāṃśa Kāśyapa

The whole sūkta Link

Saṃhitā

ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मंत्रं॑ स॒रथे॒होप॑ यातं ।
यशो॒ न प॒क्वं मधु॒ गोष्वं॒तरा भू॒तांशो॑ अ॒श्विनोः॒ काम॑मप्राः ॥

ऋध्याम स्तोमं सनुयाम वाजम् आ नो मन्त्रं सरथेहोप यातम् |
यशो न पक्वम् मधु गोष्व् अन्तर् आ भूतांशो अश्विनोः कामम् अप्राः ||

ṛdhyā́ma stómam sanuyā́ma vā́jamā́ no mántram saráthehópa yātam ǀ
yáśo ná pakvám mádhu góṣvantárā́ bhūtā́ṃśo aśvínoḥ kā́mamaprāḥ ǁ

ṛdhyāma stomaṃ sanuyāma vājam ā no mantraṃ sarathehopa yātam |
yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ ||

Padapāṭha

ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् ।
यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥

ऋध्याम । स्तोमम् । सनुयाम । वाजम् । आ । नः । मन्त्रम् । सऽरथा । इह । उप । यातम् ।
यशः । न । पक्वम् । मधु । गोषु । अन्तः । आ । भूतऽअंशः । अश्विनोः । कामम् । अप्राः ॥

ṛdhyā́ma ǀ stómam ǀ sanuyā́ma ǀ vā́jam ǀ ā́ ǀ naḥ ǀ mántram ǀ sa-ráthā ǀ ihá ǀ úpa ǀ yātam ǀ
yáśaḥ ǀ ná ǀ pakvám ǀ mádhu ǀ góṣu ǀ antáḥ ǀ ā́ ǀ bhūtá-aṃśaḥ ǀ aśvínoḥ ǀ kā́mam ǀ aprāḥ ǁ

ṛdhyāma ǀ stomam ǀ sanuyāma ǀ vājam ǀ ā ǀ naḥ ǀ mantram ǀ sa-rathā ǀ iha ǀ upa ǀ yātam ǀ
yaśaḥ ǀ na ǀ pakvam ǀ madhu ǀ goṣu ǀ antaḥ ǀ ā ǀ bhūta-aṃśaḥ ǀ aśvinoḥ ǀ kāmam ǀ aprāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.106.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.6.02.06
Maṇḍala · Anuvāka · Ṛk
10.09.082
Devatā देवता
Aśvins
Ṛṣi ऋषि
Bhūtāṃśa Kāśyapa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.106.11

Interpretations

Sāyaṇa

हे अश्विनौ वयं स्तोमं त्रिवृत्पञ्चदशादिकमृध्याम। ऋध्यास् वर्धयेम। ऋधु वृद्धौ। अस्मादाशीर्लिङि किदाशिषीति यासुटः कित्त्वम्। वाजम् हविर्लक्षनमन्नं युवाभ्यां सनुयाम। प्रयच्छेम। षणु दाने तानादिकह् विधिलिङ्। वाक्यभेदादनिघातः। तस्माद्युवाम् सरथा सरथौ समानरथावेकमेव रथमारूढौ सन्ताविहास्मिन्कर्मनि सोऽस्मदीयं मन्त्रं मननीयं स्तोत्रमुपयातम्। उपागच्छतम्। गोष्वन्तर्गोरूधस्यवस्थितं पक्वं परिनतं अत एव मधु मधुरम् यशो न। यश इत्यन्ननाम। नश्चार्थे। क्षीराज्यादिलक्षणं महावीरेऽवनीयमानमन्नं चापेक्ष्यागच्छतमिति सम्बन्धः। एवमुक्तप्रकारेन भुतांश एतन्नामर्षिरश्विनोः काममभिलाषमात्मीयाभिः स्तुतिभिरप्राः। आपूरयत्। सम्पूर्णमकार्षीदित्यर्थः। प्रा पूरने आदादिकः। व्यत्ययेन मध्यमः। अत्राश्विने सूक्ते सर्वाण्यपि पदानि दुर्व्युत्पादान्यस्माभिर्दिङ्मात्रं प्रदर्शितानि। एवम् निरुक्तव्याकरनादिभिरर्थविशेषे बुद्धिमद्भिरुन्नेयानि॥११॥